सैकाकिनी तपस्तेपे विशालायां तु शोभने । तस्यास्तपन्त्याः कालेन महता क्षुभितं मनः ।। ९१.
तस्मात् क्षोभात् समुत्तस्थुः कुमार्यः सौम्यलोचनाः । नीलकुञ्चितकेशान्ता बिम्बोष्ठायतलोचनाः । नितम्बरशनोद्दामा नूपुराढ्याः सुवर्चसः ।। ९१.
एवंविधाः स्त्रियो देव्या क्षोभिते मनसि द्रुतम् । उत्तस्थुः शतसाहस्त्राः कोटिशो विविधाननाः ।। ९१.
दृष्ट्वा कुमार्यः सा देवी तस्मिन्नेव गिरौ शुभा । तपसा निर्ममे देवी पुरं हर्म्यशताकुलम् ।। ९१.
विशालरथ्यं सौवर्णप्रासादैरुपशोभितम् । अन्तर्जलानि वेश्मानि मणिसोपानवन्ति च । रत्नजालगवाक्षाणि आसन्नोपवनानि च ।। ९१.
असंख्यातानि हर्म्याणि तथा कन्या धराधरे । प्राधान्येन प्रवक्ष्यामि कन्यानामानि शोभने ।। ९१.
विद्युत्प्रभा चन्द्रकान्तिः सूर्यकान्तिस्तथाऽपरा । गम्भीरा चारुकेशी च सुजाता मुञ्जकेशिनी ।। ९१.
घृताची चोर्वशी चान्या शशिनी शीलमण्डिता । चारुकन्या विशालाक्षी धन्या पीनपयोधरा ।। ९१.
चन्द्रप्रभा गिरिसुता तथा सूर्यप्रभाऽमृता । स्वयंप्रभा चारुमुखी शिवदूती विभावरी ।। ९१.
जया च विजया चैव जयन्ती चापराजिता । एताश्चान्याश्च शतशः कन्यास्तस्मिन् पुरोत्तमे ।। ९१.
देव्या अनुचराः सर्वाः पाशाङ्कुशधराः शुभाः । ताभिः परिवृता देवी सिंहासनगता शुभा ।। ९१.
सुसितैश्चामरैः स्त्रीभिर्वीज्यमाना विलासिनी । कौमारं व्रतमास्थाय तपः कर्तुं समुद्यता ।। ९१.
यौवनस्था महाभागा पीनवृत्तपयोधरा । चम्पकाशोकपुन्नागनागकेसरदामभिः ।। ९१.
सर्वाङ्गेष्वर्चिता देवी ऋषिदेवनमस्कृता । पूज्यमाना वरस्त्रीभिः कुमारीभिः समन्ततः ।। ९१.
सर्वाङ्गभोगिनी देवी यावदास्ते तपोऽन्विता । तावदागतवांस्तत्र नारदो ब्रह्मणः सुतः ।। ९१.
तं दृष्ट्वा सहसा देवी ब्रह्मपुत्रं तपोधनम् । विद्युत्प्रभामुवाचेदमासनं दीयतामिति । पाद्यमाचमनीयं च क्षिप्रमस्मै प्रदीयताम् ।। ९१.
एवमुक्ता तदा देव्या कन्या विद्युप्रभा शुभा । आसनं पाद्यमर्घ्यं च नारदाय न्यवेदयत् ।। ९१.
ततः कृतासनं दृष्ट्वा प्रणतं नारदं मुनिम् । उवाच वचनं देवी हर्षेण महताऽन्विता ।। ९१.
स्वागतं भो मुनिश्रेष्ठ कस्माल्लोकादिहागतः । किं कार्यं वद ते कृत्यं मा ते कालात्ययो भवेत् ।। ९१.
एवमुक्तस्तदा देव्या नारदः प्राह लोकवित् । ब्रह्मलोकादिन्द्रलोकं तस्माद् रौद्रमथाचलम् ।। ९१.
ततस्त्वामिह देवेशि द्रष्टुमभ्यागतः शुभे । एवमुक्त्वा मुनिः श्रीमांस्तां देवीमन्ववेक्षत ।। ९१.
दृष्ट्वा मुहूर्तं देवेशि विस्मितो नारदोऽभवत् । अहो रूपमहो कान्तिरहो धैर्यमहो वयः ।। ९१.
अहो निष्कामता देव्या इति खेदमुपाययौ । देवगन्धर्वसिद्धानां यक्षकिन्नररक्षसाम् ।। ९१.
न रूपमीदृशं क्वापि स्त्रीष्वन्यासु प्रदृश्यते । एवं संचिन्त्य मनसा नारदो विस्मयान्वितः ।। ९१.
प्रणम्य देवीं वरदामुत्पपात नभस्तलम् । गतश्च त्त्वरया युक्तः पुरीं दैत्येन्द्रपालिताम् ।। ९१.
महिषाख्येन भूतेशि समुद्रान्तःस्थितां पुरीम् । तत्राससाद भगवानसुरं महिषाकृतिम् ।। ९१.
दृष्ट्वा लब्धवरं वीरं देवसैन्यान्तकं महत् । स तेन पूजितो भक्त्या तदा लोकचरो मुनिः ।। ९१.
प्रीतात्मा नारदस्तस्मै देव्या रूपमनुत्तमम् । आचचक्षे यथान्यायं यद् दृष्टं देवतापुरे ।। ९१.
नारद उवाच । असुरेन्द्र श्रृणुष्वेकं कन्यारत्नं समाहितः । येन लब्धं तु त्रैलोक्यं वरदानाच्चराचरम् ।। ९१.
ब्रह्मलोकादहं दैत्य मन्दराद्रिमुपागतः । तत्र देवीपुरं दृष्टं कुमारीशतसङ्कुलम् ।। ९१.