भगवन्दातुमिच्छामि ब्राह्मणेभ्यो वसुन्धराम्
अन्नं देहि सदा राजन् सर्वकालसुखावहम् 99.
सर्वेषामेव दानानामन्नदानं विशिष्यते
तस्मात्सर्वप्रयत्नेन अन्नदानं ददस्व भोः
रत्नवस्त्रमलंकारान् श्रीमन्ति नगराणि च
प्रदत्तं ब्राह्मणस्याथ कुंजरानजिनानि च
पुरोहितमुवाचेदं वसिष्ठं जपतां वरम्
सुवर्णरौप्यताम्राणि यागं कृत्वा द्विजातिषु
वस्तु स्वल्पमिति ज्ञात्वा प्रभुः सोऽन्नं तु नाददत्
कालधर्मवशाद्देवि मृत्युः समभवत्तदा
क्षुधया पीडितो ह्यासीत्तृषया च विशेषतः
तत्र प्राग्जन्ममूर्त्तिश्च पुरा दग्धा महात्मनः 99.
पुनर्विमानमारुह्य दिवमाचक्रमे नृपः
तान्यस्थीनि लिहन्दृष्टो वसिष्ठेन महात्मना
एवमुक्तस्तदा राजा वसिष्ठेन महात्मना
भगवन्क्षुधितश्चास्मि अन्नपानं पुरा मया
एवमुक्तस्ततो राज्ञा वसिष्ठो मुनिपुंगवः
किं ते करोमि राजेंद्र क्षुधितस्य विशेषतः
रत्नहेमप्रदानेन भोगवान् जायते नरः
तन्न दत्तं त्वया राजन् स्तोकं मत्वा नराधिप अदत्तस्य च सम्प्राप्तिस्तन्ममाचक्ष्व पृच्छतः
तच्छृणुष्व नरव्याघ्र कथ्यमानं मयाऽनघ 99.
स सर्वमेधमारेभे स्वयं क्रतुवरं नृपः
नान्नं तेन तदा दत्तं स्वल्पं मत्वा यथा त्वया
कृत्वा पुण्यं विनीताश्वः सार्वभौमो नृपोत्तमः
असावपि क्षुधाविष्ट एवमेव गतो नृपः
विमानेनार्कवर्णेन भास्वता देववन्नृपः
पुरोहितं ददर्शाथ होतारं जाह्नवीतटे
क्षुधायाः कारणं किं मे स होता तमुवाच ह
घृतधेनुं च धेनुं च रसधेनुं च पार्थिव
तपते यावदादित्यस्तपते वापि चन्द्रमाः