एवमुक्तस्तदा दैत्यः सेनापतिमुवाच ह । विरूपाक्षं महामेघवर्णं नीलाञ्जनप्रभम् ।। ९२.
आनीयतां द्रुतं सैन्यं हस्त्यश्वरथपत्तिनाम् । येन देवान् सगन्धर्वान् जयामि युधि दुर्ज्जयान् ।। ९२.
एवमुक्ते विरूपाक्षस्तदा सेनापतिर्द्रुतम् । आनिनाय महत्सैन्यमनन्तमपराजितम् ।। ९२.
एकैको दानवस्तत्र वज्रहस्तसमो युधि । एकैकं स्पर्धते देवं जेतुं स्वेन बलेन ह ।। ९२.
तेषां प्रधानभूतानामर्बुदं नवकोटयः । येषामेकस्यानुयाति तावद् बलमर्थोर्ज्जितम् ।। ९२.
तेषां नैकसहस्त्राणि दैत्यानां तु महात्मनाम् । समितिं चक्रुरव्यग्रास्तदा दैत्याः प्रहारिणः । प्रयाणं कारयामासुर्देवसैन्यजिघांसया ।। ९२.
विचित्रयाना विविधध्वजाग्रा विचित्रशस्त्रा विविधोग्ररूपाः । दैत्या सुराञ् जेतुमिच्छन्त उच्चैर् ननर्त्तुरात्तायुधभीमहस्ताः ।। ९२.
श्रीवराह उवाच । ततो महिषदैत्यस्तु कामरूपी महाबलः । मत्तहस्तिनामारुह्य यियासुर्मेरुपर्वतम् ।। ९३.
तत्रैन्द्रं पुरमासाद्य देवैः सह शतक्रतुम् । अभिदुद्राव दैत्येन्द्रस्ततो देवाः क्रुधान्विताः ।। ९३.
आदाय स्वानि शस्त्राणि वाहनानि विशेषतः । अधिष्ठायासुरानाजौ दुद्रुवुर्मुदिता भृशम् ।। ९३.
तेषां प्रववृते युद्धं तुमुलं लोमहर्षणम् । घोरं प्रचण्डयोधानामन्योन्यमभिगर्जताम् ।। ९३.
तत्राञ्जनो नीलकुक्षिर्मेघवर्णो बलाहकः । उदराक्षो ललाटाक्षः सुभीमो भीमविक्रमः । स्वर्भानुश्चेति दैत्याष्टौ वसून् दुद्रुवुराहवे ।। ९३.
यथासंख्येन तद्वच्च दैत्या द्वादश चापरे । आदित्यान् दैत्यवर्यास्तु तेषां प्राधान्यतः श्रृणु ।। ९३.
भीमो ध्वङ्क्षो ध्वस्तकर्णः शङ्कुकर्णस्तथैव च । वज्रकायोऽतिवीर्यश्च विद्युन्माली तथैव च ।। ९३.
रक्ताक्षो भीमदंष्ट्रस्तु विद्युज्जिह्वस्तथैव च । अतिकायो महाकायो दीर्घबाहुः कृतान्तकः ।। ९३.
एते द्वादश दैत्येन्द्रा आदित्यान् युधि दुद्रुवुः । स्वकं सैन्यमुपादाय तद्वदन्येऽपि दानवाः । रुद्रान् दुद्रुवुरव्यग्रा यथासंख्येन कोपिताः ।। ९३.
कालः कृतान्तो रक्ताक्षो हरणो मित्रहाऽनिलः । यज्ञहा ब्रह्महा गोघ्नः स्त्रीघ्नः संवर्त्तकस्तथा ।। ९३.
इत्येते दश चैकश्च दैत्येन्द्रा युद्धदुर्मदाः । यथासंख्येन रुद्रांस्तु दुद्रुवुर्भीमविक्रमाः ।। ९३.
शेषान् देवान् शेषदैत्या यथायोगमुपाद्रवन् । स्वयं महिषदैत्यस्तु इन्द्रं दुद्राव वेगितः ।। ९३.
स चापि बलवान् दैत्यो ब्रह्मणो वरदर्पितः । अवध्यः पुरुषेणाजौ यद्यपि स्यात् पिनाकधृक् ।। ९३.
आदित्यैर्वसुभिः साध्यै रुद्रैश्च निहता भृशम् । असुरा यातुधानाश्च संख्यापूरणकेवलाः ।। ९३.
देवानामपि सैन्यानि निहतान्यसुरैर्युधि । एवं भूते तदा भग्ने देवेन्द्रे विद्रुताः सुराः ।। ९३.
अर्दिता विविधैः शस्त्रैः शूलपट्टिशमुद्गरैः । गतवन्तो ब्रह्मलोकमसुरैरर्दिताः सुराः ।। ९३.
श्रीवराह उवाच । अथ विद्युत्प्रभो दैत्यस्तथा दूतो विसर्जितः । देव्याः सकाशं गत्वाऽसौ तामुवाच सुमध्यमाम् ।। ९४.
प्रणम्य प्रयतो भूत्वा कुमारीशतसंकुलाम् । आस्थाने विनयापन्नस्ततो वचनमब्रवीत् ।। ९४.
विद्युत्प्रभ उवाच । देवि पूर्वमृषिस्त्वासीदादिसर्गे कसंभवः । सखा सारस्वतो जातः सुपार्श्वो नाम वै विभुः ।। ९४.
तस्याभवन्महातेजाः सिन्धुद्वीपः प्रतापवान् । स हि तीव्रं तपस्तेपे माहिष्मत्यां पुरोत्तमे ।। ९४.
कुर्वतस्तु तपो घोरं निराहारस्य शोभने । आद्या तु विप्रचित्तेस्तु सुता सुरसुतोपमा । माहिष्मतीति विख्याता रूपेणासदृशी भुवि ।। ९४.
सा सखीभिः परिवृता विहरन्ती यदृच्छया । आगता मन्दरद्रोणीं तत्रापश्यत् तपोवनम् । मुनेरम्बरसंज्ञस्य विविधद्रुममालिनम् ।। ९४.
लतागृहैस्तु विविधैर्वकुलैर्लकुचैस्तथा । चन्दनैः स्पन्दनैः शालैः सरलैरुपशोभितम् । विचित्रवनखण्डैश्च भूषितं तु महात्मनः ।। ९४.