सुशुद्धभावं विभवैरुपावृतं श्रियावृतं विगतमलं विचक्षणम् । क्षितीश्वरैरपगतकिल्बिषैः स्तुतं गदाधरं प्रणमति यः सुखं वसेत् ।। ७.
सुरासुरैरर्च्चितपादपङ्कजं केयूरहाराङ्गदमौलिधारिणम् । अब्धौ शयानं च रथाङ्गपाणिनं गदाधरं प्रणमति यः सुखं वसेत् ।। ७.
सितं कृते त्रेतायुगेऽरुणं विभुं तथा तृतीये पीतवर्णमच्युतम् । कलौ घनालिप्रतिमं महेश्वरं गदाधरं प्रणमति यः सुखं वसेत् ।। ७.
बीजोद्भवो यः सृजते चतुर्मुख- स्तथैव नारायणरूपतो जगत् । प्रपालयेद् रुद्रवपुस्तथान्तकृद् गदाधरो जयतु षडर्द्धमूर्तिमान् ।। ७.
सत्त्वं रजश्चैव तमो गुणास्त्रय- स्त्वेतेषु नान्यस्य समुद्भवः किल । स चैक एव त्रिविधो गदाधरो दधातु धैर्यं मम धर्ममोक्षयोः ।। ७.
संसारतोयार्णवदुःखतन्तुभि- र्वियोगनक्रक्रमणैः सुभीषणैः । मज्जन्तमुच्चैः सुतरां महाप्लवे गदाधरो मामु दधातु पोतवत् ।। ७.
स्वयं त्रिमूर्तिः स्वमिवात्मनात्मनि स्वशक्तितश्चाण्डमिदं ससर्ज्ज ह । तस्मिञ्जलोत्थासनमार्यतेजसं ससर्ज्ज यस्तं प्रणतोऽस्मि भूधरम् ।। ७.
मत्स्यादिनामानि जगत्सु केवलं सुरादिसंरक्षणतो वृषाकपिः । मुख्यस्वरूपेण समन्ततो विभु- र्गदाधरो मे विदधातु सद्गतिम् ।। ७.
श्रीवराह उवाच । एवं स्तुतस्तदा विष्णुर्भक्त्या रैभ्येण धीमता । प्रादुर्बभूव सहसा पीतवासा जनार्दनः ।। ७.
शङ्खचक्रगदापाणिर्गरुडस्थो वियद्गतः । उवाच मेघगम्भीरधीरवाक् पुरुषोत्तमः ।। ७.
तुष्टोऽस्मि रैभ्य भक्त्या ते स्तुत्या च द्विजसत्तम । तीर्थस्नानेन च विभो ब्रूहि यत्तेऽभिवाञ्छितम् ।। ७.
रैभ्य उवाच । गतिं मे देहि देवेश यत्र ते सनकादयः । वसेयं तत्र येनाहं त्वत्प्रसादाद् गदाधर ।। ७.
देव उवाच । एवमस्त्विति ते ब्रह्मन्नित्युक्त्वाऽन्तरधीयत । भगवानपि रैभ्यस्तु दिव्यज्ञानसमन्वितः ।। ७.
क्षणाद् बभूव देवेन परितुष्टेन चक्रिणा । जगाम यत्र ते सिद्धाः सनकाद्या महर्षयः ।। ७.
एतच्च रैभ्यनिर्द्दिष्टं स्तोत्रं विष्णोर्गदाभृतः । यः पठेत् स गयां गत्वा पिण्डदानाद् विशिष्यते ।। ७.
श्रीवराह उवाच । योऽसौ वसोः शरीरे तुव्याधो भूत्वा नृपस्य ह । स स्ववृत्त्यां स्थितः कालं चतुर्वर्षसहस्त्रिकम् ।। ८.
एकैकं स्वकुटुम्बार्थे हत्वा वनचरं मृगम् । भृत्यातिथिहुताशानां प्रीणनं कुरुते सदा ।। ८.
मिथिलायां वरारोहे सदा पर्वणि पर्वणि । पितॄणां कुरुते श्राद्धं स्वाचारेण विचक्षणः ।। ८.
अग्निं परिचरन् नित्यं वदन् सत्यं सुभाषितम् । प्राणयात्रानुसक्तस्तु योऽसौ जीवं न पातयेत् ।। ८.
एवं तु वसतस्तस्य धर्मबुद्धिर्महातपाः । पुत्रस्त्वर्जुनको नाम बभूव मुनिवद्वशी ।। ८.
तस्य कालेन महता चारित्रेण च धीमतः । बभूवार्ज्जुनकी नाम कन्या च वरवर्णिनी ।। ८.
तस्या यौवनकाले तु चिन्तयामास धर्मवित् । कस्येयं दीयते कन्या को वा योग्यश्च वै पुमान् ।। ८.
इति चिन्तयतस्तस्य मतङ्गस्य सुतं प्रति । धर्मव्याधस्य सुव्यक्तं प्रसन्नाख्यं प्रति ब्रुवन् ।। ८.
एवं संचिन्त्य मातङ्गः प्रसन्नं प्रति सोद्यतः । उवाच तस्य पितरं प्रसन्नायार्ज्जुनीं भवान् । गृहाण तपतां श्रेष्ठ स्वयं दत्तां महात्मने ।। ८.
मतङ्ग उवाच । प्रसन्नोऽयं मम सुतः सर्वशास्त्रविशारदः । गृह्णाम्यर्जुनकीं कन्यां त्वत्सुतां व्याधसत्तम ।। ८.
एवमुक्ते तदा कन्यां धर्मव्याधो महातपाः । मतङ्गपुत्राय ददौ प्रसन्नाय च धीमते ।। ८.
धर्मव्याधस्तदा कन्यां दत्वा स्वगृहमीयिवान् । साऽपि श्वशुरयोर्भर्तुः शुश्रीषणपराऽभवत् ।। ८.
अथ कालेन महता सा कन्याऽर्जुनकी शुभा । उक्ता श्वश्रुवा सुता पुत्रि जीवहन्तुस्त्वमीदृशी । न जानासि तपश्चर्तुं भर्त्तुराराधनं तथा ।। ८.
साऽपि स्वल्पापराधेन भर्त्सिता तनुमध्यमा । पितुर्वेश्मगता बाला रोदमाना मुहुर्मुहुः ।। ८.
पित्रा पृष्टा किमेतत् ते पुत्रि रोदनकारणम् । एवमुक्ता तदा सा तु कथयामास भामिनी ।। ८.