प्रशस्तपत्रश्रवणा प्रमाणात्परितस्तता
चत्वारि तिलपात्राणि चतुर्दिक्षु प्रकल्पयेत्
कांस्योपदोहिनीं कृत्वा गन्धपुष्पैस्तु पूजिताम्
संक्रांत्यामुपरागे च सर्वकाले यदृच्छया
ब्राह्मणाय दरिद्राय श्रोत्रियायाहिताग्नये 104.
तादृशाय प्रदातव्या मधु धेनुर्नरोत्तमे
दद्याद्विप्राय धेनुं तां मन्त्रपूर्वां विचक्षणः आच्छाद्य वस्त्रयुग्मेन मुद्रिकावर्णमात्रकैः जलपूर्वं तु कर्त्तव्यं पश्चाद्यानं समर्पयेत्
प्रीयन्तां पितरो देवा मधुधेनो नमोऽस्तु ते
अहं गृह्णामि त्वां देवि कुटुम्बार्थे विशेषतः
मधुवातेति मन्त्रेण दद्यादाशुचिकेन तु
एवं यः कुरुते भक्त्या मधुधेनुं नराधिप
ब्राह्मणश्च त्रिरात्रं तु मधुपायससंयुतम्
यत्र नद्यो मधुवहा यत्र पायसकर्दमाः
तत्र भोगानथो भुङ्क्ते ब्रह्मलोकं स गच्छति
स भुक्त्वा विपुलान्भोगान्विष्णुलोकं स गच्छति 104.
नयते विष्णुसायुज्यं मधुधेनुप्रदानतः सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने मधुधेनुमाहात्म्यं नाम चतुरधिकशततमोऽध्यायः
अथ क्षीरधेनुदानविधिः क्षीरधेनुं प्रवक्ष्यामि तां निबोध नराधिप
गोचर्ममात्रमानेन कुशानास्तीर्य सर्वतः
तत्र कृत्वा कुण्डलिकां गोमयेन सुविस्तृताम्
सुवर्णमुखशृङ्गाणि चन्दनागुरुकाणि च
मुखं गुडमयं तस्या जिह्वां शर्करया तथा
इक्षुपादां दर्भरोमां सितकम्बलसंवृताम्
पुच्छं च नृपशार्दूल नवनीतमयस्तनीम्
चत्वारि तिलपात्राणि चतुर्दिक्ष्वपि विन्यसेत्
धूपदीपादिकं कृत्वा ब्राह्मणाय निवेदयेत् 105.
पादुकोपानहौ छत्रं दत्त्वा दानं समर्पयेत्
आप्यायस्वेति मन्त्रेण वेदोक्तेन विधानतः
आप्यायस्वेति मन्त्रेण क्षीरधेनुं प्रसादयेत्
दीयमानां प्रपश्यन्ति ते यान्ति परमां गतिम्