ततस्त्वामिह देवेशि द्रष्टुमभ्यागतः शुभे । एवमुक्त्वा मुनिः श्रीमांस्तां देवीमन्ववेक्षत ।। ९१.
दृष्ट्वा मुहूर्तं देवेशि विस्मितो नारदोऽभवत् । अहो रूपमहो कान्तिरहो धैर्यमहो वयः ।। ९१.
अहो निष्कामता देव्या इति खेदमुपाययौ । देवगन्धर्वसिद्धानां यक्षकिन्नररक्षसाम् ।। ९१.
न रूपमीदृशं क्वापि स्त्रीष्वन्यासु प्रदृश्यते । एवं संचिन्त्य मनसा नारदो विस्मयान्वितः ।। ९१.
प्रणम्य देवीं वरदामुत्पपात नभस्तलम् । गतश्च त्त्वरया युक्तः पुरीं दैत्येन्द्रपालिताम् ।। ९१.
महिषाख्येन भूतेशि समुद्रान्तःस्थितां पुरीम् । तत्राससाद भगवानसुरं महिषाकृतिम् ।। ९१.
दृष्ट्वा लब्धवरं वीरं देवसैन्यान्तकं महत् । स तेन पूजितो भक्त्या तदा लोकचरो मुनिः ।। ९१.
प्रीतात्मा नारदस्तस्मै देव्या रूपमनुत्तमम् । आचचक्षे यथान्यायं यद् दृष्टं देवतापुरे ।। ९१.
नारद उवाच । असुरेन्द्र श्रृणुष्वेकं कन्यारत्नं समाहितः । येन लब्धं तु त्रैलोक्यं वरदानाच्चराचरम् ।। ९१.
ब्रह्मलोकादहं दैत्य मन्दराद्रिमुपागतः । तत्र देवीपुरं दृष्टं कुमारीशतसङ्कुलम् ।। ९१.
तत्र प्रधाना या कन्या तापसी व्रतधारिणी । सा देवदैत्ययक्षाणां मध्ये काचिन्न दृश्यते ।। ९१.
यादृशी सा शुभा दैत्य तादृश्येकाण्डमध्यतः । भ्रमता तादृशी दृष्ट्वा न कदाचिन्मया सती ।। ९१.
तस्याश्च देवगन्धर्वा ऋषयः सिद्धचारणाः । उपासांचक्रिरे सर्वे येऽप्यन्ये दैत्यनायकाः ।। ९१.
तां दृष्ट्वा वरदां देवीमहं तूर्णमिहागतः । अजित्वा देवगन्धर्वान् न तां जयति कश्चन ।। ९१.
एवमुक्त्वा क्षणं स्थित्वा तमनुज्ञाप्य नारदः । यथागतं ययौ धीमानन्तर्धानेन तत्क्षणात् ।। ९१.
श्रीवराह उवाच । गते तु नारदे दैत्यश्चिन्तयामास तां शुभाम् । कथितां नारदमुखाच्छ्रुत्वा विस्मितमानसः ।। ९२.
तामेव चिन्तयन् शर्म न लेभे दैत्यसत्तमः । अलंशर्मा महामन्त्री आनिनाय महाबलः ।। ९२.
तस्याष्टौ मन्त्रिणः शूरा नीतिमन्तो बहुश्रुताः । प्रघसो विघसश्चैव शङ्कुकर्णो विभावसुः । विद्युन्माली सुमाली च पर्जन्यः क्रूर एव च ।। ९२.
एते मन्त्रिवरास्तस्य प्राधान्येन प्रकीर्तिताः । ते दानवेन्द्रमासीनमूचुः कृत्यं विधीयताम् ।। ९२.
तेषां तद्वचनं श्रुत्वा दानवेन्द्रो महाबलः । उवाच कन्यालाभार्थं नारदावाप्तनिश्चयः ।। ९२.
महिष उवाच । मह्यं तु कथिता बाला नारदेन महर्षिणा । सा चाजित्य सुराध्यक्षं न लभ्येत वराङ्गना ।। ९२.
एतदर्थं भवन्तो वै कथयन्तु विमृश्य वै । कथं सा लभ्यते बाला कथं देवाश्च निर्जिताः । भवेयुरिति तत्सर्वं कथयन्तु द्रुतं मम ।। ९२.
एवमुक्तास्ततः सर्वे कथयामासुरञ्जसा । ऊचुः संमन्त्र्य ते सर्वे कथयामो वयं प्रभो ।। ९२.
एवमुक्तस्तथोवाच प्रघसो दानवेश्वरम् । या सा ते कथिता दैत्य नारदेन महासती । सा शक्तिः परमा देवी वैष्णवी लोकधारिणी ।। ९२.
गुरुपत्नी राजपत्नी तथा सामन्तयोषितः । जिघृक्षन् नश्यते राजा तथागम्यागमेन च ।। ९२.
प्रघसेनैवमुक्तस्तु विघसो वाक्यमब्रवीत् । सम्यगुक्तं प्रघसेन तां देवीं प्रति पार्थिव ।। ९२.
यदि नाम मतैक्यं तु बुद्धिः स्मरणमागता । वरणीया कुमारी तु सर्वदा विजिगीषुभिः । न स्वतन्त्रेण कन्यायाः कार्यं क्वापि प्रकर्षणम् ।। ९२.
यदि वो रोचते वाक्यं मदीयं मन्त्रिसत्तमाः । तदानीं तां शुभां देवीं गत्वा याचन्तु मन्त्रिणः ।। ९२.
यो महात्मा भवेत् तस्या बन्धुस्तं याचयामहे । साम्नैवादौ ततः पश्चात् करिष्यामः प्रदानकम् । ततो भेदं करिष्यामस्ततो दण्डं क्रमेण च ।। ९२.
अनेन क्रमयोगेन यदि सा नैव लभ्यते । ततः सन्नह्य गच्छामो बलाद् गृह्णीम तां शुभाम् ।। ९२.