रुरोस्तु दानवेन्द्रस्य चर्ममुण्डे क्षणाद् यतः । अपहृत्याहरद् देवी चामुण्डा तेन साभवत् ।। ९५.
सर्वभूतमहारौद्री या देवी परमेश्वरी । संहारिणी तु या चैव कालरात्रिः प्रकीर्तिता ।। ९५.
तस्या ह्यनुचरा देव्यो या ह्यसंख्यातकोटयः । तास्तां देवीं महाभागां परिवार्य व्यवस्थिताः ।। ९५.
या क्यामासुरव्यग्रास्तास्तां देवीं बुभुक्षिताः । बुभुक्षिता वयं देवि देहि नो भोजनं शुभे ।। ९५.
एवमुक्ता तदा देवी दध्यौ तासां तु भोजनम् । न चाध्यगच्छच्च यदा तासां भोजनमन्तिकात् ।। ९५.
ततो दध्यौ महादेवं रुद्रं पशुपतिं विभुम् । सोऽपि ध्यानात् समुत्तस्थौ परमात्मा त्रिलोचनः ।। ९५.
उवाच च द्रुतं देवीं किं ते कार्यं विवक्षितम् । ब्रूहि देवि वरारोहे यत् ते मनसि वर्त्तते ।। ९५.
देव्युवाच । भक्ष्यार्थमासां देवेश किञ्चिद् दातुमिहार्हसि । बलात्कुर्वन्ति मामेता भक्षार्थिन्यो महाबलाः । अन्यथा मामपि बलाद् भक्षयिष्यन्ति मां प्रभो ।। ९५.
रुद्र उवाच । एतासां श्रृणु देवेशि भक्षमेकं मयोद्यतम् । कथ्यमानं वरारोहे कालरात्रि महाप्रभे ।। ९५.
या स्त्री सगर्भा देवेशि अन्यस्त्रीपरिधानकम् । परिधत्ते स्पृशेच्चापि पुरुषस्य विशेषतः ।। ९५.
स भागोऽस्तु महाभागे कासाञ्चित् पृथिवीतले । अन्याश्छिद्रेषु बालानि गृहीत्वा तत्र वै बलिम् । लब्ध्वा तिष्ठन्तु सुप्रीता अपि वर्षशतान्यपि ।। ९५.
अन्याः सूतिगृहे छिद्रं गृह्णीयुस्तत्र पूजिताः । निवसिष्यन्ति देवेशि तथान्या जातहारिकाः ।। ९५.
गृहे क्षेत्रे तडागेषु वाप्युद्यानेषु चैव हि । अन्यचित्ता रुदन्त्यो याः स्त्रियस्तिष्ठन्ति नित्यशः । तासां शरीराण्याविश्य काश्चित्तृप्तिमवाप्स्यथ ।। ९५.
एवमुक्त्वा तदा देवीं स्वयं रुद्रः प्रतापवान् । दृष्ट्वा रुरुं च सबलमसुरेन्द्रं निपातितम् । स्तुतिं चकार भगवान् स्वयं देवस्त्रिलोचनः ।। ९५.
रुद्र उवाच । जयस्व देवि चामुण्डे जय भूतापहारिणि । जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ।। ९५.
विश्वमूर्त्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने । भीमरूपे शिवे विद्ये महामाये महोदये ।। ९५.
मनोजवे जये जृम्भे भीमाक्षि क्षुभितक्षये । महामारि विचित्राङ्गे गेयनृत्यप्रिये शुभे ।। ९५.
विकराले महाकालि कालिके पापहारिणि । पाशहस्ते दण्डहस्ते भीमरूपे भयानके ।। ९५.
चामुण्डे ज्वलमानास्ये तीक्ष्णदंष्ट्रे महाबले । शवयानस्थिते देवि प्रेतासनगते शिवे ।। ९५.
भीमाक्षि भीषणे देवि सर्वभूतभयंकरि । कराले विकराले च महाकाले करालिनि । काली कराली विक्रान्ता कालरात्रि नमोऽस्तु ते ।। ९५.
विकरालमुखी देवि ज्वालामुखि नमोऽस्तु ते । सर्वसत्त्वहिते देवि सर्वदेवि नमोऽस्तु ते ।। ९५.
इति स्तुता तदा देवी रुद्रेण परमेष्ठिना । तुतोष परमा देवी वाक्यं चेदमुवाच ह । वरं वृणीष्व देवेश यत् ते मनसि वर्त्तते ।। ९५.
रुद्र उवाच । स्तोत्रेणानेन ये देवि त्वां स्तुवन्ति वरानने । तेषां त्वं वरदा देवि भव सर्वगता सती ।। ९५.
यश्चेमं त्रिप्रकारं तु देवि भक्त्या समन्वितः । स पुत्रपौत्रपशुमान् समृद्धिमुपगच्छति ।। ९५.
यश्चेमं श्रृणुयाद् भक्त्या त्रिशक्तयास्तु समुद्भवम् । सर्वपापविनिर्मुक्तः पदं गच्छत्यनामयम् ।। ९५.
एवं स्तुत्वा भवो देवीं चामुण्डां परमेश्वरीम् । क्षणादन्तर्हितो देवस्ते च देवा दिवं ययुः ।। ९५.
य एतां वेद वै देव्या उत्पत्तिं त्रिविधां धरे । सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति ।। ९५.
भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः । अष्टम्यां च चतुर्दश्यामुपवासी नरोत्तमः । संवत्सरेण लभते राज्यं निष्कण्टकं नृपः ।। ९५.
एषा त्रिशक्तिरुद्दिष्टा नयसिद्धान्तगामिनी । एषा श्वेता परा सृष्टिः सात्त्विकी ब्रह्मसंस्थिता ।। ९५.
एषैव रक्ता रजसि वैष्णवी परिकीर्त्तिता । एषैव कृष्णा तमसि रौद्री देवी प्रकीर्त्तिता ।। ९५.