अरुणोदं तु पूर्वेण दक्षिणे मानसं स्मृतम् । असितोदं पश्चिमे च महाभद्रं तथोत्तरे । कुमुदैः श्वेतकपिलैः कह्लारैर्भूषितानि च ।। ७८.
अरुणोदयस्य ये शैलाः प्राच्या वै नामतः स्मृताः । तान् कीर्त्त्यमानांस्तत्त्वेन श्रृणुध्वं गदतो मम ।। ७८.
विकङ्को मणिश्रृङ्गश्च सुपात्रश्चोपलो महान् । महानीलोऽथ कुम्भश्च सुबिन्दुर्मदनस्तथा ।। ७८.
वेणुनद्धः सुमेदाश्च निषधो देवपर्वतः । इत्येते पर्वतवराः पुण्याश्च गिरयोऽपरे ।। ७८.
पूर्वेण मन्दरात् सिद्धाः पर्वताश्च मदायुताः । सरसो मानसस्येह दक्षिणेन महाचलाः ।। ७८.
ये कीर्त्तिता मया तुभ्यं नामतस्तान् निबोधत । शैलस्त्रिशिरश्चैव शिशिरश्चाचलोत्तमः ।। ७८.
कपिश्च शतमक्षश्च तुरगश्चैव सानुमान् । ताम्राहश्च विषश्चैव तथा श्वेतोदनो गिरिः ।। ७८.
समूलश्चैव सरलो रत्नकेतुश्च पर्वतः । एकमूलो महाश्रृङ्गो गजमूलोऽपि शावकः ।। ७८.
पञ्चशैलश्च कैलासो हिमवानचलोत्तमः । उत्तरा ये महाशैलास्तान् वक्ष्यामि निबोधत ।। ७८.
कपिलः पिङ्गलो भद्रः सरसश्च महाचलः । कुमुदो मधुमांश्चैव गर्जनो मर्कटस्तथा ।। ७८.
कृष्णश्च पाण्डवश्चैव सहस्त्रशिरसस्तथा । पारियात्रश्च शैलेन्द्रः श्रृङ्गवानचलोत्तमः । इत्येते पर्वतवराः श्रीमन्तः पश्चिमे स्मृताः ।। ७८.
महाभद्रस्य सरस उत्तरेण द्विजोत्तमाः । ये पर्वताः स्थिता विप्रास्तान् वक्ष्यामि निबोधत ।। ७८.
हंसकूटो महाशैलो वृषहंसश्च पर्वतः । कपिञ्जलश्च शैलेन्द्र इन्द्रशैलश्च सानुमान् ।। ७८.
नीलः कनकश्रृङ्गश्च शतश्रृङ्गश्च पर्वतः । पुष्करो मेघशैलोऽथ विरजाश्चाचलोत्तमः । जारुचिश्चैव शैलेन्द्र इत्येते उत्तराः स्मृताः ।। ७८.
इत्येतेषां तु मुख्यानामुत्तरेषु यथाक्रमम् । स्थलीरन्तरद्रोण्यश्च सरांसि च निबोधत ।। ७८.
रुद्र उवाच । सीतान्तस्याचलेन्द्रस्य कुमुदस्यान्तरेण च । द्रोण्यां विहङ्गपुष्टायां नानासत्त्वनिषेवितम् ।। ७९.
त्रियोजनशतायामं शतयोजनविस्तृतम् । सुरसामलपानीयं रम्यं तत्र सुरोचनम् ।। ७९.
द्रोणमात्रप्रमाणैश्च पुण्डरीकैः सुगन्धिभिः । सहस्त्रशतपत्रैश्च महापद्मैरलङ्कृतम् ।। ७९.
देवदानवगन्धर्वैर्महासर्पैरधिष्ठितम् । पुण्यं तच्छ्रीसरो नाम सप्रकाशमिहेह च ।। ७९.
प्रसन्नसलिलैः पूर्णं शरण्यं सर्वदेहिनाम् । तत्र त्वेकं महापद्मं मध्ये पद्मवनस्य च ।। ७९.
कोटिपत्रप्रकलितं तरुणादित्यवर्चसम् । नित्यं व्याकोशमधुरं चलत्वादतिमण्डलम् ।। ७९.
चारुकेसरजालाढ्यं मत्तभ्रमरनादितम् । तस्मिन् मध्ये भगवती साक्षात् श्रीर्नित्यमेव हि । लक्ष्मीस्तु तं तदावासं मूर्त्तिमन्तं न संशयः ।। ७९.
सरसस्तस्य तीरे तु तस्मिन् सिद्धनिषेवितम् । सदा पुष्पफलं रम्यं तत्र बिल्ववनं महत् ।। ७९.
शतयोजनविस्तीर्णं द्वियोजनशतायतम् । अर्द्धक्रोशोच्चशिखरैर्महावृक्षैः समन्ततः । शाखासहस्त्रकलितैर्महास्कन्धैः समाकुलम् ।। ७९.
फलैः सहस्त्रसङ्काशैः हरितैः पाण्डुरैस्तथा । अमृतस्वादुसदृशैर्भेरीमात्रैः सुगन्धिभिः ।। ७९.
शीर्यद्भिश्च पतद्भिश्च कीर्णभूमिवनान्तरम् । नाम्ना तच्छ्रीवनं नाम सर्वलोकेषु विश्रुतम् ।। ७९.
देवादिभिः समाकीर्णमष्टाभिः ककुभिः शुभम् । बिल्वाशिभिश्च मुनिभिः सेवितं पुण्यकारिभिः । तत्र श्रीः संस्थिता नित्यं सिद्धसङ्घनिषेविता ।। ७९.
एकैकस्याचलेन्द्रस्य मणिशैलस्य चान्तरम् । शतयोजनविस्तीर्णं द्वियोजनशतायतम् ।। ७९.
विमलं पङ्कजवनं सिद्धचारणसेवितम् । पुष्पं लक्ष्म्या धृतं भाति नित्यं प्रज्वलतीव ह ।। ७९.
अर्द्धक्रोशं च शिखरैर्महास्कन्धैः समावृतम् । प्रफुल्लशाखाशिखरं पिञ्जरं भाति तद्वनम् ।। ७९.