वाचा कृतं कर्मकृतं मनसा यद्विचिन्तितम् । मानकूटं तुलाकूटं कन्यागोऽर्थे उदाहृतम्
अनृतं नाशमायाति गुडधेनो द्विजार्पिता । दीयमानां प्रपश्यन्ति ते यान्ति परमां गतिम् ॥ यत्र क्षोरवहा नद्यो घृतपायसकर्दमाः । ऋषयो मुनयः सिद्धास्तत्र गच्छन्ति धेनुदाः
दश पूर्वान्दश परानात्भानञ्चैकविंशतिम् । विष्णुलोकं नयत्याशु गुडधेनोः प्रसादतः
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये । सर्वदैव प्रदातव्या पात्रं दृष्ट्वा महामते
श्रद्धान्वितेन दातव्या भुक्तिमुक्तिफलप्रदा । सर्वकामप्रदा नित्यं सर्वपापहरास्मृता
गुडधेनोः प्रसादात्तु सौभाग्यमखिल भवेत् । वैष्णवं पदमाप्नोति दौर्गत्यन्तस्य नश्यति
दशद्वादशसाहस्रा दश चाष्टौ च जन्मनि । न शोकदुःखदौर्गत्यं तस्य सञ्जायते क्वचित्
इति पठति शृणोति चेह सम्यक् मतिमपि ददाति योजनानाम् । स इह विभवैश्चिरं वसित्वा वसति चिरं दिवि देवतादिपूज्यः
त्र्यधिकशततमोऽध्यायः होतोवाच तद्वच्च शर्कराधेनुं शृणु राजन् यथार्थतः । अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे
धेनुं शर्करया राजन्कृत्वा भारचतुष्टयम् । उत्तमा कथ्यते सद्भिश्चतुर्थांशेन वत्सकम्
तदर्धं मध्यमा प्रोक्ता कनिष्ठा भारकेण तु । तद्वद्वत्सं प्रकुर्वीत चतुर्थांशेन तत्त्वतः
अथ कुर्यादष्टशतैरूर्ध्वं नृपतिसत्तम । स्वशक्त्या कारयेद्धेनुं तथात्मानं पीडयेत्
सर्वबीजानि संस्थाप्य चतुर्दिक्षु समन्ततः । सुवर्णस्य मुखं शृङ्गे मौक्तिकैर्नयने तथा
गुडेन तु मुख काये जिह्वा पिष्टमयी तथा । कम्बलं पट्टसूत्रेण कण्ठाभरणभूषिताम्
इक्षुपादां रौप्यखुरां तवनीतस्तनीं तथा । प्रशस्तपत्रश्रवणां सितचामरपभूषिताम्
पञ्चरत्नसमायुक्तां वस्त्रेणाच्छादितां तथा । गन्धपुष्पैरलंकृत्य ब्राह्मणाय निवेदयेत्
श्रोत्रियाय दरिद्राय साधुवृत्ताय धीमते । वेदवेदाङ्गविदुषे साग्निकाय कुटुम्बिने । अदुष्टाय प्रदातव्या न तु मत्सरिणे द्विजे
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये । एषु पुण्येषु कालेषु थथाविभवशक्तितः
सत्पात्रञ्च द्विजं दृष्ट्वा आगतं श्रोत्रियं गृहे । तादृशाय प्रदातव्या पुच्छदेशे विमृष्य च
पूर्वाभिमुखमास्थाय अथवा स उदङ्मुखः । गां पूर्वाभिमुखीं कृत्वा वत्समुत्तरतो न्यसेत्
दानकाले तु ये मन्त्रास्तान्पठित्वा समर्पयेत् । सम्पूज्य विधिवद्विप्रं मुद्रिकाकर्णभूषणैः
स्वशक्त्या दक्षिणा देया वित्तशाठ्यविवर्ज्जितः । हस्ते तु दक्षिणां दत्त्वा गन्धपुष्पसचन्दनाम् । धेनुं समर्पयेत्तस्य मुखञ्च च विलोकयेत्
एकाहं शर्कराहारो ब्राह्मणस्त्रिदिनं वसेत् । सर्वपापहरा धेनुः सर्वकामप्रदायिनी
सर्वकामसमृद्धस्तु जायते नात्र संशयः । दीयमानं प्रपश्यन्ति ते यान्ति परमां गतिम्
य इदं शृणुयाद् भक्त्या पठते वापि मानवः । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति
अथ मधुधेनुदानमाहात्म्यम् मधुधेनुं प्रवक्ष्यामि सर्वपातकनाशिनीम्
धेनुं मधुमयीं कृत्वा सम्पूर्णघटषोडशाम्
सौवर्णं तु मुखं कृत्वा शृङ्गाण्यगुरुचंदनैः
पादानिक्षुमयान्कृत्वा सितकम्बलसंवृतान्
ओष्ठौ पुष्पमयौ तस्या दन्ताः फलमयाः स्मृताः