भगवंस्त्वत्प्रसादेन संसारार्णवतारणम्
एवमभ्यर्च्य मेधावी गुरुं विष्णुमिवाग्रतः
क्षीरवृक्षसमुद्भूतं दन्तकाष्ठं समन्त्रकम् 99.
स्वप्नान्दृष्ट्वा गुरोरग्रे श्रावयेत विचक्षणः
एकादश्यामुपोष्यैवं स्नात्वा देवालयं व्रजेत्
लक्षणैर्विविधैर्भूमिं लक्षयित्वा विधानतः
अथवा अष्टपत्रं च लिखित्वा दर्शयेद्बुधः
वर्णानुक्रमतः शिष्यान्पुष्पहस्तान्प्रवेशयेत्
तदानीं पूर्वतो देवमिद्रपूर्वं तु पूजयेत्
स्वदिक्षु तद्वद्याम्यायां नेर्ऋत्यां निर्ऋतिं न्यसेत्
धनदं चोत्तरे न्यस्य रुद्रमीशानगोचरे। पूज्यैवं तु विधानेन दिक्क्षेत्रेषु व्यवस्थिताम्
पद्ममध्ये तथा विष्णुमर्च्चयेत्परमेश्वरम्
अनिरुद्धं तथा पूज्य पश्चिमे चोत्तरे तथा 99.
ऐशान्यां विन्यसेच्छंखमाग्नेय्यां चक्रमेव तु
ऐशान्यां मुसलं पूज्य दक्षिणे गरुडं न्यसेत्
धनुश्चैव तु खड्गं तु देवस्य पुरतो न्यसेत्। श्रीवत्सं कौस्तुभं चैव नवमं तत्र कल्पयेत्
एवं पूज्य यथान्यायं देवदेवं जनार्द्दनम्
श्रीकामं स्नापयेत्तद्वदैन्द्रेण तु घटेन ह
मृत्युञ्जयविधानाय याम्येन स्नपनं तथा
शान्तये वारुणेनाशु पापनाशाय वायवे
रौद्रेण ज्ञानहेतोश्च लोकपालपदाप्तये
भवेदव्याहतं ज्ञानं श्रीमान्विप्रो विचक्षणः 99.
जायते विष्णुसदृशः सद्यो राजाथवा भवेत् पूजयीत स्वशास्त्रोक्तविधानेन विधानवित्
एवं सम्पूज्य देवांश्च लोकपालान् प्रसन्नधीः आग्नेयी वारुणी दग्धा वायुना विधिना ततः
सौमेनाप्यायिता पश्चाच्छ्रावयेत्समयान्बुधः
रुद्रमादित्यमग्निं च लोकपालग्रहांस्ततः
एवं तु समयं ख्याप्य पश्चाद्धोमं तु कारयेत्
षोडशाक्षरमन्त्रेण होमयेज्ज्वलिताग्नये
त्रिभिराहुतिभिश्चापि देवदेवस्य सन्निधौ
हस्त्यश्वकटकादीनि हेमग्रामादिकं नृपः