कोटिपत्रप्रकलितं तरुणादित्यवर्चसम् । नित्यं व्याकोशमधुरं चलत्वादतिमण्डलम् ।। ७९.
चारुकेसरजालाढ्यं मत्तभ्रमरनादितम् । तस्मिन् मध्ये भगवती साक्षात् श्रीर्नित्यमेव हि । लक्ष्मीस्तु तं तदावासं मूर्त्तिमन्तं न संशयः ।। ७९.
सरसस्तस्य तीरे तु तस्मिन् सिद्धनिषेवितम् । सदा पुष्पफलं रम्यं तत्र बिल्ववनं महत् ।। ७९.
शतयोजनविस्तीर्णं द्वियोजनशतायतम् । अर्द्धक्रोशोच्चशिखरैर्महावृक्षैः समन्ततः । शाखासहस्त्रकलितैर्महास्कन्धैः समाकुलम् ।। ७९.
फलैः सहस्त्रसङ्काशैः हरितैः पाण्डुरैस्तथा । अमृतस्वादुसदृशैर्भेरीमात्रैः सुगन्धिभिः ।। ७९.
शीर्यद्भिश्च पतद्भिश्च कीर्णभूमिवनान्तरम् । नाम्ना तच्छ्रीवनं नाम सर्वलोकेषु विश्रुतम् ।। ७९.
देवादिभिः समाकीर्णमष्टाभिः ककुभिः शुभम् । बिल्वाशिभिश्च मुनिभिः सेवितं पुण्यकारिभिः । तत्र श्रीः संस्थिता नित्यं सिद्धसङ्घनिषेविता ।। ७९.
एकैकस्याचलेन्द्रस्य मणिशैलस्य चान्तरम् । शतयोजनविस्तीर्णं द्वियोजनशतायतम् ।। ७९.
विमलं पङ्कजवनं सिद्धचारणसेवितम् । पुष्पं लक्ष्म्या धृतं भाति नित्यं प्रज्वलतीव ह ।। ७९.
अर्द्धक्रोशं च शिखरैर्महास्कन्धैः समावृतम् । प्रफुल्लशाखाशिखरं पिञ्जरं भाति तद्वनम् ।। ७९.
द्विबाहुपरिणाहैस्तैस्त्रिहस्तायामविस्तृतैः । मनःशिलाचूर्णनिभैः पाण्डुकेसरशालिभिः ।। ७९.
पुष्पैर्मनोहरैर्व्याप्तं व्याकोशैर्गन्धशोभिभिः । विराजति वनं सर्वं मत्तभ्रमरनादितम् ।। ७९.
तद्वनं दानवैर्दैत्यैर्गन्धर्वैर्यक्षराक्षसैः । किन्नरैरप्सरोभिश्च महाभोगैश्च सेवितम् ।। ७९.
तत्राश्रमो भगवतः कश्यपस्य प्रजापतेः । सिद्धसाधुगणाकीर्णं नानाश्रमसमाकुलम् ।। ७९.
महानीलस्य मध्ये तु कुम्भस्य च गिरेस्तथा । मध्ये सुखा नदी नाम तस्यास्तीरे महद्वनम् ।। ७९.
पञ्चाशद्योजनायामं त्रिंशद्योजनमण्डलम् । रम्यं तालवनं श्रीमत् क्रोशार्द्धोच्छ्रितपादपम् ।। ७९.
महाबलैर्महासारैः स्थिरैरविचलैः शुभैः । महदञ्जनसंस्थानैः परिवृत्तैर्महाफलैः ।। ७९.
मृष्टगन्धगुणोपेतैरुपेतं सिद्धसेवितम् । ऐरावतस्य करिणस्तत्रैव समुदाहृतम् ।। ७९.
ऐरावतस्य रुद्रस्य देवशैलस्य चान्तरे । सहस्त्रयोजनायामा शतयोजनविस्तृता ।। ७९.
सर्वा ह्येकशिला भूमिर्वृक्षवीरुधवर्जिता । आप्लुता पादमात्रेण सलिलेन समन्ततः ।। ७९.
इत्येताभ्यन्तरद्रोण्यो नानाकाराः प्रकीर्त्तिताः । मेरोः पार्श्वेन विप्रेन्द्रा यथावदनुपूर्वशः ।। ७९.
रुद्र उवाच । अथ दक्षिणदिग्व्यवस्थिताः पर्वतद्रोण्यः सिद्धाचरिताः कीर्त्यन्ते । शिशिरपतङ्गयोर्मध्ये शुक्लभूमिस्त्रिया मुक्तलतागलितपादपम् । इक्षुक्षेपे च शिखरे पादपैरुपशोभितम् । उदुम्बरवनं रम्यं पक्षिसङ्घनिषेवितम् ।। ८०.
फलितं तद् वनं भाति महाकूर्मोपमैः फलैः ८०.
तत्र प्रसन्नस्वादुसलिला बहूदका नद्यो वहन्ति । तत्राश्रमो भगवतः कर्दमस्य प्रजापतेः । नानामुनिजनाकीर्णस्तच्च शतयोजनमेकं परिमण्डलं वनं च । तथा च ताम्राभस्य शैलस्य पतङ्गस्य चान्तरे शतयोजनविस्तीर्णं द्विगुणायतं बालार्कसदृशराजीवपुण़्रीकैः समन्ततः सहस्त्रपत्रैरविरलैरलंकृतं महत् सरोऽनेकसिद्धगन्धर्वाध्युषितम् । ।। ८०.
तस्य च मध्ये महाशिखरः शतयोजनायामस्त्रिंशद्योजनविस्तीर्णोऽनेकधातुरत्नभूषितस्तस्य चोपरि महती रथ्या रत्नप्राकारतोरणा । तस्यां महद् विद्याधरपुरम् । तत्र पुलोमनामा विद्याधरराजः शतसहस्त्रपरीवारः । तथा च विखाखाचलेन्द्रस्य श्वेतस्य चान्तरे सरः । तस्य च पूर्वतीरे महदाम्रवनं कनकसंकाशैः फलैरतिसुगन्धिभिर्महाकुम्भमात्रैः सर्वतश्चितम् । देवगन्धर्वादयश्च तत्र निवसन्ति
सुमुलस्याचलेन्द्रस्य वसुधारस्य चान्तरे त्रिंशद्योजनविस्तीर्णे पञ्चाशद्योजनायते
बिल्वस्थली नाम । तत्र फलानि विद्रुमसंकाशानि तैश्च पतद्भिः स्थलमृत्तिका क्लिन्ना । तां च स्थलीं सुगुह्यकादयः सेवन्ते बिल्वफलाशिनः । तथा च वसुधाररत्नधारयोरन्तरे त्रिंशद्योजनविस्तीर्णं शतयोजनमायतं सुगन्धिकिंशुकवनं सदाकुसुमं यस्य गन्धेन वास्यते योजनशतम् । तत्र सिद्धाध्युषितं जलोपेतं च
तत्र चादित्यस्य देवस्य महदायतनम् । समासे मासे च भगवानवतरति सूर्यः प्रजापतिः । कालजनकं देवादयो नमस्यन्ति । तथा च पञ्चकूटस्य कैलासस्य चान्तरे सहस्त्रयोजनायामं विस्तीर्णं शतयोजनं हंसपाण्डुरं क्षुद्रसत्त्वैरनाधृष्यं स्वर्गसोपानमिव भूमण्डलम्
अथ पश्चिमदिग्भागे व्यवस्थिता गिरिद्रोण्यः कीर्त्यन्ते । सुपार्श्वशिखिशैलयोर्मध्ये समन्ताद् योजनशतमेकं भौमशिलातलं नित्यतप्तं दुःस्पर्शम् । तस्य मध्ये त्रिंशद्योजनविस्तीर्णं मण्डलं वह्निस्थानम् । स च सर्वकालमनिन्धनो भगवान् लोकक्षयकारी संवर्तको ज्वलते । अन्तरे च शैलवरयोः कुमुदाञ्जनयोः शतयोजनविस्तीर्णामातुलुङ्गस्थली सर्वसत्त्वानामगम्या । पीतवर्णैः फलैरावृता सती सा स्थली शोभते । तत्र च पुण्यो ह्रदः सिद्धैरुपेतः। बृहस्पतेस्तद्वनम्।। तथा च शैलयोः पिञ्जरगौरयोरन्तरेण सरोद्रोणी ह्यनेकशतयोजनायता महद्भिश्च षट्पदोद्घुष्टैः कुमुदैरुपशोभिता
तत्र च भगवतो विष्णोः परमेश्वरस्यायतनम् । तथा च शुक्लपाण्डुरयोरपि महागिर्योरन्तरे त्रिंशद्योजनविस्तीर्णो नवत्यायत एकः शिलोद्देशोवृक्षविवर्जितः । तत्र निष्पङ्का दीर्घिका सवृक्षा च स्थलपद्मिनी अनेकजातीयैश्च पद्मैः शोभिता । तस्याश्च मध्ये पञ्चयोजनप्रमाणो महान्यग्रोधवृक्षः । तस्मिंश्चन्द्रशेखरोमापतिर्नीलवासाश्च देवो निवसति यक्षादिभिरीड्यमानः । सहस्त्रशिखरस्य गिरेः कुमुदस्य चान्तरे पञ्चाशद्योजनायामं विंशद्योजनविस्तृतमिक्षुक्षेपोच्चशिखरमनेकपक्षिसेवितम् । अनेकवृक्षफलैर्मधुरस्त्रवैरुपशोभितम् । तत्र चेन्द्रस्य महानाश्रमो दिव्याभिप्रायनिर्मितः । तथा च शङ्खकूटऋषभयोर्मध्ये पुरुषस्थलीरम्याऽनेकगुणानेकयोजनायता बिल्वप्रमाणैः कङ्कोलकैः सुगन्धिभिरुपेता । तत्र पुरुषकरसोन्मत्ता नागाद्याः प्रतिवसन्ति