विकरालमुखी देवि ज्वालामुखि नमोऽस्तु ते । सर्वसत्त्वहिते देवि सर्वदेवि नमोऽस्तु ते ।। ९५.
इति स्तुता तदा देवी रुद्रेण परमेष्ठिना । तुतोष परमा देवी वाक्यं चेदमुवाच ह । वरं वृणीष्व देवेश यत् ते मनसि वर्त्तते ।। ९५.
रुद्र उवाच । स्तोत्रेणानेन ये देवि त्वां स्तुवन्ति वरानने । तेषां त्वं वरदा देवि भव सर्वगता सती ।। ९५.
यश्चेमं त्रिप्रकारं तु देवि भक्त्या समन्वितः । स पुत्रपौत्रपशुमान् समृद्धिमुपगच्छति ।। ९५.
यश्चेमं श्रृणुयाद् भक्त्या त्रिशक्तयास्तु समुद्भवम् । सर्वपापविनिर्मुक्तः पदं गच्छत्यनामयम् ।। ९५.
एवं स्तुत्वा भवो देवीं चामुण्डां परमेश्वरीम् । क्षणादन्तर्हितो देवस्ते च देवा दिवं ययुः ।। ९५.
य एतां वेद वै देव्या उत्पत्तिं त्रिविधां धरे । सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति ।। ९५.
भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः । अष्टम्यां च चतुर्दश्यामुपवासी नरोत्तमः । संवत्सरेण लभते राज्यं निष्कण्टकं नृपः ।। ९५.
एषा त्रिशक्तिरुद्दिष्टा नयसिद्धान्तगामिनी । एषा श्वेता परा सृष्टिः सात्त्विकी ब्रह्मसंस्थिता ।। ९५.
एषैव रक्ता रजसि वैष्णवी परिकीर्त्तिता । एषैव कृष्णा तमसि रौद्री देवी प्रकीर्त्तिता ।। ९५.
परमात्मा यथा देव एक एव त्रिधा स्थितः । प्रयोजनवशाच्छक्तिरेकैव त्रिविधाऽभवत् ।। ९५.
य एतं श्रृणुयात् सर्गं त्रिशक्त्याः परमं शिवम् । सर्वपापविनिर्मुक्तः परं निर्वाणमाप्नुयात् ।। ९५.
यश्चेदं श्रृणुयाद् भक्त्या नवम्यां नियतः स्थितः । स राज्यमतुलं लेभे भयेभ्यश्च प्रमुच्यते ।। ९५.
यस्येदं लिखितं गेहे सदा तिष्ठति धारिणि । न तस्याग्निभयं घोरं सर्पचौरादिकं भवेत् ।। ९५.
यश्चैतत् पूजयेद् भक्तया पुस्तकेऽपि स्थितं बुधः । तेन यष्टं भवेत् सर्वं त्रैलोक्यं सचराचरम् ।। ९५.
जायन्ते पशवः पुत्रा धनं धान्यं वरस्त्रियः । रत्नान्यश्वा गजा भृत्या यानाश्चाशु भवन्त्युत । यस्येदं तिष्ठते गेहे तस्येदं जायते ध्रुवम् ।। ९५.
श्रीवराह उवाच । एतदेव रहस्यं ते कीर्त्तितं भूतधारिणि । रुद्रस्य खलु माहात्म्यं सकलं कीर्त्तितं मया ।। ९५.
नवकोट्यस्तु चामुण्डा भेदभिन्ना व्यवस्थिता । या रौद्री तामसी शक्तिः सा चामुण्डा प्रकीर्त्तिता ।। ९५.
अष्टादश तथा कोट्यो वैष्णव्या भेद उच्यते । या सा च राजसी शक्तिः पालनी चैव वैष्णवी । या ब्रह्मशक्तिः सत्त्वस्था अनन्तास्ताः प्रकीर्त्तिता ।। ९५.
एतासां सर्वभेदेषु पृथगेकैकशो धरे । सर्वासां भगवान् रुद्रः सर्वगश्च पतिर्भवेत् ।। ९५.
यावन्त्यस्या महाशक्त्यास्तावद् रूपाणि शंकरः । कृतवांस्ताश्च भजते पतिरूपेण सर्वदा ।। ९५.
यश्चाराधयते तास्तु रुद्रस्तुष्टो भविष्यति । सिद्ध्यन्ते तास्तदा देव्यो मन्त्रिणो नात्र संशयः ।। ९५.
अथ त्रिशक्तिरहरये रौद्रीव्रतम् या सा नील गिरि याता तपसे धृतमानसा
तपः कृत्वा चिरं कालं पालयाम्याखलं जगत्
तरयाः कालान्तरे देव्यास्तपन्यास्तप उत्तमम्
समुद्रमध्ये रत्नाढ्यं पुरमस्ति महावनम्
अनेकशतसाहस्रकेटिट्युत्तरोत्तरैः
कालेन महता चासौ लोकपालपुराण्यथ
उत्तिष्ठतस्तस्य महासुरस्य समुद्रतोयं ववृथेऽतिमात्रम्
अन्तःस्थितानेकसुरारि सङ्कवाद्विचित्रवमयुधचित्रशोभम्