कृष्णश्च पाण्डवश्चैव सहस्त्रशिरसस्तथा । पारियात्रश्च शैलेन्द्रः श्रृङ्गवानचलोत्तमः । इत्येते पर्वतवराः श्रीमन्तः पश्चिमे स्मृताः ।। ७८.
महाभद्रस्य सरस उत्तरेण द्विजोत्तमाः । ये पर्वताः स्थिता विप्रास्तान् वक्ष्यामि निबोधत ।। ७८.
हंसकूटो महाशैलो वृषहंसश्च पर्वतः । कपिञ्जलश्च शैलेन्द्र इन्द्रशैलश्च सानुमान् ।। ७८.
नीलः कनकश्रृङ्गश्च शतश्रृङ्गश्च पर्वतः । पुष्करो मेघशैलोऽथ विरजाश्चाचलोत्तमः । जारुचिश्चैव शैलेन्द्र इत्येते उत्तराः स्मृताः ।। ७८.
इत्येतेषां तु मुख्यानामुत्तरेषु यथाक्रमम् । स्थलीरन्तरद्रोण्यश्च सरांसि च निबोधत ।। ७८.
रुद्र उवाच । सीतान्तस्याचलेन्द्रस्य कुमुदस्यान्तरेण च । द्रोण्यां विहङ्गपुष्टायां नानासत्त्वनिषेवितम् ।। ७९.
त्रियोजनशतायामं शतयोजनविस्तृतम् । सुरसामलपानीयं रम्यं तत्र सुरोचनम् ।। ७९.
द्रोणमात्रप्रमाणैश्च पुण्डरीकैः सुगन्धिभिः । सहस्त्रशतपत्रैश्च महापद्मैरलङ्कृतम् ।। ७९.
देवदानवगन्धर्वैर्महासर्पैरधिष्ठितम् । पुण्यं तच्छ्रीसरो नाम सप्रकाशमिहेह च ।। ७९.
प्रसन्नसलिलैः पूर्णं शरण्यं सर्वदेहिनाम् । तत्र त्वेकं महापद्मं मध्ये पद्मवनस्य च ।। ७९.
कोटिपत्रप्रकलितं तरुणादित्यवर्चसम् । नित्यं व्याकोशमधुरं चलत्वादतिमण्डलम् ।। ७९.
चारुकेसरजालाढ्यं मत्तभ्रमरनादितम् । तस्मिन् मध्ये भगवती साक्षात् श्रीर्नित्यमेव हि । लक्ष्मीस्तु तं तदावासं मूर्त्तिमन्तं न संशयः ।। ७९.
सरसस्तस्य तीरे तु तस्मिन् सिद्धनिषेवितम् । सदा पुष्पफलं रम्यं तत्र बिल्ववनं महत् ।। ७९.
शतयोजनविस्तीर्णं द्वियोजनशतायतम् । अर्द्धक्रोशोच्चशिखरैर्महावृक्षैः समन्ततः । शाखासहस्त्रकलितैर्महास्कन्धैः समाकुलम् ।। ७९.
फलैः सहस्त्रसङ्काशैः हरितैः पाण्डुरैस्तथा । अमृतस्वादुसदृशैर्भेरीमात्रैः सुगन्धिभिः ।। ७९.
शीर्यद्भिश्च पतद्भिश्च कीर्णभूमिवनान्तरम् । नाम्ना तच्छ्रीवनं नाम सर्वलोकेषु विश्रुतम् ।। ७९.
देवादिभिः समाकीर्णमष्टाभिः ककुभिः शुभम् । बिल्वाशिभिश्च मुनिभिः सेवितं पुण्यकारिभिः । तत्र श्रीः संस्थिता नित्यं सिद्धसङ्घनिषेविता ।। ७९.
एकैकस्याचलेन्द्रस्य मणिशैलस्य चान्तरम् । शतयोजनविस्तीर्णं द्वियोजनशतायतम् ।। ७९.
विमलं पङ्कजवनं सिद्धचारणसेवितम् । पुष्पं लक्ष्म्या धृतं भाति नित्यं प्रज्वलतीव ह ।। ७९.
अर्द्धक्रोशं च शिखरैर्महास्कन्धैः समावृतम् । प्रफुल्लशाखाशिखरं पिञ्जरं भाति तद्वनम् ।। ७९.
द्विबाहुपरिणाहैस्तैस्त्रिहस्तायामविस्तृतैः । मनःशिलाचूर्णनिभैः पाण्डुकेसरशालिभिः ।। ७९.
पुष्पैर्मनोहरैर्व्याप्तं व्याकोशैर्गन्धशोभिभिः । विराजति वनं सर्वं मत्तभ्रमरनादितम् ।। ७९.
तद्वनं दानवैर्दैत्यैर्गन्धर्वैर्यक्षराक्षसैः । किन्नरैरप्सरोभिश्च महाभोगैश्च सेवितम् ।। ७९.
तत्राश्रमो भगवतः कश्यपस्य प्रजापतेः । सिद्धसाधुगणाकीर्णं नानाश्रमसमाकुलम् ।। ७९.
महानीलस्य मध्ये तु कुम्भस्य च गिरेस्तथा । मध्ये सुखा नदी नाम तस्यास्तीरे महद्वनम् ।। ७९.
पञ्चाशद्योजनायामं त्रिंशद्योजनमण्डलम् । रम्यं तालवनं श्रीमत् क्रोशार्द्धोच्छ्रितपादपम् ।। ७९.
महाबलैर्महासारैः स्थिरैरविचलैः शुभैः । महदञ्जनसंस्थानैः परिवृत्तैर्महाफलैः ।। ७९.
मृष्टगन्धगुणोपेतैरुपेतं सिद्धसेवितम् । ऐरावतस्य करिणस्तत्रैव समुदाहृतम् ।। ७९.
ऐरावतस्य रुद्रस्य देवशैलस्य चान्तरे । सहस्त्रयोजनायामा शतयोजनविस्तृता ।। ७९.
सर्वा ह्येकशिला भूमिर्वृक्षवीरुधवर्जिता । आप्लुता पादमात्रेण सलिलेन समन्ततः ।। ७९.