महिष उवाच । मह्यं तु कथिता बाला नारदेन महर्षिणा । सा चाजित्य सुराध्यक्षं न लभ्येत वराङ्गना ।। ९२.
एतदर्थं भवन्तो वै कथयन्तु विमृश्य वै । कथं सा लभ्यते बाला कथं देवाश्च निर्जिताः । भवेयुरिति तत्सर्वं कथयन्तु द्रुतं मम ।। ९२.
एवमुक्तास्ततः सर्वे कथयामासुरञ्जसा । ऊचुः संमन्त्र्य ते सर्वे कथयामो वयं प्रभो ।। ९२.
एवमुक्तस्तथोवाच प्रघसो दानवेश्वरम् । या सा ते कथिता दैत्य नारदेन महासती । सा शक्तिः परमा देवी वैष्णवी लोकधारिणी ।। ९२.
गुरुपत्नी राजपत्नी तथा सामन्तयोषितः । जिघृक्षन् नश्यते राजा तथागम्यागमेन च ।। ९२.
प्रघसेनैवमुक्तस्तु विघसो वाक्यमब्रवीत् । सम्यगुक्तं प्रघसेन तां देवीं प्रति पार्थिव ।। ९२.
यदि नाम मतैक्यं तु बुद्धिः स्मरणमागता । वरणीया कुमारी तु सर्वदा विजिगीषुभिः । न स्वतन्त्रेण कन्यायाः कार्यं क्वापि प्रकर्षणम् ।। ९२.
यदि वो रोचते वाक्यं मदीयं मन्त्रिसत्तमाः । तदानीं तां शुभां देवीं गत्वा याचन्तु मन्त्रिणः ।। ९२.
यो महात्मा भवेत् तस्या बन्धुस्तं याचयामहे । साम्नैवादौ ततः पश्चात् करिष्यामः प्रदानकम् । ततो भेदं करिष्यामस्ततो दण्डं क्रमेण च ।। ९२.
अनेन क्रमयोगेन यदि सा नैव लभ्यते । ततः सन्नह्य गच्छामो बलाद् गृह्णीम तां शुभाम् ।। ९२.
विघसेनैवमुक्ते तु शेषास्तु मन्त्रिणो वचः । शुभमूचुः प्रशंसन्तः सर्वे हर्षितया गिरा ।। ९२.
साधूक्तं विघसेनेदं यत् तां प्रति वराननाम् । तदेव क्रियतां शीघ्रं दूतस्तत्र विसर्ज्यताम् ।। ९२.
यः सर्वशास्त्रनीतिज्ञः शुचिः शौर्यसमन्वितः । तस्माज् ज्ञात्वा तु तां देवीं वर्णतो रूपतो गुणैः ।। ९२.
पराक्रमेण शौर्येण शौण्डीर्येण बलेन च । बन्धुवर्गेण सामग्र्य स्थानेन करणेन च । एवं ज्ञात्वा तु तां देवीं ततः कार्यं विधीयताम् ।। ९२.
ततः सपदि दैत्यस्य तद्वचः साधु साध्विति । प्रशशंसुर्वरारोहे विघसं मन्त्रिसत्तमम् ।। ९२.
प्रशस्य सर्वे तं दूतं संदेष्टुमुपचक्रमुः । विद्युत्प्रभं महाभागं महामायाविदं शुभम् ।। ९२.
विसर्जयित्वा तं दूतं विघसो वाक्यमब्रवीत् । संनह्यन्तां दानवेन्द्राश्चतुरङ्गबलेन ह । क्रियतां विजयस्तावद् देवसैन्यं प्रति प्रभो ।। ९२.
असुरेन्द्र सुरैर्भग्नैस्तत् पराक्रमभीषिता । सा कन्या वशतामेति त्वयि शक्रसमागते ।। ९२.
लोकपालैर्जितैः सर्वैस्तथैव मरुतां गणैः । नागैर्विद्याधरैः सिद्धैर्गन्धर्वैः सर्वतो जितैः । रुद्रैर्वसुभिरादित्यैस्त्वमेवेन्द्रो भविष्यसि ।। ९२.
इन्द्रस्य ते शतं कन्या देवगन्धर्वयोषितः । वशमायान्ति साऽपि स्यात् सर्वथा वशमागता ।। ९२.
एवमुक्तस्तदा दैत्यः सेनापतिमुवाच ह । विरूपाक्षं महामेघवर्णं नीलाञ्जनप्रभम् ।। ९२.
आनीयतां द्रुतं सैन्यं हस्त्यश्वरथपत्तिनाम् । येन देवान् सगन्धर्वान् जयामि युधि दुर्ज्जयान् ।। ९२.
एवमुक्ते विरूपाक्षस्तदा सेनापतिर्द्रुतम् । आनिनाय महत्सैन्यमनन्तमपराजितम् ।। ९२.
एकैको दानवस्तत्र वज्रहस्तसमो युधि । एकैकं स्पर्धते देवं जेतुं स्वेन बलेन ह ।। ९२.
तेषां प्रधानभूतानामर्बुदं नवकोटयः । येषामेकस्यानुयाति तावद् बलमर्थोर्ज्जितम् ।। ९२.
तेषां नैकसहस्त्राणि दैत्यानां तु महात्मनाम् । समितिं चक्रुरव्यग्रास्तदा दैत्याः प्रहारिणः । प्रयाणं कारयामासुर्देवसैन्यजिघांसया ।। ९२.
विचित्रयाना विविधध्वजाग्रा विचित्रशस्त्रा विविधोग्ररूपाः । दैत्या सुराञ् जेतुमिच्छन्त उच्चैर् ननर्त्तुरात्तायुधभीमहस्ताः ।। ९२.
श्रीवराह उवाच । ततो महिषदैत्यस्तु कामरूपी महाबलः । मत्तहस्तिनामारुह्य यियासुर्मेरुपर्वतम् ।। ९३.
तत्रैन्द्रं पुरमासाद्य देवैः सह शतक्रतुम् । अभिदुद्राव दैत्येन्द्रस्ततो देवाः क्रुधान्विताः ।। ९३.
आदाय स्वानि शस्त्राणि वाहनानि विशेषतः । अधिष्ठायासुरानाजौ दुद्रुवुर्मुदिता भृशम् ।। ९३.