स कदाचिद् भवान् वीर तुरगैः परिवारितः । अरण्यमागतो हन्तुं श्वापदानि विशेषतः ।। ६.
तत्र त्वयाऽन्यकामेन मृगवेषधरो मुनिः । दण्डयुग्मेन दूरे तु पातितो धरणीतले ।। ६.
सद्यो मृतश्च विप्रेन्द्रस्त्वं च राजन् मुदा युतः । हरिणोऽयं हत इति यावत् पश्यसि पार्थिव । तावन्मृगवपुर्विप्रो मृतः प्रस्त्रवणे गिरौ ।। ६.
तं दृष्ट्वा त्वं महाराज क्षुभितेन्द्रियमानसः । गृहं गतस्ततोऽन्यस्य कस्यचित् कथितं त्वया ।। ६.
ततः कतिपयाहस्य त्वया रात्रौ नरेश्वर । ब्रह्महत्याभयाद्भीतचितेनैतद् विचिन्तितम् । कृत्यं करोमि शान्त्यर्थं मुच्यते येन पातकात् ।। ६.
ततस्त्वया महाराज सकृन्नारायणं प्रभुम् । संचिन्त्य द्वादशी शुद्धा त्वया राजन्नुपोषिता ।। ६.
नारायणो मे सुप्रीत इति प्रोक्त्वा शुभेऽहनि । गौर्दत्ता विधिना सद्यो मृतोऽस्युदरशूलतः ।। ६.
अभुक्तो द्वादशीधर्मे यत् तत्रापि च कारणम् । कथयामि भवत्पत्नी नाम्ना नारायणी शुभा ।। ६.
सा कण्ठगेन प्राणेन व्याहृता तेन ते गतिः । कल्पमेकं महाराज जाता विष्णुपुरे तव ।। ६.
अहं च तव देहस्थः सर्वं जानामि चाक्षयम् । ब्रह्मग्रहो महाघोरः पीडयामीति मे मतिः ।। ६.
तावद्विष्णोस्तु पुरुषैः किङ्करैर्मुसलैरहम् । प्रहतः संक्षयं यातस्ततस्ते रोमकूपतः । स्वर्गस्थस्यापि राजेन्द्र स्थितोऽहं स्वेन तेजसा ।। ६.
ततोऽहःकल्पनिर्वृत्ते रात्रिकल्पे च सत्तम । इदानीमादिसृष्टौ तु कृते नृपतिसत्तम ।। ६.
संभूतस्त्वं महाराज राज्ञः सुमनसो गृहे । काश्मीरदेशाधिपतेरहं चाङ्गरुहैस्तव ।। ६.
यज्ञैरिष्टं त्वयानेकैर्बहुभिश्चाप्तदक्षिणैः । न चाहं तैरपहतो विष्णुस्मरणवर्जितैः ।। ६.
इदानीं यत् त्वया स्तोत्रं पुण्डरीकाक्षपारकम् । पठितं तत्प्रभावेन विहायाङ्गरुहाण्यहम् । एकीभूतः पुनर्जातो व्याधरूपो नृपोत्तम ।। ६.
अहं भगवतः स्तोत्रं श्रुत्वा प्राक्पापमूर्त्तिना । मुक्तोऽस्मि धर्मबुद्धिर्मे वर्त्तते साम्प्रतं विभो ।। ६.
एतच्छ्रुत्वा वचो राजा परं विस्मयमागतः । वरेण छन्दयामास तं व्याधं राजसत्तमः ।। ६.
राजोवाच । स्मारितोऽस्मि यथा व्याध त्वया जन्मान्तरं गतम् । तथा त्वं मत्प्रसादेन धर्मव्याधो भविष्यसि ।। ६.
यश्चैतत् पुण्डरीकाक्षपारगं श्रृणुयात् परम् । तस्य पुष्करयात्रायां विधिस्नानफलं भवेत् ।। ६.
श्रीवराह उवाच । एवमुक्त्वा ततो राजा विमानवरमास्थितः । परेण तेजसा योगमवापाशेषधारिणि ।। ६.
धरण्युवाच । रैभ्योऽसौ मुनिशार्दूलः श्रुत्वा सिद्धं वसुं तदा । स्वयं किमकरोद् देव संशयो मे महानयम् ।। ७.
श्रीवराह उवाच । स रैभ्यो मुनिशार्दूलः श्रुत्वा सिद्धं वसुं तदा । आजगाम गयां पुण्यां पितृतीर्थं तपोधनः । तत्र गत्वा पितॄन् भक्त्या पिण्डदानेन तर्पयत् ।। ७.
ततो वै सुहमत्तीव्रं तपः परमदुश्चरम् । चरतस्तस्य तत्तीव्रं तपो रैभ्यस्य धीमतः । आजगाम महायोगी विमानस्थोऽतिदीप्तिमान् ।। ७.
त्रसरेणुसमे शुद्धे विमाने सूर्यसन्निभे । परमाणुप्रमाणेन पुरुषस्तत्र दीप्तिमान् ।। ७.
सोऽब्रवीद् रैभ्य किं कार्यं तपश्चरसि सुव्रत । एवमुक्त्वा दिवो भूमिं मापयामास वै पुमान् ।। ७.
तत्रापि रथपञ्चाभं विमानं सूर्यसन्निभम् । युगपद् ब्रह्मभुवनं व्याप्नुवन्तं ददर्श सः ।। ७.
ततः स विस्मयाविष्टो रैभ्यः प्रणतिपूर्वकम् । पप्रच्छ तं महायोगिन् को भवान् प्रब्रवीतु मे ।। ७.
पुरुष उवाच । अहं रुद्रादवरजो ब्रह्मणो मानसः सुतः । नाम्ना सनत्कुमारेति जनलोके वसाम्यहम् ।। ७.
भवतः पार्श्वमायातः प्रणयेन तपोधन । धन्योऽसि सर्वथा वत्स ब्रह्मणः कुलवर्धनः ।। ७.
रैभ्य उवाच । नमोऽस्तु ते योगिवर प्रसीद दयां मह्यं कुरुषे विश्वरूप । किमत्र कृत्यं वद योगिसिंह कथं हि धन्योऽहमुक्तस्त्वया च ।। ७.