श्रीवराह उवाच । एवमुक्त्वा गतो रुद्रः क्षणाददृश्यमूर्तिमान् । ते च सर्वे गता देवा ऋषयश्च यथागतम् ।। ८८.
धरण्युवाच । परमात्मा शिवः पुण्य इति केचिद् भवं विदुः । अपरे हरिमीशानमिति केचिच्चतुर्मुखम् ।। ८९.
एतेषां कतमो देवः परः को वाऽथवाऽपरः । एतद्देव ममाचक्ष्व परं कौतूहलं विभो ।। ८९.
श्रीवराह उवाच । परो नारायणो देवस्तस्माज्जातश्चतुर्मुखः । तस्माद् रुद्रोऽभवद् देवि स च सर्वज्ञतां गतः ।। ८९.
तस्याश्चर्याण्यनेकानि विविधानि वरानने । श्रृणु सर्वाणि चार्वङ्गि कथ्यमानं मयाऽनघे ।। ८९.
कैलासशिखरे रम्ये नानाधातुविचित्रिते । वसत्यनुदिनं देवः शूलपाणिस्त्रिलोचनः ।। ८९.
सैकस्मिन् दिवसे देवः सर्वभूतनमस्कृतः । गणैः परिवृतो गौर्या महानासीत् पिनाकधृक् ।। ८९.
तत्र सिंहमुखाः केचिद् गणा नर्दन्ति सिंहवत् । अपरे हस्तिवक्त्राश्च हयवक्त्रास्तथापरे ।। ८९.
अपरे शिंशुमारास्या अपरे सूकराननाः । अपरेऽश्वामुखा रौद्रा खरास्याजाननास्तथा । छागमत्स्याननाः क्रूरा ह्यनन्ताः शस्त्रपाणयः ।। ८९.
केचिद् गायन्ति नृत्यन्ति धावन्ति स्फोटयन्ति च । हसन्ति किलकिलायन्ति गर्जन्ति च महाबलाः ।। ८९.
केचिल्लोष्टांस्तु संगृह्य युयुधुर्गणनायकाः । अपरे मल्लयुद्धेन युयुधुर्बलदर्पिताः । एवं गणसहस्त्रेण वृतो देवो महेश्वरः ।। ८९.
यावदास्ते स्वयं देव्या क्रीडन् देववरः स्वयम् । तावद् ब्रह्मा स्वयं देवैरुपायात् सह सत्वरः ।। ८९.
तमागतमथो दृष्ट्वा पूजयित्वा विधानतः । उवाच परमो देवो रुद्रो ब्रह्माणमव्यम् ।। ८९.
किमागमनकृत्यं ते ब्रह्मन् ब्रूहि ममाचिरम् । किं च देवास्त्वरायुक्ता आगता मम सन्निधौ ।। ८९.
ब्रह्मोवाच । अस्त्यन्धको महादैत्यस्तेन सर्वे दिवौकसः । अर्दिता मत्समीपं तु बुद्ध्वा मां शरणैषिणः ।। ८९.
ततश्चैते मया सर्वे प्रोक्ता देवा भवं प्रति । गच्छाम इति देवेश ततस्त्वेते समागताः ।। ८९.
एवमुक्त्वा स्वयं ब्रह्मा वीक्षां चक्रे पिनाकिनम् । नारायणं च मनसा सस्मार परमेश्वरम् । ततो नारायणो देवो द्वाभ्यां मध्ये व्यवस्थितः ।। ८९.
ततस्त्वेकीगतास्ते तु ब्रह्मविष्णुमहेश्वराः । परस्परं सूक्ष्मदृष्ट्या वीक्षां चक्रुर्मुदायुताः ।। ८९.
ततस्तेषां त्रिधा दृष्टिर्भूत्वैका समजायत । तस्यां दृष्ट्यां समुत्पन्ना कुमारी दिव्यरूपिणी ।। ८९.
नीलोत्पलदलश्यामा नीलकुञ्चितमूर्द्धजा । सुनासा सुललाटान्ता सुवक्त्रा सुप्रतिष्ठिता ।। ८९.
त्वष्ट्रा यदग्निजिह्वं तु लक्षणं परिभाषितम् । तत्सर्वमेकतः संस्थं कन्यायां संप्रदृश्यते ।। ८९.
अथ तां दृश्य कन्यां तु ब्रह्मविष्णुमहेश्वराः । ऊचुः काऽसि शुभे ब्रूहि किं वा कार्यं विपश्चितम् ।। ८९.
त्रिवर्णा च कुमारी सा कृष्णशुक्ला च पीतिका । उवाच भवतां दृष्टेर्योगाज्जाताऽस्मि सत्तमाः । किं मां न वेत्थ सुश्रोणीं स्वशक्तिं परमेश्वरीम् ।। ८९.
ततो ब्रह्मादयस्ते च तस्यास्तुष्टा वरं ददुः । नाम्नाऽसि त्रिकला देवी पाहि विश्वं च सर्वदा ।। ८९.
अपराण्यपि नामानि भविष्यन्ति तवानघे । गुणोत्थानि महाभागे सर्वसिद्धिकराणि च ।। ८९.
अन्यच्च कारणं देवि त्रिवर्णाऽसि वरानने । मूर्तित्रयं त्रिभिर्वर्णैः कुरु देवि स्वकं द्रुतम् ।। ८९.
एवमुक्ता तदा देवैरकरोत् त्रिविधां तनुम् । सितां रक्तां तथा कृष्णां त्रिमूर्तित्वं जगाम ह ।। ८९.
या सा ब्राह्मी शुभा मूर्त्तिस्तया सृजति वै प्रजाः । सौम्यरूपेण सुश्रोणी ब्रह्मसृष्ट्या विधानतः ।। ८९.
या सा रक्तेन वर्णेन सुरूपा तनुमध्यमा । शङ्खचक्रधरा देवी वैष्णवी सा कला स्मृता । सा पाति सकलं विश्वं विष्णुमायेति कीर्त्त्यते ।। ८९.
या सा कृष्णेन वर्णेन रौद्री मूर्त्तिस्त्रिशूलिनी । दंष्ट्राकरालिनी देवी सा संहरति वै जगत् ।। ८९.