रौद्रेण ज्ञानहेतोश्च लोकपालपदाप्तये
भवेदव्याहतं ज्ञानं श्रीमान्विप्रो विचक्षणः 99.
जायते विष्णुसदृशः सद्यो राजाथवा भवेत् पूजयीत स्वशास्त्रोक्तविधानेन विधानवित्
एवं सम्पूज्य देवांश्च लोकपालान् प्रसन्नधीः आग्नेयी वारुणी दग्धा वायुना विधिना ततः
सौमेनाप्यायिता पश्चाच्छ्रावयेत्समयान्बुधः
रुद्रमादित्यमग्निं च लोकपालग्रहांस्ततः
एवं तु समयं ख्याप्य पश्चाद्धोमं तु कारयेत्
षोडशाक्षरमन्त्रेण होमयेज्ज्वलिताग्नये
त्रिभिराहुतिभिश्चापि देवदेवस्य सन्निधौ
हस्त्यश्वकटकादीनि हेमग्रामादिकं नृपः
एवं कृते तु यत्पुण्यं माहात्म्यं जायते धरे
दीक्षितात्मा पुनर्भूत्वा वराहं शृणुयाद्यदि 99.
जप्ताः स्युः पुष्करे तीर्थे प्रयागे सिन्धुसङ्गमे
ग्रहणे विषुवे चैव यत्फलं जपतां भवेत्
देवा अपि तपः कृत्वा ध्यायंति च वदंति च
वराहं षोडशात्मानं त्यक्त्वा देहं कदा वयम्
यास्यामः परमं स्थानं यद्गत्वा न पुनर्भवेत्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
स्वर्गवासे स्थितो ह्यासीच्छ्वेतो राजा महायशाः
स महीं सकलान्देवि सपल्लववनद्रुमाम्
भगवन्दातुमिच्छामि ब्राह्मणेभ्यो वसुन्धराम्
अन्नं देहि सदा राजन् सर्वकालसुखावहम् 99.
सर्वेषामेव दानानामन्नदानं विशिष्यते
तस्मात्सर्वप्रयत्नेन अन्नदानं ददस्व भोः
रत्नवस्त्रमलंकारान् श्रीमन्ति नगराणि च
प्रदत्तं ब्राह्मणस्याथ कुंजरानजिनानि च
पुरोहितमुवाचेदं वसिष्ठं जपतां वरम्
सुवर्णरौप्यताम्राणि यागं कृत्वा द्विजातिषु
वस्तु स्वल्पमिति ज्ञात्वा प्रभुः सोऽन्नं तु नाददत्
कालधर्मवशाद्देवि मृत्युः समभवत्तदा