सर्वसत्त्वहिते देवि सर्वसत्त्वमये ध्रुवे । विद्यापुराणशिल्पानां जननी भूतधारिणी ।। ९४.
सर्वदेवरहस्यानां सर्वसत्त्ववतां शुभे । त्वमेव शरणं देवि विद्येऽविद्ये श्रियेऽम्बिके । विरूपाक्षि तथा क्षान्ति क्षोभितान्तर्जलेऽविले ।। ९४.
नमोऽस्तु ते महादेवि नमोऽस्तु परमेश्वरि । नमस्ते सर्वदेवानां भावनित्येऽक्षयेऽव्यये ।। ९४.
शरणं त्वां प्रपद्यन्ते ये देवि परमेश्वरि । न तेषां जायते किञ्चिदशुभं रणसङ्कटे ।। ९४.
यश्च व्याघ्रभये घोरे चौरराजभये तथा । स्तबवमेनं सदा देवि पठिष्यति यतात्मवान् ।। ९४.
निगडस्थोऽपि यो देवि त्वां स्मरिष्यति मानवः । सोऽपि बन्धैर्विमुक्तस्ते सुसुखं वसते सुखी ।। ९४.
श्रीवराह उवाच । एवं स्तुता तदा देवी देवैः प्रणतिपूर्वकम् । उवाच देवान् सुश्रोणी वृणुध्वं वरमुत्तमम् ।। ९४.
देवा ऊचुः । देवि स्तोत्रमिदं ये हि पठिष्यन्ति तवानघे । सर्वकामसमापन्नान् कुरु देवि स नो वरः ।। ९४.
एवमस्त्विति तान् देवानुक्त्वा देवी पराऽपरा । विससर्ज ततो देवान् स्वयं तत्रैव संस्थिता ।। ९४.
एतद् द्वितीयं यो जन्म वेद देव्या धराधरे । स वीतशोको विरजाः पदं गच्छत्यनामयम् ।। ९४.
श्रीवराह उवाच । या सा नीलगिरिं याता तपसे धृतमानसा । रौद्री तमोद्भवा शक्तिस्तस्याः श्रृणु धरे व्रतम् ।। ९५.
तपः कृत्वा चिरं कालं पालयाम्यखिलं जगत् । एवमुद्दिश्य पञ्चाग्निं साधयामास भामिनी ।। ९५.
तस्याः कालान्तरे देव्यास्तपन्त्यास्तप उत्तमम् । रुरुर्नाम महातेजा ब्रह्मदत्तवरोऽसुरः ।। ९५.
समुद्रमध्ये रत्नाढ्यं पुरमस्ति महावनम् । तत्र राजा स दैत्येन्द्रः सर्वदेवभयंकरः ।। ९५.
अनेकशतसाहस्त्रकोटिकोटिशतोत्तरैः । असुरैरन्वितः श्रीमान् द्वितीयो नमुचिर्यथा ।। ९५.
कालेन महता चासौ लोकपालपुराण्यथ । जिगीषुः सैन्यसंवीतो देवैर्भयमरोचयत् ।। ९५.
उत्तिष्ठतस्तस्य महासुरस्य समुद्रतोयं ववृधेऽतिमात्रम् । अनेकनक्रग्रहमीनजुष्ट - माप्लावयत् पर्वतसानुदेशान् ।। ९५.
अन्तः स्थितानेकसुरारिसंघं विचित्रचर्मायुधचित्रशोभम् । भीमं बलं बलिनं चारुयोधं विनिर्ययौ सिन्धुजलाद् विशालम् ।। ९५.
तत्र द्विपा दैत्यवरैरुपेता समानघण्टासुसमूहयुक्ताः । विनिर्ययुः स्वाकृतिभीषणानि समन्तमुच्चैः खलु दर्शयन्तः ।। ९५.
अश्वास्तथा काञ्चनपीडनद्धा रोहीतमत्स्यैः समतां जलान्तः । व्यवस्थितास्ते सममेव तूर्णं विनिर्ययुः लक्षशः कोटिशश्च ।। ९५.
रथा रविस्यन्दनतुल्यवेगाः सुचक्रदण्डाक्षत्रिवेणुयुक्ताः । सुशस्त्रयन्त्राः परिपीडिताङ्गा - श्चलत्पताकास्त्वरितं विशङ्काः ।। ९५.
तथैव योधाः स्थगितेतरेतरा - स्तितीर्षवः प्रवरास्तूर्णपाणयः । रणे रणे लब्धजयाः प्रहारिणो विरेजुरुच्चैरसुरानुगा भृशम् ।। ९५.
देवेषु चैव भग्नेषु विनिर्गत्य जलात् ततः । चतुरङ्गबलोपेतः प्रायादिन्द्रपुरं प्रति ।। ९५.
युयोध च सूरैः सार्द्धं रुरुर्दैत्यपतिस्तथा । मुद्गरैर्मुशलैः शूलैः शरैर्दण्डायुधैस्तथा । जघ्नुर्दैत्याः सुरान् संख्ये सुराश्चैव तथाऽसुरान् ।। ९५.
एवं क्षणमथो युद्धं तदा देवाः सवासवाः । असुरैर्निर्जिताः सद्यो दुद्रुवुर्विमुखा भृशम् ।। ९५.
देवेषु चैव भग्नेषु विद्रुतेषु विशेषतः । असुरः सर्वदेवानामन्वधावत वीर्यवान् ।। ९५.
ततो देवगणाः सर्वे द्रवन्तो भयविह्वलाः । नीलं गिरिवरं जग्मुर्यत्र देवी व्यवस्थिता ।। ९५.
ौद्री तपोरता देवी तामसी शक्तिरुत्तमा । संहारकारिणी देवी कालरात्रीति तां विदुः ।। ९५.
सा दृष्ट्वा तान् तदा देवान् भयत्रस्तान् विचेतसः । मा भैष्टेत्युच्चकैर्देवी तानुवाच सुरोत्तमान् ।। ९५.
देव्युवाच । किमियं व्याकुला देवा गतिर्व उपलक्ष्यते । कथयध्वं द्रुतं देवाः सर्वथा भयकारणम् ।। ९५.