सशल्यश्च वराहोऽयं ममाश्रममुपागतः
नाध्यगच्छत बुद्धिश्च क्षणात्तस्य व्यजायत
दृष्टं चक्षुर्निहितं जङ्गमेषु जिह्वा वक्तुं मृगयौ तद्विसृष्टम्
न चातिरिक्तोऽस्ति वरः पृथिव्यां यद्दृष्टो मे पुरतो देवदेवाः
मुक्तिं चाहं व्रजामीति द्वितीयोऽस्तु वरो मम ९८.
अदर्शनं गतौ देवो सोऽपि तत्र व्यवस्थितः
यावदास्ते शुभे देशे कृतकृत्यो महामुनिः
पृथ्वीं प्रदक्षिणीकृत्य तीर्थहेतोर्विचक्षण
पाद्याचमनगोदानेः कृतासनपरिग्रहः
उवाच विनयापन्नं प्राञ्जलिं पुरतः स्थितम् पुत्र सिद्धोऽसि तपसा ब्रह्मभूतोऽसि सुव्रत
इदानीमात्मना सार्द्धं मुक्तिकालो मतोऽस्ति ते
यद्गत्वा न पुनर्जन्म भवतीति न संशयः
ध्यात्वा नारायणं देवं तद्देहे तौ लयं गतौ
श्रावयेद्वापि स नरो गतिमिष्टामवाप्नुयात्
अथ तिलधेनुमाहात्म्यम् या सा माया शरीरात्तु ब्रह्मणोऽव्यक्तजन्मनः
सैव नन्दा भवेद्देवी देवकार्यचिकीर्षया
वैष्णव्याख्या ततो देव कथमेतद्धि शंस मे द्वयं जगद्धिता देवी गङ्गा शङ्करसुप्रिया
क्वचित्किंचिद्भवेद्दत्तं स्वपदं वेद सर्ववित्
महिषाख्यः परः पश्चात्स वै चैत्रासुरो हतः
अथवा ज्ञानशक्तिः सा महिषोऽज्ञानमूर्त्तिमान्
मूर्त्तिपक्षे चेतिहासममूर्ते चैकवद्धृदि
इदानीं शृणु मे देवि पंचपातकनाशनम्
इह जन्मनि दारिद्र्यव्याधिकुष्ठादिपीडितः
तस्य सद्यो भवेल्लक्ष्मीरायुर्वित्तं सुतः सुखम् 99.
नारायणं परं देवं यः पश्यति विधानतः
कार्तिके मासि शुक्लायां द्वादश्यां तु विशेषतः
संक्रांत्यां वा महाभागं चन्द्रसूर्यग्रहे तथा
तस्य सद्यो भवेत्तुष्टिः पापध्वंसश्च जायते
उपासन्नं ततो ज्ञात्वा हृदयेनावधारयेत्
संवत्सरं गुरोर्भक्तिं कुर्युर्विष्णोरिवाचलाम्