यद्व्रतं नग्नकापालं यद्बाभ्रव्यं त्वया कृतम्
मां पुरस्कृत्य देवस्त्वं पूज्यसे यैर्विधानतः
कथयस्व महादेव सविधानं समासतः
देवैर्जयेति संतुष्टः कैलासनिलयं ययौ
देवा अपि ययुः खं च स्वस्थानं ते यथागतम्
चरितं यच्च देवस्य वित्तं समभवद्भुवि
इति श्रीवराहपुराणे रुद्रमाहात्म्यं नाम सप्तनवतितमोऽध्यायः
अथ पर्वाध्यायः योऽसौ सत्यतपा नाम लुब्धो भूत्वा द्विजो बभौ
दुर्वासाः संश्रुतार्थश्च हिमवन्तं नगं ययौ
कीदृशं तन्ममाचक्ष्व महत्कौतूहलं विभो स हि सत्यतपा पूर्वं भृगुवंशोद्भवो द्विजः
दस्युसंसर्गसम्भूतो दस्युवत्समजायत
बभौ दुर्वाससा सम्यग्बोधितश्च विशेषतः
तस्यास्तीरे शिला दिव्या नाम्ना चित्रशिला धरे
तत्र सत्यतपाः स्थित्वा तपः कुर्वन्महातपाः
चिच्छेद चांगुलीमेकां वामतर्जनिकां मुनिः
न लोहितं न मांसं तु न मज्जा तत्र दृश्यते
तस्मिन् भद्रवटे चैकं मिथुनं किन्नरं स्थितम् ९८.
प्रभाते विमले प्राप्तमिन्द्रलोकमिति स्मृतिः
पृष्टाः किंचिदिहाश्चर्यमपूर्वं कथ्यतामिति
स्थितं किन्नरयोस्तच्च वाक्यं चेदमुवाच ह
यदेतत्सत्यतपसः समवोचत्ततः शुभे
पुष्यभद्रानदी तीरे महदाश्चर्यमुत्तमम्
स्रवणं भस्मनश्चैव श्रुतं सर्वं शशंस ह
आगच्छ विष्णो गच्छामो हिमवत्पार्श्वमुत्तमम्
एवमुक्तस्ततो विष्णुर्वाराहं रूपमग्रहीत्
विष्णुर्वाराहरूपेण ऋषिदृष्टिपथे स्थितः
तावदिन्द्रो धनुष्पाणिस्तीक्ष्णसायकधृग्वने ९८.
भगवन्निह दृष्टस्ते वराहः पृथुलो महान्
एवमुक्तो मुनिस्तेन चिन्तयामास तत्क्षणात्
नो चेत्कुटुंबः क्षुधया सीदत्यस्य न संशयः