रुद्र उवाच । यदेतत् कर्णिकामूलं मेरोर्मध्यं प्रकीर्तितम् । तद् योजनसहस्त्राणि संख्यया मानतः स्मृतम् ।। ७७.
चत्वारिंशत् तथा चाष्टौ सहस्त्राणि तु मण्डलैः । शैलराजस्य तत्तत्र मेरुमूलमिति स्मृतम् ।। ७७.
तेषां गिरिसहस्त्राणामनेकानां महोच्छ्रयः । दिगष्टौ च पुनस्तस्य मर्यादापर्वताः शुभाः ।। ७७.
जठरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ । पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ । मर्यादापर्वतानेतानष्टानाहुर्मनीषिणः ।। ७७.
योऽसौ मेरुर्द्विजश्रेष्ठाः प्रोक्तः कनकपर्वतः । विष्कम्भांस्तस्य वक्ष्यामि श्रृणुध्वं गदतस्तु तान् ।। ७७.
महापादास्तु चत्वारो मेरोरथ चतुर्दिशम् । यैर्न चचाल विष्टब्धा सप्तद्वीपवती मही ।। ७७.
दशयोजनसाहस्त्रं व्यायामस्तेषु शङ्क्यते । तिर्यगूर्ध्वं च रचिता हरितालतटैर्वृताः ।। ७७.
मनःशिलादरीभिश्च सुवर्णमणिचित्रिताः ।ऽ अनेकसिद्धभवनैः क्रीडास्थानैश्च सुप्रभाः ।। ७७.
पूर्वेण मन्दरस्तस्य दक्षिणे गन्धमादनः । विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्थितः ।। ७७.
तेषां श्रृङ्गेषु चत्वारो महावृक्षाः प्रतिष्ठिताः । देवदैत्याप्सरोभिश्च सेविता गुणसंचयैः ।। ७७.
मन्दरस्य गिरेः श्रृङ्गे कदम्बो नाम पादपः । प्रलम्बशाखाशिखरः कदम्बश्चैत्यपादपः ।। ७७.
महाकुम्भप्रमाणैश्च पुष्पैर्विकचकेसरैः । महागन्धमनोज्ञैश्च शोभितः सर्वकालजैः ।। ७७.
समासेन परिवृतो भुवनैर्भूतभावनैः । सहस्त्रमधिकं सोऽथ गन्धेनापूरयन् दिशः ।। ७७.
भद्राश्वो नाम वृक्षोऽयं वर्षाद्रेः केतुसंभवः । कीर्तिमान् रूपवाञ्छ्रीमान् महापादपपादपः । यत्र साक्षाद्धृषीकेशः सिद्धसङ्घैर्निषेव्यते ।। ७७.
तस्य भद्रकदम्बस्य तथाश्ववदनो हरिः । प्राप्तवांश्चामरश्रेष्ठः स हि सानुं पुनः पुनः ।। ७७.
तेन चालोकितं वर्षं सर्वद्विपदनायकाः । यस्य नाम्ना समाख्यातो भद्राश्वेति न संशयः ।। ७७.
दक्षिणस्यापि शैलस्य शिखरे देवसेविते । जम्बूः सद्यः पुष्पफला महाशाखोपशोभिता ।। ७७.
तस्या ह्यतिप्रमाणानि स्वादूनि च मृदूनि च । फलान्यमृतकल्पानि पतन्ति गिरिमूर्धनि ।। ७७.
तस्माद् गिरिवरश्रेष्ठात् फलप्रस्यन्दवाहिनी । दिव्या जाम्बूनदी नाम प्रवृत्ता मधुवाहिनी ।। ७७.
तत्र जाम्बूनदं नाम सुवर्णमनलप्रभम् । देवालङ्कारमतुलमुत्पन्नं पापनाशनम् ।। ७७.
देवदानवगन्धर्वयक्षराक्षसगुह्यकाः । पपुस्तदमृतप्रख्यं मधु जम्बूफलस्रवम् ।। ७७.
सा केतुर्दक्षिणे वर्षे जम्बूर्लोकेषु विश्रुता । यस्या नाम्ना समाख्याता जम्बूद्वीपेति मानवैः ।। ७७.
विपुलस्य च शैलस्य दक्षिणेन महात्मनः । जातः श्रृङ्गेति सुमहानश्वत्थश्चेति पादपः ।। ७७.
महोच्छ्रायो महास्कन्धो नैकसत्त्वगुणालयः । कुम्भप्रमाणै रुचिरैः फलैः सर्वर्त्तुकैः शुभैः ।। ७७.
स केतुः केतुमालानां देवगन्धर्वसेवितः । केतुमालेति विख्यातो नाम्ना तत्र प्रकीर्तितः । तन्निबोधत विप्रेन्द्रा निरुक्तं नामकर्मणः ।। ७७.
क्षीरोदमथने वृत्ते माला स्कन्धे निवेशिताः । इन्द्रेण चैत्यकेतोस्तु केतुमालस्ततः स्मृतः । तेन तच्चिह्नितं वर्षं केतुमालेति विश्रुतम् ।। ७७.
सुपार्श्वस्योत्तरे श्रृङ्गे वटो नाम महाद्रुमः । न्यग्रोधो विपुलस्कन्धो यस्त्रियोजनमण्डलः ।। ७७.
माल्यदामकलापैश्च विविधैस्तु समन्ततः । शाखाभिर्लम्बमानाभिः शोभितः सिद्धसेवितः ।। ७७.
प्रलम्बकुम्भसदृशैर्हेमवर्णैः फलैः सदा । स ह्युत्तरकुरूणां तु केतुवृक्षः प्रकाशते ।। ७७.
सनत्कुमारावरजा मानसा ब्रह्मणः सुताः । सप्त तत्र महाभागाः कुरवो नाम विश्रुताः ।। ७७.