इत्येताभ्यन्तरद्रोण्यो नानाकाराः प्रकीर्त्तिताः । मेरोः पार्श्वेन विप्रेन्द्रा यथावदनुपूर्वशः ।। ७९.
रुद्र उवाच । अथ दक्षिणदिग्व्यवस्थिताः पर्वतद्रोण्यः सिद्धाचरिताः कीर्त्यन्ते । शिशिरपतङ्गयोर्मध्ये शुक्लभूमिस्त्रिया मुक्तलतागलितपादपम् । इक्षुक्षेपे च शिखरे पादपैरुपशोभितम् । उदुम्बरवनं रम्यं पक्षिसङ्घनिषेवितम् ।। ८०.
फलितं तद् वनं भाति महाकूर्मोपमैः फलैः ८०.
तत्र प्रसन्नस्वादुसलिला बहूदका नद्यो वहन्ति । तत्राश्रमो भगवतः कर्दमस्य प्रजापतेः । नानामुनिजनाकीर्णस्तच्च शतयोजनमेकं परिमण्डलं वनं च । तथा च ताम्राभस्य शैलस्य पतङ्गस्य चान्तरे शतयोजनविस्तीर्णं द्विगुणायतं बालार्कसदृशराजीवपुण़्रीकैः समन्ततः सहस्त्रपत्रैरविरलैरलंकृतं महत् सरोऽनेकसिद्धगन्धर्वाध्युषितम् । ।। ८०.
तस्य च मध्ये महाशिखरः शतयोजनायामस्त्रिंशद्योजनविस्तीर्णोऽनेकधातुरत्नभूषितस्तस्य चोपरि महती रथ्या रत्नप्राकारतोरणा । तस्यां महद् विद्याधरपुरम् । तत्र पुलोमनामा विद्याधरराजः शतसहस्त्रपरीवारः । तथा च विखाखाचलेन्द्रस्य श्वेतस्य चान्तरे सरः । तस्य च पूर्वतीरे महदाम्रवनं कनकसंकाशैः फलैरतिसुगन्धिभिर्महाकुम्भमात्रैः सर्वतश्चितम् । देवगन्धर्वादयश्च तत्र निवसन्ति
सुमुलस्याचलेन्द्रस्य वसुधारस्य चान्तरे त्रिंशद्योजनविस्तीर्णे पञ्चाशद्योजनायते
बिल्वस्थली नाम । तत्र फलानि विद्रुमसंकाशानि तैश्च पतद्भिः स्थलमृत्तिका क्लिन्ना । तां च स्थलीं सुगुह्यकादयः सेवन्ते बिल्वफलाशिनः । तथा च वसुधाररत्नधारयोरन्तरे त्रिंशद्योजनविस्तीर्णं शतयोजनमायतं सुगन्धिकिंशुकवनं सदाकुसुमं यस्य गन्धेन वास्यते योजनशतम् । तत्र सिद्धाध्युषितं जलोपेतं च
तत्र चादित्यस्य देवस्य महदायतनम् । समासे मासे च भगवानवतरति सूर्यः प्रजापतिः । कालजनकं देवादयो नमस्यन्ति । तथा च पञ्चकूटस्य कैलासस्य चान्तरे सहस्त्रयोजनायामं विस्तीर्णं शतयोजनं हंसपाण्डुरं क्षुद्रसत्त्वैरनाधृष्यं स्वर्गसोपानमिव भूमण्डलम्
अथ पश्चिमदिग्भागे व्यवस्थिता गिरिद्रोण्यः कीर्त्यन्ते । सुपार्श्वशिखिशैलयोर्मध्ये समन्ताद् योजनशतमेकं भौमशिलातलं नित्यतप्तं दुःस्पर्शम् । तस्य मध्ये त्रिंशद्योजनविस्तीर्णं मण्डलं वह्निस्थानम् । स च सर्वकालमनिन्धनो भगवान् लोकक्षयकारी संवर्तको ज्वलते । अन्तरे च शैलवरयोः कुमुदाञ्जनयोः शतयोजनविस्तीर्णामातुलुङ्गस्थली सर्वसत्त्वानामगम्या । पीतवर्णैः फलैरावृता सती सा स्थली शोभते । तत्र च पुण्यो ह्रदः सिद्धैरुपेतः। बृहस्पतेस्तद्वनम्।। तथा च शैलयोः पिञ्जरगौरयोरन्तरेण सरोद्रोणी ह्यनेकशतयोजनायता महद्भिश्च षट्पदोद्घुष्टैः कुमुदैरुपशोभिता
तत्र च भगवतो विष्णोः परमेश्वरस्यायतनम् । तथा च शुक्लपाण्डुरयोरपि महागिर्योरन्तरे त्रिंशद्योजनविस्तीर्णो नवत्यायत एकः शिलोद्देशोवृक्षविवर्जितः । तत्र निष्पङ्का दीर्घिका सवृक्षा च स्थलपद्मिनी अनेकजातीयैश्च पद्मैः शोभिता । तस्याश्च मध्ये पञ्चयोजनप्रमाणो महान्यग्रोधवृक्षः । तस्मिंश्चन्द्रशेखरोमापतिर्नीलवासाश्च देवो निवसति यक्षादिभिरीड्यमानः । सहस्त्रशिखरस्य गिरेः कुमुदस्य चान्तरे पञ्चाशद्योजनायामं विंशद्योजनविस्तृतमिक्षुक्षेपोच्चशिखरमनेकपक्षिसेवितम् । अनेकवृक्षफलैर्मधुरस्त्रवैरुपशोभितम् । तत्र चेन्द्रस्य महानाश्रमो दिव्याभिप्रायनिर्मितः । तथा च शङ्खकूटऋषभयोर्मध्ये पुरुषस्थलीरम्याऽनेकगुणानेकयोजनायता बिल्वप्रमाणैः कङ्कोलकैः सुगन्धिभिरुपेता । तत्र पुरुषकरसोन्मत्ता नागाद्याः प्रतिवसन्ति
तथा कपिञ्जलनागशैलयोरन्तरे द्विशतयोजनमायामविस्तीर्णा शतयोजनस्थली नानावनविभूषिता द्र्ाक्षाखर्जूरखण्डैरुपेता अनेकवृक्षवल्लीभिरनेकैश्च सरोभिरुपेता सा स्थली । तथा च पुष्करमहामेघयोरन्तरे षष्टियोजनविस्तीर्णा शतायामा पाणितलप्रख्या महती स्थली वृक्षवीरुधविवर्जिता ।तस्याश्च पार्श्वे चत्वारि महावनानि सरांसि चानेकयोजनानाम् ।दश पञ्च सप्त तथाष्टौ त्रिंशद् विंशति योजनानां स्थल्यो द्रोण्यश्च । तत्र काश्चिन्महाघोराः पर्वतक्षयाः
रुद्र उवाच । अतः परं पर्वतेषु देवानामवकाशा वर्ण्यन्ते । तत्र योऽसौ शान्ताख्यः पर्वतस्तस्योपरि महेन्द्रस्य क्रीडास्थानम् । तत्र देवराजस्य पारिजातकवृक्षवनम् । तस्य पूर्वपार्श्वे कुञ्जरो नाम गिरिः । तस्योपरि दानवानामष्टौ पुराणि च । १ तथा वज्रके पर्वतवरे राक्षसानामनेकानि पुराणि । ते च नाम्ना नीलकाः कामरूपिणः । महानीलेऽपि शैलेन्द्रपुराणि । पञ्चदशसहस्त्राणि किन्नराणां ख्यातानि । तत्र देवदत्तचन्द्रादयो राजानः । पञ्चदशकिन्नराणां गर्विताः । तानि सौवर्णानि बिलप्रवेशनानि च पुराणि । चन्द्रोदये च पर्वतवरे नागानामधिवासः । ते च बिलप्रवेशाः बिलेषु वैनतेयविषयावर्त्तिनो व्यवस्थितानुरागे च दानवेन्द्रा व्यवस्थिताः । वेणुमत्यपि विद्याधरपुरत्रयं । त्रिंशद्योजनशतविस्तीर्णमेकैकं तावदायतम् । उलूकरोमशमहावेत्रादयश्च राजानो विद्याधराणाम् । २ एकैके च शैलराजनि स्वयमेव गरुडो व्यवस्थितः । कुञ्जरे तु पर्वतवरे नित्यं पशुपतिः स्थितः । वृषभाङ्को महादेवः शंकरो योगिनां वरः अनेकगणभूतकोटिसहस्त्रवारो भगवान् अनादिपुरुषो व्यवस्थितः । वसुधारे च पुष्पवतां वसूनां च समावासः । ३ वसुधाररत्नधारयोर्मूर्ध्नि अष्टौ सप्त च संख्यया । पुराणि वसुसप्तर्षीणां चेति । एकश्रृङ्गे च पर्वतोत्तमे प्रजापतेः स्थानं चतुर्वक्त्रस्य ब्रह्मणः। गजपर्वते च महाभूतपरिवृता स्वयमेव भगवती तिष्ठति । ४ वसुधारे च पर्वतवरे मुनिसिद्धविद्याधराणामायतनम् । चतुराशीत्यपरपुर्यो महाप्राकारतोरणाः । तत्र चानेकपर्वता नाम गन्धर्वा युद्धशालिनो वसन्ति । तेषां चाधिपतिर्देवो राजराजैकपिङ्गलः । सुरराक्षसाः पञ्चकूटेदानवाः शतश्रृङ्गेयक्षाणां पुरशतम् । ५ ताम्राभे तक्षकस्यपुरशतम् । विशखपर्वते गुहस्यायतनम् । श्वेतोदये गिरिवरे महागन्धर्वभवनम् । हरिकूटे हरिर्देवः । कुमुदे किन्नरावासः । अञ्जने महोरगाः । सहस्त्रशिखरे च दैत्यानामुग्रकर्मिणामावासः । पुराणां सहस्त्रमेकं हेममालिनाम् मुकुटे पन्नप्रपक्षे पर्वतवरे चत्वार्यायतनानि तु। एवं मेरुपर्वतेषु देवानामधिवासः । मर्यादापर्वते देवकूटे पुरविन्यासः कीर्त्यते । तस्योपरि योजनशतं गरुडस्य जातं क्षेत्रम् । तस्यैव पार्श्वतस्त्रिंशद्योजनविस्तीर्णाश्चत्वारिंशदायताः सप्तगन्धर्वनगराः । आग्नेयाश्च नाम्ना गन्धर्वातिबलिनः । तत्र चान्यत् त्रिंशद्योजनमण्डलं पुरम् सैंहिकेयानाम् । तत्र च देवर्षिचरितानि देवकूटे दृश्यन्ते । पुरं च कालकेयानां तत्रैव । तथा चान्तरतटेऽन्येसुनान्नाम तस्यैव दक्षिणे त्रिंशद्योजनविस्तृतं द्विषष्टियोजनायामं पुरम् कामरूपिणां दृप्तानां मध्यमे च तस्य हेमकूटे महादेवस्य न्यग्रोधः । अथातः कैलासवर्णको भवति। कैलासस्य तटे योजनशतमायामवस्तृतम् भुवनमालाभिव्याप्तम् । तस्याश्च मध्ये सभा । तत्र च तत्पुष्करं नाम विमानं तिष्ठति । धनदस्य च तद्विमानमधिवासश्च । तत्र पद्ममहापद्ममकरकच्छपकुमुदशङ्खनीलनन्दमहानिधयः प्रतिवसन्ति । तत्र चन्द्रादीनां लोकपालानामावासः । तत्र च मन्दाकिनी नाम नदी । तथा कनकमन्दा मन्दा चेति नामभिः सरितः । तत्रान्या अपि नद्यः सन्ति । पूर्वपार्श्वे च शतयोजनमायामास्त्रिंशद्योजनविस्तृता दशगन्धर्वपुर्यः तासु च सकुबाहुहरिकेशचित्रसेनादयो राजानः । तस्यैव च पश्चिमकूटे अशीतियोजनायामं चत्वारिंशद्विस्तृतमेकैकं यक्षनगरम् । तेषु च महामालिसुनेत्र चक्रादयो नायकाः । तस्यैव दक्षिणे पार्श्वे कुञ्जदरीषु गुहासु समुद्राः समुद्रं यावत्किन्नराणां पुरशतम् । तेषु च द्रुमसुग्रीवादिभगदत्तप्रमुखं राजशतम् । तत्र च रुद्रस्योमया सार्द्धं विवाहस्संवृत्तः । तपश्च कृतवती गौरी । किरातरूपिणा च रुद्रेण स्थितम् । तत्रैव तत्र स्थितेन सोमेन शंकरेण जम्बूद्वीपावलोकनं कृतम् । तत्र चानेककिन्नरगन्धर्वोपगीतमुमावनं नामाप्सरोभिरनेकपुष्पलतावल्लीभिरुपेतम् । यत्र भगवता महेश्वरेणार्द्धनारीनरवपुः प्राप्तम् । तत्र च कार्तिकेयस्य शरद्वनम् । पुष्पचित्रक्रौञ्चयोर्मध्ये कार्तिकेयाभिषेकः कृतः तस्य च पूर्वतटे सिद्धमुनिगणावासः कलापग्रामो नाम । तथा च मार्कण्डेयवसिष्ठपराशरनलविश्वामित्रोद्दालकादीनां महर्षीणामनेकानि सहस्त्राण्याश्रमाणां हि भवति । तथा च पश्चिमस्याचलेन्द्रस्य निषधस्य भागं श्रृणुत । तस्य च मध्यमकूटे विष्ण्वायतनं महादेवस्य । तस्यैवोत्तरतटे त्रिंशद्योजनविस्तृतं महत्पुरं लम्बाख्यातं राक्षसानाम् । तस्यैव दक्षिणे पार्श्वे बिलप्रवेशनगरम् । प्रभेदकस्य पश्चिमेन देवदानवसिद्धादीनां पुराणि । तस्य गिरेर्मूर्ध्नि महती सोमशिला तिष्ठति । तस्यां च पर्वणि सोमः स्वयमेवावतरति । तस्यैवोत्तरपार्श्वे त्रिकूटं नाम । तत्र ब्रह्मा तिष्ठति क्वचित् । तथा च वह्न्यायतनम् । मूर्त्तिमान् वह्निरुपास्यते देवैः । ६ उत्तरे च श्रृङ्गाख्ये पर्वतवरे देवतानामायतनानि । पूर्वे नारायणस्यायतनम् । मध्ये ब्रह्मणः । शंकरस्य पश्चिमे । तत्र च यक्षादीनां केचित् पुराणि तस्य चोत्तरतीरे जातुछे महापर्वते त्रिंशद्योजनमण्डलं नन्दजलं नाम सरस् तत्र नन्दो नाम नागराजा वसति शतशीर्षप्रचण्ड इति।।७ इत्येतेऽष्टौ देवपर्वता विज्ञेयाः । तेनानुक्रमेण हेमरजतरत्नवैदूर्यमानः शिलाहिङ्गुलादिवर्णाः । इयं च पृथ्वी लक्षकोटिशतानेकसंख्यातानां पूर्णा तेषु च सिद्धविद्याधराणां निलयाः ते च मेरोः पार्श्वतः केसरवलयालवालं सिद्धलोकेति कीर्त्त्यते । इयं पृथ्वी पद्माकारेण व्यवस्थिता । एष च सर्वपुराणेषु क्रमः सामान्यतः प्रतिपाद्यते
इति श्रीवराहपुराणे भगवच्छास्त्रे एकाशीतितमोऽध्यायः
रुद्र उवाच । अथ नदीनामवतारं श्रृणुत । आकाशसमुद्रो यः कीर्त्यते सामाख्यस् तस्मादाकाशगामिनी नदी प्रवृत्ता । सा चानवरतमिन्द्रगजेन क्षोभ्यते । सा च चतुरशीतिसहस्त्रोच्छ्राया । सा मेरोः सुदर्शनं करोति । सा च मेरुकूटतटान्तेभ्यः प्रस्खलिता चतुर्धा संजाता । षष्टिं च योजनसहस्त्रं निरालम्बा पतमाना प्रदक्षिणमनुसरन्ती चतुर्द्धा जगाम । सीता चालकनन्दा चक्षुर्भद्रा चेति नामभिः । यथोद्देशं सा चानेकशतसहस्त्रपर्वतानां दारयन्ती गां गतेति गङ्गेत्युच्यते अथ गन्धमादनपार्श्वेऽमरगण्डिका वर्ण्यते । एकत्रिंशद्योजनसहस्त्राणि आयामः चतुःशतविस्तीर्णम्। तत्र केतुमालाः सर्वे जनपदाः । कृष्णवर्णाः पुरुषा महाबलिनः । उत्पलवर्णाः स्त्रियः शुभदर्शनाः । तत्र च महावृक्षाः पनसाः सन्ति । तत्रेश्वरो ब्रह्मपुत्रस्तिष्ठति । तत्रोदपानाच्च जरारोगविवर्जिता वर्षायुतायुषश्च नराः । माल्यवतः पूर्वपार्श्वे पूर्वगण्डिका एकश्रृङ्गाद्योजनसहस्त्राणि मानतस्तत्र च भद्राश्वा नाम जनपदाः भद्रसालवनं च तत्र व्यवस्थितम् । कालाम्रवृक्षाः पुरुषाः श्वेताः पद्मवर्णिनः स्त्रियः कुमुदवर्णा दशवर्षसहस्त्राणि तेषामायुः । तत्र च पञ्च कुलपर्वताः । तद्यथा शैलवर्णः मालाख्यः कोरजश्च त्रिपर्णः नीलश्चेति तद्विनिर्गताः। तदम्भःस्थितानां देशानां तान्येव नामानि । ते च देशा एता नदीः पिबन्ति। तद्यथा सीता सुवाहिनी हंसवती कासा महाचक्रा चन्द्रवती कावेरी सुरसा शाखावती इन्द्रवती अङ्गारवाहिनी हरितोया सोमावर्ता शतह्रदा वनमाला वसुमती हंसा सुपर्णा पञ्चगङ्गा धनुष्मती मणिवप्रा सुब्रह्मभागा विलासिनी कृष्णतोया पुण्योदा नागवती शिवा शेवालिनी मणितटा क्षीरोदा वरुणावती विष्णुपदी महानदी हिरण्यस्कन्धवाहा सुरावती कामोदा पताकाश्चेत्येता महानद्यः । एताश्च गङ्गासमाः कीर्तिताः। आजन्मान्तं पापं विनाशयन्ति । क्षुद्रनद्यश्च कोटिशः। ताश्च नदीर्ये पिबन्ति ते दशवर्षसहस्त्रायुषः। रुद्रोमाभक्ता इति
रुद्र उवाच । निसर्ग एष भद्राश्वानां कीर्तितः केतुमालानां विस्तरेण कथितं । नैषधस्याचलेनद्रस्य पश्चिमेन कुलाचलजनपदनद्यः कीर्त्यन्ते । तथा च विशाखकम्बलजयन्तकृष्णहरिताशोकवर्द्धमाना इत्येतेषां सप्तकुलपर्वतानां कोटिशः प्रसूतिः । तन्निवासिनो जनपदास्तन्नामान एव द्रष्टव्याः । तद्यथा सौरग्रामात्तसांतपो कृतसुराश्रवण कम्बलमाहेयाचलकूटवासमूलतपक्रौञ्चकृष्णाङ्गमणिपङ्कजचूडमलसोमीयसमुद्रान्तक कुरकुञ्चसुवर्णः तटककुह श्वेताङ्गकृष्णपाटविदकपिलकर्णिकमहिषकुब्जकरनाटमहोत्कटशुकनासगजभूमककुरञ्जन मनाहकिंकिसपार्णभौमकचोरकधूमजन्म अङ्गारजतीवनजीवलौकिलवाचां सहाङ्गमधुरेयशुकेचकेयश्रवणमत्त कासिकगोदावामकुलपञ्जावर्ज्जहमोदशअलक एते जनपदास्तत्पर्वतोत्था नदीः पिबन्ति । तद्यथा प्लक्षा महाकदम्बा मानसी श्यामा सुमेधा बहुला विवर्णा पुङ्खा माला दर्भवती भद्रानदी शुकनदी पल्लवा भीमा प्रभ़ञ्जना काम्बा कुशावती दक्षा कासवती तुङ्गा पुण्योदा चन्द्रावती सुमूलावती ककुद्मिनी विशाला करण्टका पीवरी महामाया महिषी मानुषी चण्डा एता नदीः प्रधानाः। शेषाः क्षुद्रनद्यः सहस्त्रशश्चेति
रुद्र उवाच । उत्तराणां च वर्षाणां दक्षिणानां च सर्वशः । आचक्षते यथान्यायं ये च पर्वतवासिनः । तच्छृणुध्वं मया विप्राः कीर्त्त्यमानं समाहिताः ।। ८४.
दक्षिणेन तु श्वेतस्य नीलस्य चोत्तरेण च । वायव्यां रम्यकं नाम जायन्ते तत्र मानवाः । मतिप्रधाना विमला जरादौर्गन्ध्यवर्जिताः ।। ८४.
तत्रापि सुमहान् वृक्षो न्यग्रोधो रोहितः स्मृतः । तत्फलाद् रसपानाद्धि दशवर्षसहस्त्रिणः । आयुषा सर्वमनुजा जायन्ते देवरूपिणः ।। ८४.
उत्तरेण च श्वेतस्य त्रिश्रृङ्गस्य च दक्षिणे । वर्षं हिरण्मयं नाम तत्र हैरण्वती नदी । यक्षा वसन्ति तत्रैव बलिनः कामरूपिणः ।। ८४.
एकादशहस्त्राणि समानां तेन जीवते । शतान्यन्यानि जीवन्ते वर्षाणां दश पञ्च च ।। ८४.
लकुचाः क्षुद्रसा वृक्षास्तस्मिन् देशे व्यवस्थिताः । तत्फलप्राशमाना हि तेन जीवन्ति मानवाः ।। ८४.
तथा त्रिश्रृङ्गे च मणिकाञ्चनसर्वरत्नशिखरानुक्रमेण तस्य चोत्तरश्रृङ्गाद्दक्षिणसमुद्रान्ते चोत्तरकुरवः । वस्त्राण्याभरणानि च वृक्षेष्वेव जायन्ते क्षीरवृक्षाः क्षीरासवाः सन्ति। मणिभूमिः सुवर्णबालुका। तस्मिन् स्वर्गच्युताश्च पुरुषा वसन्ति त्रयोदशवर्षसहस्त्रायुषः । तस्यैव द्वीपस्य पश्चिमेन चतुर्योजनसहस्त्रमतिक्रम्य देवलोकाच्चन्द्रद्वीपो भवति योजनसहस्त्रपरिमण्डलः । तस्य मध्ये चन्द्रकान्तसूर्यकान्तनामानौ गिरिवरौ। तयोश्च मध्ये चन्द्रावती नाम महानदी अनेकवृक्षफलानेकनदीसमाकुला। एतत्कुरुवर्षं च । तस्योत्तरपार्श्वे समुद्रोर्मिमालाढ्यं पञ्चयोजनसहस्त्रमतिक्रम्य देवलोकात् सूर्यद्वीपो भवति योजनसहस्त्रपरिमण्डलः। तस्य मध्ये गिरिवरः शतयोजनविस्तीर्णस्तावदुच्छ्रितः। तस्मात्सूर्यावर्त्तनामा नदी निर्गता। तत्र च सूर्यस्याधिष्ठितम् तत्र सूर्यदैवत्यास्तद्वर्णाश्च प्रजा दशवर्षसहस्त्रायुषः। तस्य च द्वीपस्य पश्चिमेन चतुर्योजनसहस्त्रमतिक्रम्य समुद्रं दशयोजनसहस्त्रं परिमण्डलत्वेन द्वीपो रुद्राकरो नाम । तत्र च भद्रासनं वायोरनेकरत्नशोभितम्। तत्र विग्रहवान् वायुस्तिष्ठति। तपनीयवर्णाश्च प्रजाः पञ्चवर्षसहस्त्रायुषः ।। ८४.
रुद्र उवाच । इयं भूपद्मव्यवस्था कथिता। इदानीं भारतं नवभेदं श्रृणुत। तद्यथा। इन्द्रः कसेरुः ताम्रवर्णो गभस्तिः नागद्वीपः सौम्यः गन्धर्वः वारुणः भातरं चेति। सागरसंवृतमेकैकं योजनसहस्त्रप्रमाणम्। तत्र च सप्त कुलपर्वता भवन्ति। तद्यथा। महेन्द्रो मलयः सह्यः शुक्तिमान्नृक्षपर्वतः। विन्ध्यश्च पारियात्रश्च इत्येते कुलपर्वताः। अन्ये च मन्दरशारदर्दुरकोलाहलसुरमैनाकवैद्युतवारन्धमपाण्डुरतुङ्गप्रस्थकृष्णगिरिजयन्तरैवतऋष्यमूकगोमन्तचित्रकूटश्रीचकोरकूटशैलकृतस्थल इत्येते क्षुद्रपर्वताः। शेषाः क्षुद्रतराः। तेषामार्या म्लेच्छा जनपदा वसन्ति। पिबन्ति चैतासु नदीषु पानीयम्। तद्यथा गङ्गा सिन्धु सरस्वती शतद्रु वितस्ता विपाशा चन्द्रभागा सरयू यमुना इरावती देविका कुहू गोमती धूतपापा बाहुदा दृषद्वती कौशिकी निस्वरा गण्डकी चक्षुष्मती लोहिता इत्येता हिमवत्पादनिर्गताः
शोणा ज्योतीरथा नर्मदा सुरसा मन्दाकिनी दशार्णा चित्रकूटा तमसा पिप्पला करतोया पिशाचिका चित्रोत्पला विशाला वञ्जुला बालुका वाहिनी शुक्तिमती विरजा पङ्किनी रिरी कुहू इत्येता ऋक्षप्रसूताः। मणिजाला शुभा तापी पयोष्णीं शीघ्रोदा वेष्णा पाशा वैतरणी वेदी पाली कुमुद्वती तोया दुर्गा अन्त्या गिरा एता विन्ध्यपादोद्भवाः। गोदावरी भीमरथी कृष्णा वेणा वञ्जुला तुङ्गभद्रा सुप्रयोगा वाह्या कावेरी इत्येताः सह्यपादोद्भवाः
शतमाला ताम्रपर्णी पुष्पावती उत्पलावती इत्येता मलयजाः। त्रियामा ऋषिकुल्या इक्षुला त्रिविदा लाङ्गूलिनी वंशवरा महेन्द्रतनयाः। ऋषिका लूसती मन्दगामिनी पलाशिनी इत्येताः शुक्तिमत्प्रभवाः। एताः प्राधान्येन कुलपर्वतनद्यः। शेषाः क्षुद्रनद्यः। एष जम्बूद्वीपो योजनलक्षप्रमाणतः। अध्यायः ८६ अतः परं शाकद्वीपं निबोधत। जम्बूद्वीपस्य विस्ताराद् द्विगुणपरिणाहाल्लवणोदकश्च जम्बूद्वीपसमस्तेन द्विगुणावृतः। तत्र च पुण्या जनपदाश्चिरान्म्रियन्ते दुर्भिक्षजराव्याधिरहितश्च देशोऽयम्। सप्तैव कुलपर्वतास्तावत् तिष्ठन्ति तस्य चोभयतो लवणक्षीरोदधी व्यवस्थितौ। तत्र च प्रागायतः शैलेन्द्र उदयो नाम पर्वतः। तस्यापरेण जलधारो नाम गिरिः। सैव चन्द्रेति कीर्त्तितः। तस्य च जलमिन्द्रो गृहीत्वा वर्षति। तस्य पारे रैवतको नाम गिरिः। सैव नारदो वर्ण्यते तस्मिंश्च नारदपर्वतादुत्पन्नो तस्य चापरेण श्यामो नाम गिरिः। तस्मिंश्च प्रजाः श्यामत्वमापन्नाः सैव दुन्दुभिर्वर्ण्यते। तस्मिन् सिद्धा इति कीर्तिताः प्रजानेकविधाः क्रीडन्तस्तस्यापरे रजतो नाम गिरिः सैव शाकोच्यते। तस्यापरेणाम्बिकेयः स च विभ्राजसो भण्यते। स एव केसरीत्युच्यते। ततश्च वायुः प्रवर्त्तते। गिरिनामान्येव वर्षाणि तद्यथा। उदयसुकुमारो जलधारक्षेमकमहाद्रुमेति प्रधानानि द्वितीयपर्वतनामभिरपि वक्तव्यानि। तस्य च मध्ये शाकवृक्षस्तत्र च सप्तमहानद्यो द्विनाम्न्यः। तद्यथा सुकुमारी कुमारी नन्दा वेणिका धेनुः इक्षुमती गभस्ति इत्येता नद्यः
अथ तृतीयं कुशद्वीपं श्रृणुत। कुशद्वीपेन क्षीरोदः परिवृतः शाकद्वीपस्य विस्ताराद् द्विगुणेन। तत्रापि सप्त कुलपर्वताः। सर्वे च द्विनामानः। तद् यथा --- कुमुदविद्रुमेति च सोच्यते। उन्नतो हेमपर्वतः सैव। बलाहको द्युतिमान् सैव। तथा द्रोणः सैव पुष्पवान्। कङ्कश्च पर्वतः सैव कुशेशयः। तथा षष्ठो महिषनामा स एव हरिरित्युच्यते। तत्राग्निर्वसति। सप्तमस्तु ककुद्मान् नाम सैव मन्दरः कीर्त्यते। इत्येते पर्वताः कुशद्वीपे व्यवस्थिताः एतेषां वर्षभेदो भवति द्विनामसंज्ञः। कुमुदस्य श्वेतमुद्भिदं तदेव कीर्त्यते। उन्नतस्य लोहितं वेणुमण्डलं तदेव भवति। बलाहकस्य जीमूतं तदेव रथाकार इति।द्रोणस्य हरितं तदेव बलाधनं भवति। कङ्कस्यापि ककुद्मान् नाम। वृत्तिमत् तदेव मानसं महिषस्य प्रभाकरम्। ककुद्मतः कपिलं तदेव संख्यातं नाम। इत्येतानि वर्षाणि। तत्र द्विनाम्न्यो नद्यः। प्रतपा प्रवेशा सैवोच्यते। द्वितीया शिवा यशोदा सा च भवति। तृतीया पित्रा नाम सैव कृष्णा भण्यते। चतुर्थी ह्रादिनी नाम सैव चन्द्रा निगद्यते। विद्युता च पञ्चमी शुक्ला सैव। वर्णा षष्ठी सैव विभावरी। महती सप्तमी सैव धृतिः। एताः प्रधानाः शेषाः क्षुदनद्यः। इत्येष कुशद्वीपस्य संनिवेशः। शाकद्वीपो द्विगुणः संनिविष्टश्च कथितः। तस्य च मध्ये महाकुशस्तम्बः। एष च कुशद्वीपो दधिमण्डोदेनावृतः क्षीरोदद्विगुणेन
रुद्र उवाच । अथ क्रौञ्चं भवति चतुर्थं कुशद्वीपाद् द्विगुणमानतः समुद्रः क्रौञ्चेन द्विगुणेनावृतः। तस्मिंश्च सप्तैव प्रधानपर्वताः। प्रथमः कौञ्चो विद्युल्लतो रैवतो मानसः सैव पावकः। तथैवान्धकारः सैवाच्छोदकः। देवावृत्तो स च सुरापो भण्यते। ततो देविष्ठः स एव काञ्चनश्रृङ्गो भवति। देवनन्दात्परो गोविन्दः, द्विविन्द इति। ततः पुण्डरीकः सैव तोषाशयः। एते सप्त रत्नमयाः पर्वताः क्रीञ्चद्वीपे व्यवस्थिताः। सर्वे च परस्परेणोच्छ्रयाः। तत्र वर्षाणि तथा क्रौञ्चस्य कुशलो देशः सैव माधवः स्मृतः वामनस्य मनोऽनुगः सैव संवर्तकस्ततोष्णवान् सोमप्रकाशः। ततः पावकः सैव सुदर्शनः। तथा चान्धकारः सैव संमोहः। ततो मुनिदेशः स च प्रकाशः। ततो दुन्दुभिः सैवानर्थ उच्यते। तत्रापि सप्तैव नद्यः।। ८७.
गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ख्यातिश्च पुण्डरीका च गङ्गा सप्तविधाः स्मृताः। गौरी सैव पुष्पवहा कुमुद्वती ताम्रवती रोधसंध्या सुखावहा च मनोजवा च क्षिप्रोदा च ख्यातिः सैव गोबहुला पुण्डरीका चित्रवेगा शेषाः क्षुद्रनद्यः।। क्रौञ्चद्वीपो घृतोदेनावृतः। घृतोदा शाल्मलेनेति।। ८७.
रुद्र उवाच । त्रिषु शिष्टेषु वक्ष्यामि द्वीपेषु मनुजान्युत । शाल्मलं पञ्चमं वर्षं प्रवक्ष्ये तन्निबोधत । क्रौञ्चद्वीपस्य विस्ताराच्छाल्मलो द्विगुणो मतः ।। ८८.
घृतसमुद्रमावृत्य व्यवस्थिस्तद्विस्तारो द्विगुणस्तत्र च सप्त पर्वताः प्रधानास्तावन्ति वर्षाणि तावत्यो नद्यः। तत्र च पर्वताः। सुमहान् पीतःशातकौम्भात् सार्वगुणसौवर्णरोहितसुमनसकुशल ----- जाम्बूनदवैद्युता इत्येते कुलपर्वता वर्षाणि चेति। अथ षष्ठं गोमेदं कथ्यते। शाल्मलं यथा सुरोदेनावृतं तद्वत् सुरोदोऽपि तद्विगुणेन गोमेदेनावृतः। तत्र च प्रधानपर्वतौ द्वावेव। एकस्य तावत्तावसरः। अपरश्च कुमुद इति। समुद्रश्चेक्षुरसस्तद्द्विगुणेन पुष्करेणावृतः। तत्र च पुष्कराख्ये मानसो नाम पर्वतः। तदपि द्विधा छिन्नं वर्षं तत्प्रमाणेन च। स्वादोदकेनावृतम्। ततश्च कटाहम्। एतत् पृथिव्याः प्रमाणम्। ब्रह्माण्डस्य च सकटाहविस्तारप्रमाणम्। एवंविधानामण्डानां परिसंख्या न विद्यते। एतानि कल्पे कल्पे भगवान् नारायणः क्रोडरूपी रसातलान्तःप्रविष्टानि दंष्ट्रैकैनोद्धृत्य स्थितौ स्थापयति। एष वः कथितो मार्गो भूमेरायामविस्तरः । स्वस्ति वोऽस्तु गमिष्यामि कैलासं निलयं द्विजाः ।। ८८.