विनीताश्व उवाच भुङ्क्ते स्वर्गं च विप्रेन्द्र तन्ममाचक्ष्व पृच्छतः ।।99.
होतोवाच चतुर्भिः कुडवैश्चैव प्रस्थ एकः प्रकीर्त्तितः
सा तु षोडशभिः कार्या चतुर्भिर् वत्सको भवेत्
पुच्छे प्रकल्पनीया सा घण्टाभरणाभूषिता
कांस्यदोहां रौप्यखुरां पूर्वधेनुविधानतः
कृष्णाजिनं धेनुवासो नन्दितां कल्पितां शुभाम्
सर्वौषधिसमायुक्तां मन्त्रपूतां तु दापयेत्
सर्वं सम्पादयास्माकं तिलधेनो द्विजार्पिता
भजस्व कामान्मां देवि तिलधेनो नमोऽस्तु ते
सर्वपापविनिर्मुक्तो विष्णुलोकं च गच्छति 99.
अथ जलधेनुदान विधिः जलधेनुं प्रवक्ष्यामि पुण्येऽह्नि विधिपूर्वकम्
तत्र मध्ये तु राजेन्द्र पूर्णं कुम्भं च विन्यसेत्
वासितं गन्धतोयेन तां धेनुं परिकल्पयेत्
वर्द्धनीकं(वर्द्धनकिं) महाराज यन्त्रपुष्पैः समन्वितम्
पंचरत्नानि निःक्षिप्य तस्मिन् कुम्भे नराधिप
धात्रीफलं सर्षपाश्च सर्वधान्यानि पार्थिव
एकं घृतमयं पात्रं द्वितीयं दधिपूरितम्
सुवर्णमुखचक्षूंषि शृंगं कृष्णांगरेषु च
ताम्रपृष्ठां कांस्यदोहां दर्भरोमसमन्विताम्
कम्बले पुष्पमालां च गुडास्यां शुक्तिदन्तिकाम् 100.
इक्षुपादां तु राजेन्द्र गन्धपुष्पोपशोभिताम्
गन्धपुष्पैः समभ्यर्च्य विप्राय विनिवेदयेत्
साधुविप्राय राजेन्द्र श्रोत्रियायाहिताग्नये
यो ददाति नरो राजन् यः पश्यति शृणोति च
ब्रह्महा पितृहा गोघ्नः सुरापो गुरुतल्पगः
विमुक्तः सर्वपापैस्तु विष्णुलोकं स गच्छति
जलधेनुं च यो दद्यात्सममेतन्नराधिप
ग्राहकोऽपि त्रिरात्रं वै तिष्ठेदेवं न संशयः
यत्र चाप्सरसां गीतं तत्र यान्ति जलप्रदाः
सर्वपापविनिर्मुक्तः विष्णुसायुज्यमाप्नुयुः 100.