इदानीमात्मना सार्द्धं मुक्तिकालो मतोऽस्ति ते
यद्गत्वा न पुनर्जन्म भवतीति न संशयः
ध्यात्वा नारायणं देवं तद्देहे तौ लयं गतौ
श्रावयेद्वापि स नरो गतिमिष्टामवाप्नुयात्
अथ तिलधेनुमाहात्म्यम् या सा माया शरीरात्तु ब्रह्मणोऽव्यक्तजन्मनः
सैव नन्दा भवेद्देवी देवकार्यचिकीर्षया
वैष्णव्याख्या ततो देव कथमेतद्धि शंस मे द्वयं जगद्धिता देवी गङ्गा शङ्करसुप्रिया
क्वचित्किंचिद्भवेद्दत्तं स्वपदं वेद सर्ववित्
महिषाख्यः परः पश्चात्स वै चैत्रासुरो हतः
अथवा ज्ञानशक्तिः सा महिषोऽज्ञानमूर्त्तिमान्
मूर्त्तिपक्षे चेतिहासममूर्ते चैकवद्धृदि
इदानीं शृणु मे देवि पंचपातकनाशनम्
इह जन्मनि दारिद्र्यव्याधिकुष्ठादिपीडितः
तस्य सद्यो भवेल्लक्ष्मीरायुर्वित्तं सुतः सुखम् 99.
नारायणं परं देवं यः पश्यति विधानतः
कार्तिके मासि शुक्लायां द्वादश्यां तु विशेषतः
संक्रांत्यां वा महाभागं चन्द्रसूर्यग्रहे तथा
तस्य सद्यो भवेत्तुष्टिः पापध्वंसश्च जायते
उपासन्नं ततो ज्ञात्वा हृदयेनावधारयेत्
संवत्सरं गुरोर्भक्तिं कुर्युर्विष्णोरिवाचलाम्
भगवंस्त्वत्प्रसादेन संसारार्णवतारणम्
एवमभ्यर्च्य मेधावी गुरुं विष्णुमिवाग्रतः
क्षीरवृक्षसमुद्भूतं दन्तकाष्ठं समन्त्रकम् 99.
स्वप्नान्दृष्ट्वा गुरोरग्रे श्रावयेत विचक्षणः
एकादश्यामुपोष्यैवं स्नात्वा देवालयं व्रजेत्
लक्षणैर्विविधैर्भूमिं लक्षयित्वा विधानतः
अथवा अष्टपत्रं च लिखित्वा दर्शयेद्बुधः
वर्णानुक्रमतः शिष्यान्पुष्पहस्तान्प्रवेशयेत्
तदानीं पूर्वतो देवमिद्रपूर्वं तु पूजयेत्
स्वदिक्षु तद्वद्याम्यायां नेर्ऋत्यां निर्ऋतिं न्यसेत्