सनत्कुमार उवाच । धन्यस्त्वमेव द्विजवर्यमुख्य यद् वेदवादाभिरतः पितॄंश्च । प्रीणासि मन्त्रव्रतजप्यहोमै- र्गयां समासाद्य तथाऽन्नपिण्डैः ।। ७.
श्रृणुष्व चान्यं नृपतिर्बभूव विशालनामा स पुरीं विशालाम् । उवास धन्यो धृतिमानपुत्रः स्वयं विशालाधिपतिर्द्विजाग्र्यान् । पप्रच्छ पुत्रार्थममित्रसाह - स्ते ब्राह्मणाश्चोचुरदीनसत्त्वाः ।। ७.
र्गत्वा गयामन्नदानैरनेकैः । ध्रुवं सुतस्ते भविता नृपेश सुसंप्रदाता सकलक्षितीशः ।। ७.
इतीरितो ब्राह्मणैः स प्रहृष्टो राजा विशालाधिपतिः प्रयत्नात् । आगत्य तेन प्रवरेण तीर्थे मघासु भक्त्याऽथ कृतं पितॄणाम् ।। ७.
पिण्डप्रदानं विधिना प्रयत्ना- ददद्वियत्युत्तममूर्तयस्तान् । पश्यन् स पुंसः सितपीतकृष्णा- नुवाच राजा किमिदं भवद्भिः । उपेक्ष्यते शंसत सर्वमेव कौतूहलं मे मनसि प्रवृत्तम् ।। ७.
सित उवाच । अहं सितस्ते जनकोऽस्मि तात नाम्ना च वृत्तेन च कर्मणा च । अयं च मे जनको रक्तवर्णो नृशंसकृद् ब्रह्महा पापकारी ।। ७.
अधीश्वरो नाम परः पिताऽस्य कृष्णो वृत्त्या कर्मणा चापि कृष्णः । एतेन कृष्णेन हताः पुरा वै जन्मन्यनेके ऋषयः पुराणाः ।। ७.
एतौ मृतौ द्वावपि पुत्र रौद्र- मवीचिसंज्ञं नरकं प्रपन्नौ । अधीश्वरो मे जनकः परोऽस्य कृष्णः पिता द्वावपि दीर्घकालम् । अहं च शुद्धेन निजेन कर्मणा शक्रासनं प्रापितो दुर्लभं ततः ।। ७.
त्वया पुनर्मन्त्रविदा गयायां पिण्डप्रदानेन बलादिमौ च । मेलापितौ तीर्थपिण्डप्रदान - प्रभावतो मे नरकाश्रितावपि ।। ७.
पितॄन् पितामहांस्तत्र तथैव प्रपितामहान् । प्रीणयामीति तत्तोयं त्वया दत्तमरिंदम ।। ७.
तेनास्मद्युगपद्योगो जातो वाक्येन सत्तम । तीर्थप्रभावाद् गच्छामः पितृलोकं न संशयः ।। ७.
अत्र पिण्डप्रदानेन एतौ तव पितामहौ । दुर्गतावपि संसिद्धौ पापकृद्विकृतिं गतौ ।। ७.
तीर्थप्रभाव एषोऽस्मिन् ब्रह्मघ्नस्यापि तत्सुतः । पुतः पिण्डप्रदानेन कुर्यादुद्धरणं पुनः ।। ७.
एतस्मात् कारणात् पुत्र अहमेतौ विगृह्य वै । आगतोऽस्मि भवन्तं वै द्रष्टुं यास्यामि साम्प्रतम् । एतस्मात् कारणाद् रैभ्य भवान् धन्यो मयोच्यते ।। ७.
सकृद् गयाभिगमनं सकृत्पिण्डप्रदापनम् । दुर्लभं त्वं पुनर्नित्यमस्मिन्नेव व्यवस्थितः ।। ७.
किमनु प्रोच्यते रैभ्य तव पुण्यमिदं प्रभो । येन साक्षाद् गदापाणिर्दृष्टो नारायणः स्वयम् ।। ७.
ततो गदाधरः साक्षादस्मिंस्तीर्थे व्यवस्थितः । अतोऽतिविख्याततमं तीर्थमेतद् द्विजोत्तम ।। ७.
श्रीवराह उवाच । एवमुक्त्वा महायोगी तत्रैवान्तरधीयत । रैभ्योऽपि च गदापाणेर्हरेः स्तोत्रमथाकरोत् ।। ७.
रैभ्य उवाच । गदाधरं विबुधजनैरभिष्टुतं धृतक्षमं क्षुधितजनार्त्तिनाशनम् । शिवं विशालासुरसैन्यमर्दनं नमाम्यहं हतसकलाशुभं स्मृतौ ।। ७.
पुराणपूर्वं पुरुषं पुरुष्टृतं पुरातनं विमलमलं नृणां गतिम् । त्रिविक्रमं धृतधरणिं बलेर्हं गदाधरं रहसि नमामि केशवम् ।। ७.
सुशुद्धभावं विभवैरुपावृतं श्रियावृतं विगतमलं विचक्षणम् । क्षितीश्वरैरपगतकिल्बिषैः स्तुतं गदाधरं प्रणमति यः सुखं वसेत् ।। ७.
सुरासुरैरर्च्चितपादपङ्कजं केयूरहाराङ्गदमौलिधारिणम् । अब्धौ शयानं च रथाङ्गपाणिनं गदाधरं प्रणमति यः सुखं वसेत् ।। ७.
सितं कृते त्रेतायुगेऽरुणं विभुं तथा तृतीये पीतवर्णमच्युतम् । कलौ घनालिप्रतिमं महेश्वरं गदाधरं प्रणमति यः सुखं वसेत् ।। ७.
बीजोद्भवो यः सृजते चतुर्मुख- स्तथैव नारायणरूपतो जगत् । प्रपालयेद् रुद्रवपुस्तथान्तकृद् गदाधरो जयतु षडर्द्धमूर्तिमान् ।। ७.
सत्त्वं रजश्चैव तमो गुणास्त्रय- स्त्वेतेषु नान्यस्य समुद्भवः किल । स चैक एव त्रिविधो गदाधरो दधातु धैर्यं मम धर्ममोक्षयोः ।। ७.
संसारतोयार्णवदुःखतन्तुभि- र्वियोगनक्रक्रमणैः सुभीषणैः । मज्जन्तमुच्चैः सुतरां महाप्लवे गदाधरो मामु दधातु पोतवत् ।। ७.
स्वयं त्रिमूर्तिः स्वमिवात्मनात्मनि स्वशक्तितश्चाण्डमिदं ससर्ज्ज ह । तस्मिञ्जलोत्थासनमार्यतेजसं ससर्ज्ज यस्तं प्रणतोऽस्मि भूधरम् ।। ७.
मत्स्यादिनामानि जगत्सु केवलं सुरादिसंरक्षणतो वृषाकपिः । मुख्यस्वरूपेण समन्ततो विभु- र्गदाधरो मे विदधातु सद्गतिम् ।। ७.
श्रीवराह उवाच । एवं स्तुतस्तदा विष्णुर्भक्त्या रैभ्येण धीमता । प्रादुर्बभूव सहसा पीतवासा जनार्दनः ।। ७.
शङ्खचक्रगदापाणिर्गरुडस्थो वियद्गतः । उवाच मेघगम्भीरधीरवाक् पुरुषोत्तमः ।। ७.