तेन चेष्टुं भवेत्सर्वं त्रैलोक्यं सचराचरम्
रत्नान्यश्वास्तथा गावो दासा दास्यो भवन्ति हि
श्रीवराह उषाच रुद्धस्य खलु माहात्म्यं सकलं कीर्तितं मया
नवकोट्यस्तु चामुण्डा भभिन्ना व्यवस्थिताः
अष्टादश तथा कोट्यो वैष्णव्या भेदू उच्यते
या ब्रह्मशाक्तः सत्त्वस्था सा ह्यनन्ता प्रकार्तिता
सर्वस भगवान् रुखः सर्वगश्च पतिर्भवेत्
इति श्रीवराहपुराणे त्रिशक्तिमाहात्म्ये त्रिशक्ति रहस्यं नाम षण्णवतितमोऽध्यायः
वराह उवाच येन ज्ञातेन पापेभ्यो मुच्यते नात्र संशयः
ब्रह्मणा तु यदा सृष्टः पूर्वं रुद्रो वरानने
तदा कौतूहलाद्ब्रह्मा स्कन्धे तं जगृहे प्रभुः
जन्मतश्च शिरो यद्धि पंचमं तज्जगाद ह
कपालिन् रुद्र बभ्रोऽथ भव कैरात सुव्रत
एवमुक्तस्तदा रुद्रो भविष्यैर्नामभिर्भवः
वामाङ्गुष्ठनखेनाद्यं प्राजापत्यं विचक्षणः
तस्मिन्निकृत्ते शिरसि प्राजापत्यं त्रिलोचनः
रुद्र उवाच नश्यते च कथं पापं ममैतद्वद सुव्रत
ब्रह्मोवाच समयाचारसंयुक्तं कृत्वा स्वेनैव तेजसा ।।97.
एवमुक्तस्तदा रुद्रो ब्रह्मणाऽव्यक्तमूर्त्तिना
तत्र स्थित्वा महादेवस्तच्छिरो बिभिदे त्रिधा
यज्ञोपवीतं केशं तु महास्थ्नाक्षमणींस्तथा
अपरं खण्डशः कृत्वा जटाजूटे न्यवेशयत्
सप्तद्वीपवतीं पुण्यां मज्जंस्तीर्थेषु नित्यशः
सरस्वतीं ततो गत्वा यमुनासङ्गमं ततः
वितस्तां चन्द्रभागां च गोमतीं सिन्धुमेव च
नेपालं च ततो गत्वा ततो रुद्रमहालयम्
महेश्वरं ततो गत्वा गयां पुण्यामथागमत्
एवं वेगेन सकलं ब्रह्माण्डं भूतधारिणि 97.
परिधानं तु कौपीनं नग्नः कापालिकोऽभवत्
तस्मिंस्तु पतिते देवि नग्नः कापालिकोऽभवत्