देव्या अनुचराः सर्वाः पाशाङ्कुशधराः शुभाः । ताभिः परिवृता देवी सिंहासनगता शुभा ।। ९१.
सुसितैश्चामरैः स्त्रीभिर्वीज्यमाना विलासिनी । कौमारं व्रतमास्थाय तपः कर्तुं समुद्यता ।। ९१.
यौवनस्था महाभागा पीनवृत्तपयोधरा । चम्पकाशोकपुन्नागनागकेसरदामभिः ।। ९१.
सर्वाङ्गेष्वर्चिता देवी ऋषिदेवनमस्कृता । पूज्यमाना वरस्त्रीभिः कुमारीभिः समन्ततः ।। ९१.
सर्वाङ्गभोगिनी देवी यावदास्ते तपोऽन्विता । तावदागतवांस्तत्र नारदो ब्रह्मणः सुतः ।। ९१.
तं दृष्ट्वा सहसा देवी ब्रह्मपुत्रं तपोधनम् । विद्युत्प्रभामुवाचेदमासनं दीयतामिति । पाद्यमाचमनीयं च क्षिप्रमस्मै प्रदीयताम् ।। ९१.
एवमुक्ता तदा देव्या कन्या विद्युप्रभा शुभा । आसनं पाद्यमर्घ्यं च नारदाय न्यवेदयत् ।। ९१.
ततः कृतासनं दृष्ट्वा प्रणतं नारदं मुनिम् । उवाच वचनं देवी हर्षेण महताऽन्विता ।। ९१.
स्वागतं भो मुनिश्रेष्ठ कस्माल्लोकादिहागतः । किं कार्यं वद ते कृत्यं मा ते कालात्ययो भवेत् ।। ९१.
एवमुक्तस्तदा देव्या नारदः प्राह लोकवित् । ब्रह्मलोकादिन्द्रलोकं तस्माद् रौद्रमथाचलम् ।। ९१.
ततस्त्वामिह देवेशि द्रष्टुमभ्यागतः शुभे । एवमुक्त्वा मुनिः श्रीमांस्तां देवीमन्ववेक्षत ।। ९१.
दृष्ट्वा मुहूर्तं देवेशि विस्मितो नारदोऽभवत् । अहो रूपमहो कान्तिरहो धैर्यमहो वयः ।। ९१.
अहो निष्कामता देव्या इति खेदमुपाययौ । देवगन्धर्वसिद्धानां यक्षकिन्नररक्षसाम् ।। ९१.
न रूपमीदृशं क्वापि स्त्रीष्वन्यासु प्रदृश्यते । एवं संचिन्त्य मनसा नारदो विस्मयान्वितः ।। ९१.
प्रणम्य देवीं वरदामुत्पपात नभस्तलम् । गतश्च त्त्वरया युक्तः पुरीं दैत्येन्द्रपालिताम् ।। ९१.
महिषाख्येन भूतेशि समुद्रान्तःस्थितां पुरीम् । तत्राससाद भगवानसुरं महिषाकृतिम् ।। ९१.
दृष्ट्वा लब्धवरं वीरं देवसैन्यान्तकं महत् । स तेन पूजितो भक्त्या तदा लोकचरो मुनिः ।। ९१.
प्रीतात्मा नारदस्तस्मै देव्या रूपमनुत्तमम् । आचचक्षे यथान्यायं यद् दृष्टं देवतापुरे ।। ९१.
नारद उवाच । असुरेन्द्र श्रृणुष्वेकं कन्यारत्नं समाहितः । येन लब्धं तु त्रैलोक्यं वरदानाच्चराचरम् ।। ९१.
ब्रह्मलोकादहं दैत्य मन्दराद्रिमुपागतः । तत्र देवीपुरं दृष्टं कुमारीशतसङ्कुलम् ।। ९१.
तत्र प्रधाना या कन्या तापसी व्रतधारिणी । सा देवदैत्ययक्षाणां मध्ये काचिन्न दृश्यते ।। ९१.
यादृशी सा शुभा दैत्य तादृश्येकाण्डमध्यतः । भ्रमता तादृशी दृष्ट्वा न कदाचिन्मया सती ।। ९१.
तस्याश्च देवगन्धर्वा ऋषयः सिद्धचारणाः । उपासांचक्रिरे सर्वे येऽप्यन्ये दैत्यनायकाः ।। ९१.
तां दृष्ट्वा वरदां देवीमहं तूर्णमिहागतः । अजित्वा देवगन्धर्वान् न तां जयति कश्चन ।। ९१.
एवमुक्त्वा क्षणं स्थित्वा तमनुज्ञाप्य नारदः । यथागतं ययौ धीमानन्तर्धानेन तत्क्षणात् ।। ९१.
श्रीवराह उवाच । गते तु नारदे दैत्यश्चिन्तयामास तां शुभाम् । कथितां नारदमुखाच्छ्रुत्वा विस्मितमानसः ।। ९२.
तामेव चिन्तयन् शर्म न लेभे दैत्यसत्तमः । अलंशर्मा महामन्त्री आनिनाय महाबलः ।। ९२.
तस्याष्टौ मन्त्रिणः शूरा नीतिमन्तो बहुश्रुताः । प्रघसो विघसश्चैव शङ्कुकर्णो विभावसुः । विद्युन्माली सुमाली च पर्जन्यः क्रूर एव च ।। ९२.
एते मन्त्रिवरास्तस्य प्राधान्येन प्रकीर्तिताः । ते दानवेन्द्रमासीनमूचुः कृत्यं विधीयताम् ।। ९२.
तेषां तद्वचनं श्रुत्वा दानवेन्द्रो महाबलः । उवाच कन्यालाभार्थं नारदावाप्तनिश्चयः ।। ९२.