सर्वपापविनिर्मुक्तः स्वर्गमेति जितेन्द्रियः
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने जलधेनुविधिर्नाम शततमोऽध्यायः
अथ रस धेनुदानमाहात्म्यम् रसधेनुविधानं ते कथयामि समासतः
रसस्य तु घटं राजन् सम्पूर्णं त्वैक्षवस्य तु
तुरीयांशेन वत्सं तु तत्पार्श्वे स्थापयेत्सुधीः
एवं कार्या रसैर्धेनुरिक्षुपादसमन्विता
सुवर्णशृंगाभरणा वस्त्रपुच्छा घृतस्तनी
दन्ताः फलमयास्तस्याः पृष्ठं ताम्रमयं शुभम्
सप्तव्रीहिसमायुक्तां चतुर्दिक्षु च दीपिताम्
चत्वारि तिलपात्राणि चतुर्दिक्षु निवेशयेत्
रसधेनुः प्रदातव्या स्वर्गकामेन नित्यदा
दाता च ग्राहकश्चैव एककालमभोजनः 101.
दीयमानां तु पश्यन्ति ते च यान्ति परां गतिम्
पूर्वोक्तैरेव मन्त्रैस्तु ततस्तां प्रार्थयेत्सुधीः
दशपूर्वान्परांश्चैव आत्मानं चैकविंशकम्
एषा ते कथिता राजन्रसधेनुरनुत्तमा
य इदं पठते नित्यं शृणुयादथ भक्तितः
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने रसधेनुदानमाहात्म्यं नाम एकाधिकशततमोऽध्यायः
गुडधेनुमाहात्म्यम् होतोवाच - गुडधेनुं प्रवक्ष्यामि सर्वकामार्थसाधिनीम् । अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशास्तृते
तस्योपरिकृतं वस्त्रं गुडमानीय पुष्कलम् । कृत्वा गुडमयीं धेनुं सवसाङ्कास्यदेहिनीम्
सौवर्णे मुखशृङ्गे च दन्ताश्च मणिमौक्तिकैः । ग्रीवा रत्नमयी त्वस्या घ्राणं गन्धमयन्तथा
शृङ्गे त्वगुरुकाष्ठेन पृष्ठं ताम्रमयं तथा । पुच्छं क्षौममयं तस्याः सर्वाभरणभूषिताम्
इक्षुपादां रौप्यखुरां कम्बलं पट्टसूत्रकम् । आच्छाद्य पट्टवस्त्रेण घण्टाचामरभूषिताम्
प्रशस्तपत्रश्रवणां नवनीतस्तनीं बुधः । फलैर्नानाविधस्तस्या उपशोभाम्प्रकल्पयेत्
उत्तमा गुडधेनुः स्यात्सदा धारचतुष्टयम् । भागार्धेन तु तौल्येन चतुर्थांशेन वत्सकम्
मध्यमा च तदर्धेन भारेणैकेन चाधमा । वित्तहीनो यथाशक्त्या शतैरष्टाभिरेव च
अत ऊर्ध्वन्तु कर्तव्या गृहवित्तानुसारतः । गन्धपुष्पादिभिः पूज्य ब्राह्मणाय निवेदयेत् ॥ श्रोत्रियाय प्रदातव्या सहस्रकनकेन तु । तदर्धेन महाराज तस्याप्यर्धेन वा पुनः
शतेन वा शतार्धेन यथाशक्त्या निवेदयेत् । गन्धपुष्पदिभिः पूज्य मुद्रिकाकर्णपत्रकैः
छत्रिकापादुके दत्त्वा इमं मन्त्रमुदीरयेत् । गुडधेनो महावीर्ये सर्वसम्पत्प्रदे शुभे
दानादस्माच्च भोदेवि भक्ष्यभोज्यं प्रयच्छ मे । प्राङ्मुखोवापि दाता च ब्राह्मणाय निवेदयेत्