मन्दरस्य गिरेः श्रृङ्गे कदम्बो नाम पादपः । प्रलम्बशाखाशिखरः कदम्बश्चैत्यपादपः ।। ७७.
महाकुम्भप्रमाणैश्च पुष्पैर्विकचकेसरैः । महागन्धमनोज्ञैश्च शोभितः सर्वकालजैः ।। ७७.
समासेन परिवृतो भुवनैर्भूतभावनैः । सहस्त्रमधिकं सोऽथ गन्धेनापूरयन् दिशः ।। ७७.
भद्राश्वो नाम वृक्षोऽयं वर्षाद्रेः केतुसंभवः । कीर्तिमान् रूपवाञ्छ्रीमान् महापादपपादपः । यत्र साक्षाद्धृषीकेशः सिद्धसङ्घैर्निषेव्यते ।। ७७.
तस्य भद्रकदम्बस्य तथाश्ववदनो हरिः । प्राप्तवांश्चामरश्रेष्ठः स हि सानुं पुनः पुनः ।। ७७.
तेन चालोकितं वर्षं सर्वद्विपदनायकाः । यस्य नाम्ना समाख्यातो भद्राश्वेति न संशयः ।। ७७.
दक्षिणस्यापि शैलस्य शिखरे देवसेविते । जम्बूः सद्यः पुष्पफला महाशाखोपशोभिता ।। ७७.
तस्या ह्यतिप्रमाणानि स्वादूनि च मृदूनि च । फलान्यमृतकल्पानि पतन्ति गिरिमूर्धनि ।। ७७.
तस्माद् गिरिवरश्रेष्ठात् फलप्रस्यन्दवाहिनी । दिव्या जाम्बूनदी नाम प्रवृत्ता मधुवाहिनी ।। ७७.
तत्र जाम्बूनदं नाम सुवर्णमनलप्रभम् । देवालङ्कारमतुलमुत्पन्नं पापनाशनम् ।। ७७.
देवदानवगन्धर्वयक्षराक्षसगुह्यकाः । पपुस्तदमृतप्रख्यं मधु जम्बूफलस्रवम् ।। ७७.
सा केतुर्दक्षिणे वर्षे जम्बूर्लोकेषु विश्रुता । यस्या नाम्ना समाख्याता जम्बूद्वीपेति मानवैः ।। ७७.
विपुलस्य च शैलस्य दक्षिणेन महात्मनः । जातः श्रृङ्गेति सुमहानश्वत्थश्चेति पादपः ।। ७७.
महोच्छ्रायो महास्कन्धो नैकसत्त्वगुणालयः । कुम्भप्रमाणै रुचिरैः फलैः सर्वर्त्तुकैः शुभैः ।। ७७.
स केतुः केतुमालानां देवगन्धर्वसेवितः । केतुमालेति विख्यातो नाम्ना तत्र प्रकीर्तितः । तन्निबोधत विप्रेन्द्रा निरुक्तं नामकर्मणः ।। ७७.
क्षीरोदमथने वृत्ते माला स्कन्धे निवेशिताः । इन्द्रेण चैत्यकेतोस्तु केतुमालस्ततः स्मृतः । तेन तच्चिह्नितं वर्षं केतुमालेति विश्रुतम् ।। ७७.
सुपार्श्वस्योत्तरे श्रृङ्गे वटो नाम महाद्रुमः । न्यग्रोधो विपुलस्कन्धो यस्त्रियोजनमण्डलः ।। ७७.
माल्यदामकलापैश्च विविधैस्तु समन्ततः । शाखाभिर्लम्बमानाभिः शोभितः सिद्धसेवितः ।। ७७.
प्रलम्बकुम्भसदृशैर्हेमवर्णैः फलैः सदा । स ह्युत्तरकुरूणां तु केतुवृक्षः प्रकाशते ।। ७७.
सनत्कुमारावरजा मानसा ब्रह्मणः सुताः । सप्त तत्र महाभागाः कुरवो नाम विश्रुताः ।। ७७.
तत्र स्थिरगतैर्ज्ञानैर्विरजस्कैर्महात्मभिः । अक्षयः क्षयपर्यन्तो लोकः प्रोक्तः सनातनः ।। ७७.
तेषां नामाङ्कितं वर्षं सप्तानां वै महात्मनाम् । दिवि चेह च विख्याता उत्तराः कुरवः सदा ।। ७७.
रुद्र उवाच । तथा चतुर्णां वक्ष्यामि शैलेन्द्राणां यथाक्रमम् । अनुविध्यानि रम्याणि विहङ्गैः कूजितानि च ।। ७८.
अनेकपक्षियुक्तात्मश्रृङ्गाणि सुबहूनि च । देवानां दिव्यनारीभिः समं क्रीडामयानि च ।। ७८.
किन्नरोद्गीतघुष्टानि शीतमन्दसुगन्धिभिः । पवनैः सेव्यमानानि रमणीयतराणि च ।। ७८.
चतुर्द्दिक्षु विराजन्ते नामतः श्रृणुतानघाः । पूर्वे चैत्ररथं नाम दक्षिणे गन्धमादनम् । प्रभावेण सुतोयानि नवखण्डयुतानि च ।। ७८.
वनषण्डांस्तथाक्रम्य देवता ललनायुताः । यत्र क्रीडन्ति चोद्देशे मुदा परमया युताः ।। ७८.
अनुबन्धानि रम्याणि विहगैः कूजितानि च । रत्नोपकीर्णतिर्थानि महापुण्यजलानि च ।। ७८.
अनेकजलयन्त्रैश्च नादितानि महान्ति च । शाखाभिर्लम्बमानाभी रुवत्पक्षिकुलालिभिः ।। ७८.
कमलोत्पलकह्लारशोभितानि सरांसि च । चतुर्षु तेषु गिरिषु नानागुणयुतेषु च ।। ७८.