दृष्ट्वाश्रमपदं रम्यं सासुरी कन्यका शुभम् । माहिष्मती वरारोहा चिन्तयामास भामिनी ।। ९४.
भीषयित्वाहमेनं तु तापसं त्वाश्रमे स्वयम् । तिष्ठामि क्रीडती सार्धं सखीभिः परमार्चिता ।। ९४.
एवं संचिन्त्य सा देवी महिषी संबभूव ह । सखीभिः सह विश्वेशि तीक्ष्णश्रृङ्गाग्रधारिणी ।। ९४.
तमृषिं भीषितुं ताभिः सह गत्वा वरानना । असौ बिभीषितस्ताभिस्तां ज्ञात्वा ज्ञानचक्षुषा । आसुरीं क्रोधसंपन्नः शशाप शुभलोचनाम् ।। ९४.
यस्माद् भीषयसे मां त्वं महिषीरूपधारिणी । अतो भव महिष्येव पापकर्मे शतं समाः ।। ९४.
एवमुक्ता ततः सा तु सखीभिः सह वेपती । पादयोर्न्यपतत् तस्य शापान्तं कुरु जल्पती ।। ९४.
तस्यास्तद् वचनं श्रुत्वा स मुनिः करुणान्वितः । शापान्तमकरोत् तस्या वाक्यं चेदमुवाच ह ।। ९४.
अनेनैव स्वरूपेण पुत्रमेकं प्रसूय वै । शापान्तो भविता भद्रे मद्वाक्यं न मृषा भवेत् ।। ९४.
एवमुक्ता गता सा तु नर्मदातीरमुत्तमम् । यत्र तेपे तपो घोरं सिन्धुद्वीपो महातपाः ।। ९४.
तत्र चेन्दुमती नाम दैत्यकन्याऽतिरूपिणी । सा दृष्टा तेन मुनिना विवस्त्रा मज्जती जले ।। ९४.
चस्कन्द स मुनिः शुक्रं शिलाद्रोण्यां महातपाः । तच्च माहिष्मती दृष्ट्वा दिव्यगन्धि सुगन्धि च । ततः सखीरुवाचेदं पिबामीदं जलं शुभम् ।। ९४.
एवमुक्त्वा तु सा पीत्वा तच्छुक्रं मुनिसंभवम् । प्राप्ता गर्भं मुनेर्बीजात् सुषाव च तदा सतो ।। ९४.
तस्याः पुत्रोऽभवद् धीमान् महाबलपराक्रमः । महिषेति स्मृतो नाम्ना ब्रह्मवंशविवर्धनः । स त्वां वरयते देवि देवसैन्यविमर्दनः ।। ९४.
स सुरानपि जित्वाऽऽजौ त्रैलोक्यं च तवानघे । दास्यते देवि सुप्रोतस्तव सर्वं महासुरः । तस्यात्मोपप्रदानेन कुरु देवि महत् कृतम् ।। ९४.
एवमुक्ता तदा देवी तेन दूतेन शोभना । जहास परमा देवी वाक्यं नोवाच किञ्चन ।। ९४.
तस्या हसन्त्या दूतोऽसौ त्रैलोक्यं सचराचरम् । ददर्श कुक्षौ संभ्रान्तस्तत्क्षणात् समपद्यत ।। ९४.
ततो देव्याः प्रतीहारी जया नामातितेजना । देव्या हृदि स्थितं वाक्यमुवाच तनुमध्यमा ।। ९४.
जया उवाच । कन्यार्थी वदते यद्धि तत्त्वया समुदीरितम् । यदि नाम व्रतं चास्याः कौमारं सार्वकालिकम् । अपि चान्याः कुमार्योऽत्र सन्ति देव्याः पदानुगाः ।। ९४.
तासामेकाऽपि नो लभ्या किमु देवी स्वयं शुभा । याहि दूत त्वरन् मा ते किञ्चिदन्यद् भविष्यति ।। ९४.
एवमुक्तो गतो दूतस्तावद् व्योम्नि महामुनिः । आयातो नारदस्तूर्णं नृत्यन्नुच्चैर्महातपाः ।। ९४.
दिष्ट्या दिष्ट्येति वदतस्तां देवीं शुभलोचनाम् । उपविष्टो जगादाथ आसने परमेऽर्चितः ।। ९४.
प्रणम्य देवीं सर्वेशीमुवाच च महातपाः । देवि देवैरहं प्रीतैः प्रेषितोऽस्मि तवान्तिकम् ।। ९४.
विजिता देवि दैत्येन महिषाख्येन निर्जराः । त्वां गृहीतुं प्रयत्नं स कृतवान् देवि दैत्यराट् ।। ९४.
एवमुक्तोऽस्मि देवैस्त्वां बोधयामि वरानने । स्थिरीभूता महादेवि तं दैत्यं प्रतिघातय ।। ९४.
उक्त्वैवान्तर्हितः सद्यो नारदः स्वेच्छया ययौ । देवी च कन्यास्ताः सर्वाः सन्नह्यन्तामुवाच ह ।। ९४.
ततः कन्या महाभागाः सर्वास्ता देविशासनात् । बभूवुर्घोररूपिण्यः खङ्गचर्मधनुर्धराः । संग्रामहेतोः संतस्थुर्दैत्यविध्वंसनाय ताः ।। ९४.
तावद् दैत्यबलं सर्वं मुक्त्वा देवचमूं द्रुतम् । आययौ यत्र तद् देव्याः संनद्धं स्त्रीबलं महत् ।। ९४.
ततस्ता युयुधुः कन्या दानवैः सह दर्पिताः । क्षणेन तद् बलं ताभिश्चतुरङ्गं निपातितम् ।। ९४.
शिरांसि तत्र केषांचिच्छिन्नानि पतितानि च । अपरेषां विदार्योरः क्रव्यादाः पान्ति शोणितम् ।। ९४.
अन्ये कबन्धभूतास्तु ननृतुर्दैत्यनायकाः । एवं क्षणेन ते सर्वे विध्वस्ताः पापचेतसः । अपरे विद्रुताः सर्वे यत्रासौ महिषासुरः ।। ९४.