पुनरब्दद्वयं भ्रान्तस्तीर्थे तीर्थे हरः स्वयम् ।। कपालं त्यक्तुकामः सन्तद्धस्तात्तत्तु नापतत्
पुनरब्दद्वयं भ्रान्तो ब्रह्माण्डं तीर्थकारणात्
त्यजतोऽपि न तद्धस्ताच्च्यवते भूतधारिणि
ततोऽन्यद्वर्षमेकं तु वर्त्तते हिमवद्गिरौ
पुनरब्दद्वयं चान्यत्परमेष्ठी वृषाकपिः
कस्यचित्त्वथ कालस्य द्वादशेऽब्दे धराधरे
गङ्गायां देवदेवेशो यावन्मज्जति भामिनि
कपालमोचनं नाम ततस्तीर्थमनुत्तमम् 97.
गत्वा हरिहरक्षेत्रं स्नात्वा देवाङ्गदे तथा
तत्र स्नात्वा तथा नत्वा त्रिजलेश्वरसंज्ञितम्
द्वादशाब्दैर्गतवतः सीमाचारिगणैस्तथा
कपालमोचनं तीर्थं ततो जातमघापहम्
रुद्रो विशुद्धिमापन्नो मुक्तः स ब्रह्महत्यया
यत्राप्लुतो नरो भक्त्या ब्रह्महा तु विशुध्यति
आगतो देवसहितो वाक्यं चेदमुवाच ह भव रुद्र विशालाक्ष लोकमार्गव्यवस्थित
(भव रुद्र विरूपाक्ष लोकमार्गे व्यास्थितः ) कपालं गृह्य यद्भ्रान्तं कपालव्यग्रपाणिना
यच्च ते बभ्रुता जाता हिमवत्यचलोत्तमे
यच्चेदानीं विशुद्धस्य तीर्थेऽस्मिन्देहशुद्धता 97.
ये पुरस्कृत्य देवास्त्वां पूज्यं यद्विधिनान्विताः
व्रतानि कुरुते देव त्वत्कृतानि हि पुत्रक
यद्व्रतं नग्नकापालं यद्बाभ्रव्यं त्वया कृतम्
मां पुरस्कृत्य देवस्त्वं पूज्यसे यैर्विधानतः
कथयस्व महादेव सविधानं समासतः
देवैर्जयेति संतुष्टः कैलासनिलयं ययौ
देवा अपि ययुः खं च स्वस्थानं ते यथागतम्
चरितं यच्च देवस्य वित्तं समभवद्भुवि
इति श्रीवराहपुराणे रुद्रमाहात्म्यं नाम सप्तनवतितमोऽध्यायः
अथ पर्वाध्यायः योऽसौ सत्यतपा नाम लुब्धो भूत्वा द्विजो बभौ
दुर्वासाः संश्रुतार्थश्च हिमवन्तं नगं ययौ
कीदृशं तन्ममाचक्ष्व महत्कौतूहलं विभो स हि सत्यतपा पूर्वं भृगुवंशोद्भवो द्विजः