तुष्टोऽस्मि रैभ्य भक्त्या ते स्तुत्या च द्विजसत्तम । तीर्थस्नानेन च विभो ब्रूहि यत्तेऽभिवाञ्छितम् ।। ७.
रैभ्य उवाच । गतिं मे देहि देवेश यत्र ते सनकादयः । वसेयं तत्र येनाहं त्वत्प्रसादाद् गदाधर ।। ७.
देव उवाच । एवमस्त्विति ते ब्रह्मन्नित्युक्त्वाऽन्तरधीयत । भगवानपि रैभ्यस्तु दिव्यज्ञानसमन्वितः ।। ७.
क्षणाद् बभूव देवेन परितुष्टेन चक्रिणा । जगाम यत्र ते सिद्धाः सनकाद्या महर्षयः ।। ७.
एतच्च रैभ्यनिर्द्दिष्टं स्तोत्रं विष्णोर्गदाभृतः । यः पठेत् स गयां गत्वा पिण्डदानाद् विशिष्यते ।। ७.
श्रीवराह उवाच । योऽसौ वसोः शरीरे तुव्याधो भूत्वा नृपस्य ह । स स्ववृत्त्यां स्थितः कालं चतुर्वर्षसहस्त्रिकम् ।। ८.
एकैकं स्वकुटुम्बार्थे हत्वा वनचरं मृगम् । भृत्यातिथिहुताशानां प्रीणनं कुरुते सदा ।। ८.
मिथिलायां वरारोहे सदा पर्वणि पर्वणि । पितॄणां कुरुते श्राद्धं स्वाचारेण विचक्षणः ।। ८.
अग्निं परिचरन् नित्यं वदन् सत्यं सुभाषितम् । प्राणयात्रानुसक्तस्तु योऽसौ जीवं न पातयेत् ।। ८.
एवं तु वसतस्तस्य धर्मबुद्धिर्महातपाः । पुत्रस्त्वर्जुनको नाम बभूव मुनिवद्वशी ।। ८.
तस्य कालेन महता चारित्रेण च धीमतः । बभूवार्ज्जुनकी नाम कन्या च वरवर्णिनी ।। ८.
तस्या यौवनकाले तु चिन्तयामास धर्मवित् । कस्येयं दीयते कन्या को वा योग्यश्च वै पुमान् ।। ८.
इति चिन्तयतस्तस्य मतङ्गस्य सुतं प्रति । धर्मव्याधस्य सुव्यक्तं प्रसन्नाख्यं प्रति ब्रुवन् ।। ८.
एवं संचिन्त्य मातङ्गः प्रसन्नं प्रति सोद्यतः । उवाच तस्य पितरं प्रसन्नायार्ज्जुनीं भवान् । गृहाण तपतां श्रेष्ठ स्वयं दत्तां महात्मने ।। ८.
मतङ्ग उवाच । प्रसन्नोऽयं मम सुतः सर्वशास्त्रविशारदः । गृह्णाम्यर्जुनकीं कन्यां त्वत्सुतां व्याधसत्तम ।। ८.
एवमुक्ते तदा कन्यां धर्मव्याधो महातपाः । मतङ्गपुत्राय ददौ प्रसन्नाय च धीमते ।। ८.
धर्मव्याधस्तदा कन्यां दत्वा स्वगृहमीयिवान् । साऽपि श्वशुरयोर्भर्तुः शुश्रीषणपराऽभवत् ।। ८.
अथ कालेन महता सा कन्याऽर्जुनकी शुभा । उक्ता श्वश्रुवा सुता पुत्रि जीवहन्तुस्त्वमीदृशी । न जानासि तपश्चर्तुं भर्त्तुराराधनं तथा ।। ८.
साऽपि स्वल्पापराधेन भर्त्सिता तनुमध्यमा । पितुर्वेश्मगता बाला रोदमाना मुहुर्मुहुः ।। ८.
पित्रा पृष्टा किमेतत् ते पुत्रि रोदनकारणम् । एवमुक्ता तदा सा तु कथयामास भामिनी ।। ८.
श्वश्व्राऽहमुक्ता तीव्रेण कोपेन महता पितः । जीवहन्तुः सुतेत्युच्चैरसकृद् व्याधजेति च ।। ८.
एतच्छ्रुत्वा स धर्मात्मा धर्मव्याधो रुषान्वितः । मतङ्गस्य गृहं सोऽथ गत्वा जनपदैर्वृतम् ।। ८.
तस्यागतस्य संबन्धी मतङ्गो जयतां वरः । आसनाद्यर्ध्यपाद्येन पूजयित्वेदमब्रवीत् । किमागमनकृत्यं ते किं करोम्यागतक्रियाम् ।। ८.
व्याध उवाच । भोजनं किंचिदिच्छामि भोक्तुं चैतन्यवर्जितम् । कौतूहलेन येनाहमागतो भवतो गृहम् ।। ८.
मतङ्ग उवाच । गोधूमा व्रीमयश्चैव संस्कृता मम वेश्मनि । भुज्यतां धर्मविच्छ्रेष्ठ यथाकामं तपोधन ।। ८.
व्याध उवाच । पश्यामि कीदृशास्ते हि गोधूमा व्रीहयो यवाः । स्वरूपेण च सन्त्येते येन वो वेद्मि सत्तम ।। ८.
श्रीवराह उवाच । एवमुक्ते मतङ्गेन शूर्पं गोधूमपूरितम् । अपरं तत्र व्रीहीणां धर्मव्याधाय दर्शितम् ।। ८.
दृष्ट्वा व्रीहीन् सगोधूमान् धर्मव्याधो वरासनात् । उत्थाय गन्तुमारेभे मतङ्गेन निवारितः ।। ८.
किमर्थं गन्तुमारब्धं त्वया वद महामते । अभुक्तेनैव संसिद्धं मद्गृहे चान्नमुत्तमम् । पाचयित्वा स्वयं चैव कस्मात् त्वं नाद्य भुञ्जसे ।। ८.
व्याध उवाच । सहस्त्रशः कोटिशश्च जीवान् हंसि दिने दिने । अथेदृशस्य पापस्य कोऽन्नं भुञ्जति सत्पुमान् ।। ८.