ततो हाहाकृतं सर्वं यथा दैत्यबलं महत् । एवं तदाकुलं दृष्ट्वा महिषो वाक्यमब्रवीत् । सेनापते किमेतद्धि बलं भग्नं ममाग्रतः ।। ९४.
ततो यज्ञहनुर्नामा दैत्यो हस्तिस्वरूपवान् । उवाच भग्नमेतद्धि कुमारीभिः समन्ततः ।। ९४.
ततो दुद्राव महिषस्ताः कन्याः शुभलोचनाः । गदामादाय तरसा कन्या दुद्राव वेगवान् ।। ९४.
यत्र तिष्ठति सा देवी देवगन्धर्वपूजिता । तत्रैव सोऽसुरः प्रायाद् यत्र देवी व्यवस्थिता । सा च दृष्ट्वा तमायान्तं विंशद्धस्ता बभूव ह ।। ९४.
धनुः खङ्गं तथा शक्तिं शरान् शूलं गदां तथा । परशुं डमरुं चैव तथा घण्टां विशालिनीम् । शतघ्नीं मुद्गरं घोरं भुशुण्डीं कुन्तमेव च ।। ९४.
मुसलं च तथा चक्रं भिन्दिपालं तथैव च । दण्डं पाशं ध्वजं चैव पद्मं चेति च विंशतिः ।। ९४.
भूत्वा विंशभुजा देवी सिंहमास्थाय दंशिता । सस्मार रुद्रं देवेशं रौद्रं संहारकारणम् ।। ९४.
ततो वृषध्वजः साक्षाद् रुद्रस्तत्रैव आययौ । तया प्रणम्य विज्ञप्तः सर्वान् दैत्यान् जयाम्यहम् ।। ९४.
त्वयि सन्निधिमात्रे तु देवदेव सनातन । एवमुक्त्वाऽसुरान् सर्वान् जिगाय परमेश्वरी ।। ९४.
मुक्तवा तमेकं महिषं शेषं हत्वा तमभ्ययात् । यावद् देवी ततः साऽपि तां दृष्ट्वा सोऽपि दुद्रुवे ।। ९४.
क्वचिद् युध्यति दैत्येन्द्रः क्वचिच्चैव पलायति । क्वचित् पुनर्मृधं चक्रे क्वचित् पुनरुपारमत् ।। ९४.
एवं वर्षहस्त्राणि दश तस्य तया सह । दिव्यानि विगतानि स्युर्युध्यतस्तस्य शोभने । बभ्राम सकलं त्वाजौ ब्रह्माण्डं भीतमानसम् ।। ९४.
ततः कालेन महता शतश्रृङ्गे महागिरौ । पद्भ्यामाक्रम्य शूलेन निहतो दैत्यसत्तमः ।। ९४.
शिरश्चिच्छेद खङ्गेन तत्र चान्तःस्थितः पुमान् । निर्गत्य विगतः स्वर्गं देव्याः शस्त्रनिपातनात् ।। ९४.
ततो देवगणाः सर्वे महिषं वीक्ष्य निर्जितम् । सब्रह्मका स्तुतिं चक्रुर्देव्यास्तुष्टेन चेतसा ।। ९४.
देवा ऊचुः । नमो देवि महाभागे गम्भीरे भीमदर्शने । जयस्थे स्थितिसिद्धान्ते त्रिनेत्रे विश्वतोमुखि ।। ९४.
विद्याविद्ये जये याज्ये महिषासुरमर्दिनि । सर्वगे सर्वदेवेशि विश्वरूपिणि वैष्णवि ।। ९४.
वीतशोके ध्रुवे देवि पद्मपत्रशुभेक्षणे । शुद्धसत्त्वव्रतस्थे च चण्डरूपे विभावरि ।। ९४.
ऋद्धिसिद्धिप्रदे देवि विद्येऽविद्येऽमृते शिवे । शांकरी वैष्णवी ब्राह्मी सर्वदेवनमस्कृते ।। ९४.
घण्टाहस्ते त्रिशूलास्त्रे महामहिषमर्दिनि । उग्ररूपे विरूपाक्षि महामायेऽमृतस्त्रवे ।। ९४.
सर्वसत्त्वहिते देवि सर्वसत्त्वमये ध्रुवे । विद्यापुराणशिल्पानां जननी भूतधारिणी ।। ९४.
सर्वदेवरहस्यानां सर्वसत्त्ववतां शुभे । त्वमेव शरणं देवि विद्येऽविद्ये श्रियेऽम्बिके । विरूपाक्षि तथा क्षान्ति क्षोभितान्तर्जलेऽविले ।। ९४.
नमोऽस्तु ते महादेवि नमोऽस्तु परमेश्वरि । नमस्ते सर्वदेवानां भावनित्येऽक्षयेऽव्यये ।। ९४.
शरणं त्वां प्रपद्यन्ते ये देवि परमेश्वरि । न तेषां जायते किञ्चिदशुभं रणसङ्कटे ।। ९४.
यश्च व्याघ्रभये घोरे चौरराजभये तथा । स्तबवमेनं सदा देवि पठिष्यति यतात्मवान् ।। ९४.
निगडस्थोऽपि यो देवि त्वां स्मरिष्यति मानवः । सोऽपि बन्धैर्विमुक्तस्ते सुसुखं वसते सुखी ।। ९४.
श्रीवराह उवाच । एवं स्तुता तदा देवी देवैः प्रणतिपूर्वकम् । उवाच देवान् सुश्रोणी वृणुध्वं वरमुत्तमम् ।। ९४.
देवा ऊचुः । देवि स्तोत्रमिदं ये हि पठिष्यन्ति तवानघे । सर्वकामसमापन्नान् कुरु देवि स नो वरः ।। ९४.
एवमस्त्विति तान् देवानुक्त्वा देवी पराऽपरा । विससर्ज ततो देवान् स्वयं तत्रैव संस्थिता ।। ९४.
एतद् द्वितीयं यो जन्म वेद देव्या धराधरे । स वीतशोको विरजाः पदं गच्छत्यनामयम् ।। ९४.