रथा रविस्यन्दनतुल्यवेगाः सुचक्रदण्डाक्षत्रिवेणुयुक्ताः । सुशस्त्रयन्त्राः परिपीडिताङ्गा - श्चलत्पताकास्त्वरितं विशङ्काः ।। ९५.
तथैव योधाः स्थगितेतरेतरा - स्तितीर्षवः प्रवरास्तूर्णपाणयः । रणे रणे लब्धजयाः प्रहारिणो विरेजुरुच्चैरसुरानुगा भृशम् ।। ९५.
देवेषु चैव भग्नेषु विनिर्गत्य जलात् ततः । चतुरङ्गबलोपेतः प्रायादिन्द्रपुरं प्रति ।। ९५.
युयोध च सूरैः सार्द्धं रुरुर्दैत्यपतिस्तथा । मुद्गरैर्मुशलैः शूलैः शरैर्दण्डायुधैस्तथा । जघ्नुर्दैत्याः सुरान् संख्ये सुराश्चैव तथाऽसुरान् ।। ९५.
एवं क्षणमथो युद्धं तदा देवाः सवासवाः । असुरैर्निर्जिताः सद्यो दुद्रुवुर्विमुखा भृशम् ।। ९५.
देवेषु चैव भग्नेषु विद्रुतेषु विशेषतः । असुरः सर्वदेवानामन्वधावत वीर्यवान् ।। ९५.
ततो देवगणाः सर्वे द्रवन्तो भयविह्वलाः । नीलं गिरिवरं जग्मुर्यत्र देवी व्यवस्थिता ।। ९५.
ौद्री तपोरता देवी तामसी शक्तिरुत्तमा । संहारकारिणी देवी कालरात्रीति तां विदुः ।। ९५.
सा दृष्ट्वा तान् तदा देवान् भयत्रस्तान् विचेतसः । मा भैष्टेत्युच्चकैर्देवी तानुवाच सुरोत्तमान् ।। ९५.
देव्युवाच । किमियं व्याकुला देवा गतिर्व उपलक्ष्यते । कथयध्वं द्रुतं देवाः सर्वथा भयकारणम् ।। ९५.
देवा ऊचुः । अयमायाति दैत्येन्द्रो रुरुर्भीमपराक्रमः । एतस्य भीतान् रक्षस्व त्वं देवान् परमेश्वरि ।। ९५.
एवमुक्ता तदा देवैर्देवी भीमपराक्रमा । जहास परया प्रीत्या देवानां पुरतः शुभा ।। ९५.
तस्या हसन्त्या वक्त्रात् तु बह्व्यो देव्यो विनिर्ययुः । याभिर्विश्वमिदं व्याप्तं विकृताभिरनेकशः ।। ९५.
पाशाङ्कुशधराः सर्वाः सर्वाः पीनपयोधराः । सर्वाः शूलधरा भीमाः सर्वाश्चापधराः शुभाः ।। ९५.
ताः सर्वाः कोटिशो देव्यस्तां देवीं वेष्ट्य संस्थिताः । युयुधुदर्निवैः सार्द्धं बद्धतूणा महाबलाः । क्षणेन दानवबलं तत्सर्वं निहतं तु तैः ।। ९५.
देवाश्च सर्वे संयत्ता युयुधुर्दानवं बलम् । आदित्या वसवो रुद्रा विश्वेदेवास्तथाश्विनौ । सर्वे शस्त्राणि संगृह्य युयुधुर्दानवं बलम् ।। ९५.
कालरात्र्या बलं यच्च यच्च देवबलं महत् । तत्सर्वं दानवबलमनयद् यमसादनम् ।। ९५.
एक एव महादैत्यो रुरुस्तस्थौ महामृधे । स च मायां महारौद्रीं रौरवीं विससर्ज ह ।। ९५.
सा माया ववृधे भीमा सर्वदेवप्रमोहिनी । तया तु मोहिता देवाः सद्यो निद्रां तु भेजिरे ।। ९५.
देवी च त्रिशिखेनाजौ तं दैत्यं समताड्यत् । तया तु ताडितान्तस्य दैत्यस्य शुभलोचने । चर्ममुण्डे उभे सम्यक् पृथग्भूते बभूवतुः ।। ९५.
रुरोस्तु दानवेन्द्रस्य चर्ममुण्डे क्षणाद् यतः । अपहृत्याहरद् देवी चामुण्डा तेन साभवत् ।। ९५.
सर्वभूतमहारौद्री या देवी परमेश्वरी । संहारिणी तु या चैव कालरात्रिः प्रकीर्तिता ।। ९५.
तस्या ह्यनुचरा देव्यो या ह्यसंख्यातकोटयः । तास्तां देवीं महाभागां परिवार्य व्यवस्थिताः ।। ९५.
या क्यामासुरव्यग्रास्तास्तां देवीं बुभुक्षिताः । बुभुक्षिता वयं देवि देहि नो भोजनं शुभे ।। ९५.
एवमुक्ता तदा देवी दध्यौ तासां तु भोजनम् । न चाध्यगच्छच्च यदा तासां भोजनमन्तिकात् ।। ९५.
ततो दध्यौ महादेवं रुद्रं पशुपतिं विभुम् । सोऽपि ध्यानात् समुत्तस्थौ परमात्मा त्रिलोचनः ।। ९५.
उवाच च द्रुतं देवीं किं ते कार्यं विवक्षितम् । ब्रूहि देवि वरारोहे यत् ते मनसि वर्त्तते ।। ९५.
देव्युवाच । भक्ष्यार्थमासां देवेश किञ्चिद् दातुमिहार्हसि । बलात्कुर्वन्ति मामेता भक्षार्थिन्यो महाबलाः । अन्यथा मामपि बलाद् भक्षयिष्यन्ति मां प्रभो ।। ९५.
रुद्र उवाच । एतासां श्रृणु देवेशि भक्षमेकं मयोद्यतम् । कथ्यमानं वरारोहे कालरात्रि महाप्रभे ।। ९५.
या स्त्री सगर्भा देवेशि अन्यस्त्रीपरिधानकम् । परिधत्ते स्पृशेच्चापि पुरुषस्य विशेषतः ।। ९५.