या सृष्टिर्ब्रह्मणो देवी श्वेतवर्णा विभावरी । सा कुमारी महाभागा विपुलाब्जदलेक्षणा । सद्यो ब्रह्माणमामन्त्र्य तत्रैवान्तरधीयत ।। ८९.
साऽन्तर्हिता ययौ देवी वरदा श्वेतपर्वतम् । तपस्तप्तुं महत् तीव्रं सर्वगत्वमभीप्सती ।। ८९.
या वैष्णवी कुमारी तु साप्यनुज्ञाय केशवम् । मन्दराद्रिं ययौ तप्तुं तपः परमदुश्चरम् ।। ८९.
या सा कृष्णा विशालाक्षी रौद्री दंष्ट्राकरालिनी । सा नीलपर्वतवरं तपश्चर्तुं ययौ शुभा ।। ८९.
अथ कालेन महता प्रजाः स्त्रष्टुं प्रजापतिः । आरब्धवान् तदा तस्य ववृधे सृजतो बलम् ।। ८९.
यदा न ववृधे तस्य ब्रह्मणो मानसी प्रजा । तदा दध्यौ किमेतन्मे न तथा वर्द्धते प्रजा ।। ८९.
ततो ब्रह्मा हृदा दध्यौ योगाभ्यासेन सुव्रते । चिन्तयन् बुबुधे देवस्तां कन्यां श्वेतपर्वते । तपश्चरन्तीं सुमहत् तपसा दग्धकिल्बिषाम् ।। ८९.
ततो ब्रह्मा ययौ तत्र यत्र सा कमलेक्षणा । तपश्चरति तां दृष्ट्वा वाक्यमेतदुवाच ह ।। ८९.
ब्रह्मोवाच । किं तपः क्रियते भद्रे कार्यमावेक्ष्य शोभते । तुष्टोऽस्मि ते विशालाक्षि वरं किं ते ददाम्यहम् ।। ८९.
सृष्टिरुवाच । भगवन्नेकदेशस्था नोत्सहे स्थातुमञ्जसा । अतोऽर्थं त्वां वरं याचे सर्वगत्वमभीप्सती ।। ८९.
एवमुक्तस्तदा देव्या सृष्ट्या ब्रह्मा प्रजापतिः । उवाच तां तदा देवीं सर्वगा त्वं भविष्यसि ।। ८९.
एवमुक्ता तदा तेन सृष्टिः सा कमलेक्षणा । तस्य ह्यङ्के लयं प्राप्ता सा देवी पद्मलोचना । तस्मादारभ्य कालात् तु ब्राह्मी सृष्टिर्व्यवर्द्धत ।। ८९.
ब्रह्मणो मानसाः सप्त तेषामन्ये तपोधनाः । तेषामन्ये ततस्त्वन्ये चतुर्द्धा भूतसंग्रहः । सस्थाणुजङ्गमानां च सृष्टिः सर्वत्र संस्थिता ।। ८९.
यत्किंचिद् वाङ्मयं लोके जगत्स्थावरजङ्गमम् । तत्सर्वं स्थापितं सृष्ट्या भूतं भव्यं च सर्वदा ।। ८९.
श्रीवराह उवाच । श्रृणु चान्यं वरारोहे तस्या देव्या महाविधिम् । या सा त्रिशक्तिरुद्दिष्टा शिवेन परमेष्ठिना ।। ९०.
तत्र सृष्टिः पुरा प्रोक्ता श्वेतवर्णा स्वरूपिणी । एकाक्षरेति विख्याता सर्वाक्षरमयी शुभा ।। ९०.
वागीशेति समाख्याता क्वचिद् देवी सरस्वती । सैव विद्येश्वरी देवी सैव क्वाप्यमिताक्षरा । सैव ज्ञानविधिः क्वापि सैव देवी विभावरी ।। ९०.
यानि सौम्यानि नामानि यानि ज्ञानोद्भवानि च । तानि तस्या विशालाक्षि द्रष्टव्यानि वरानने ।। ९०.
या वैष्णवी विशालाक्षी रक्तवर्णा सुरूपिणी । अपरा सा समाख्याता रौद्री चैव परापरा ।। ९०.
एतास्त्रयोऽपि सिद्ध्यन्ते यो रुद्रं वेत्ति तत्त्वतः । सर्वगेयं वरारोहे एकैव त्रिविधा स्मृता ।। ९०.
एषा सृष्टिर्वरारोहे कथिता ते पुरातनी । तया सर्वमिदं व्याप्तं जगत् स्थावरजङ्गमम् ।। ९०.
या साऽऽदौ वर्द्धिता सृष्टिर्ब्रह्मणोऽव्यक्तजन्मनः । तया तुल्यां स्तुतिं चक्रे तस्या देव्याः पितामहः ।। ९०.
ब्रह्मोवाच । जयस्व सत्यसंभूते ध्रुवे देवि वराक्षरे । सर्वगे सर्वजननि सर्वभूतमहेश्वरि ।। ९०.
सर्वज्ञे त्वं वरारोहे सर्वसिद्धिप्रदायिनी । सिद्धिबुद्धिकरी देवि प्रसूतिः परमेश्वरि ।। ९०.
त्वं स्वाहा त्वं स्वधा देवि त्वमुत्पत्तिर्वरानने । त्वमोङ्कारस्थिता देवि वेदोत्पत्तिस्त्वमेव च ।। ९०.
देवानां दानवानां च यक्षगन्धर्वरक्षसाम् । पशूनां वीरुधां चापि त्वमुत्पत्तिर्वरानने ।। ९०.
विद्या विद्येश्वरी सिद्धा प्रसिद्धा त्वं सुरेश्वरि । सर्वज्ञा त्वं वरारोहे सर्वसिद्धिप्रदायिनी ।। ९०.
सर्वगा गतसंदेहा सर्वशत्रुनिबर्हिणी । सर्वविद्येश्वरी देवी नमस्ते स्वस्तिकारिणि ।। ९०.
ऋतुस्नातां स्त्रियं गच्छेद् यस्त्वां स्तुत्वा वरानने । तस्यावश्यं भवेत् सृष्टिस्त्वत्प्रसादात् प्रजेश्वरि । स्वरूपा विजया भद्रा सर्वशत्रुप्रमोहिनि ।। ९०.
श्रीवराह उवाच । या मन्दरगता देवी तपस्तप्तुं तु वैष्णवी । राजसी परमा शक्तिः कौमारव्रतधारिणी ।। ९१.