यावन्त्यस्या महाशक्त्यास्तावद् रूपाणि शंकरः । कृतवांस्ताश्च भजते पतिरूपेण सर्वदा ।। ९५.
यश्चाराधयते तास्तु रुद्रस्तुष्टो भविष्यति । सिद्ध्यन्ते तास्तदा देव्यो मन्त्रिणो नात्र संशयः ।। ९५.
अथ त्रिशक्तिरहरये रौद्रीव्रतम् या सा नील गिरि याता तपसे धृतमानसा
तपः कृत्वा चिरं कालं पालयाम्याखलं जगत्
तरयाः कालान्तरे देव्यास्तपन्यास्तप उत्तमम्
समुद्रमध्ये रत्नाढ्यं पुरमस्ति महावनम्
अनेकशतसाहस्रकेटिट्युत्तरोत्तरैः
कालेन महता चासौ लोकपालपुराण्यथ
उत्तिष्ठतस्तस्य महासुरस्य समुद्रतोयं ववृथेऽतिमात्रम्
अन्तःस्थितानेकसुरारि सङ्कवाद्विचित्रवमयुधचित्रशोभम्
तत्र द्विपा दैत्यवरैरुपेताः समानघण्टायुत किंकिणीकाः
अश्वास्तथा काञ्चनपीठनद्धा रोडैस्तु युक्ताः सितचामरैश्च
रथा रविस्यन्दनतुल्यवेगाः सुचक्रदण्डाक्षत्रिवेणुयुक्ताः
तथैव योधाः स्थगितेतरेतास्ततर्षिको ये वरतूणपणियः
देवेषु चैव भरेषु विनिर्गत्य ज्दात्ततः
युयोध च सुरैः साढे रुदैत्यपतिस्तथा । सुदूर्मुसलधेरैः शरैर्दण्डायुधैस्तथा
जनुदैरयाः सुरान्संख्य सुराश्चैव तथासुरान्
असुरैनिर्जिताः सद्यो दुद्रुवुर्विमुखा भृशम्
असुरः सर्वदेवानामन्वधावत वीर्यवान् । ततो देवगणाः सर्वे द्रवन्तो भयावह्वलाः
नीले गिरिवर जग्मुर्यत्र देवी व्यवास्थता
संहारकारिणी देवी कालरात्रीत तां विदुः
मा भेप्टेत्युच्चकैदेवी तानुवाच सुरोत्तमान् किमियं व्याकुला देवा गतिर्व उपलक्ष्यते
कथयध्वं द्रुतं देवाः सर्वथा भयकार णम् ।। देवा ऊचुः । अयमायाति दैत्येन्द्रो रुरुभीमपराक्रमः
एतस्य भातान् रक्षस्व त्वं देवान्परमेश्वार
जहास परया प्रीत्या देवानां पुरतः शुभा
याभिर्विश्वमिदं व्याप्तं विकृताभैरनेकशः
सर्वाः शूलधरा भीमाः सर्वाश्चापधराः शुभाः ॥ ताः सः काटिशो देव्यस्त दे। वेष्टय संस्थिताः
युयुधुदानवैः सार्धं बद्धतूणा महाबलाः
देवाश्च सर्वे सम्पन्ना युयुधुनगं बलम्
तत्सर्वं दानवबलमनयद्यमसादनम्