तत्रेशानस्य देवस्य सहस्त्रादित्यवर्चसः । महाविमानसंस्थस्य महिमा वर्त्तते सदा ।। ७५.
तत्र सर्वे देवगणाश्चतुर्वक्त्रं स्वयं प्रभुम् । इष्ट्वा पूज्यनमस्कारैरर्चनीयमुपस्थिताः ।। ७५.
यैस्तदा दिहसंकल्पैर्ब्रह्मचर्यं महात्मभिः । चीर्णं चारुमनोभिश्च सदाचारपथि स्थितैः ।। ७५.
सम्यगिष्ट्वा च भुक्त्वा च पितृदेवार्चने रताः । गृहाश्रमपरास्तत्र विनीता अतिथिप्रियाः ।। ७५.
गृहिणः शुक्लकर्मस्था विरक्ताः कारणात्मकाः । यमैर्नियमदानैश्च दृढनिर्दग्धकिल्बिषाः ।। ७५.
तेषां निवसनं शुक्लब्रह्मलोकमनिन्दितम् । उपर्युपरि सर्वासां गतीनां परमा गतिः । चतुर्दशसहस्त्राणि योजनानां तु कीर्त्तितम् ।। ७५.
ततोर्द्धरुचिरे कृष्णे तरुणादित्यवर्चसि । महागिरौ ततो रम्ये रत्नधातुविचित्रिते ।। ७५.
नैकरत्नसमावासे मणितोरणमन्दिरे । मेरोः सर्वेषु पार्श्वेषु समन्तात् परिमण्डले ।। ७५.
त्रिंशद्योजनसाहस्त्रं चक्रपाटो नगोत्तमः । जारुधिश्चैव शैलेन्द्र इत्येते उत्तराः स्मृताः ।। ७५.
एतेषां शैलमुख्यानामुत्तरेषु यथाक्रमः । स्थलीरन्तरद्रोण्यश्च सरांसि च निबोधत ।। ७५.
दशयोजनविस्तीर्णा चक्रपाटोपनिर्गता । सा तूद्र्ध्ववाहिनी चापि नदी भूमौ प्रतिष्ठिता ।। ७५.
सा पुर्याममरावत्यां क्रममाणेन्दुरा प्रभौ । तया तिरस्कृता वाऽपि सूर्येन्दुज्योतिषां गणाः ।। ७५.
उदयास्तमिते सन्ध्ये ये सेवन्ते द्विजोत्तमाः । तान् तुष्यन्ते द्विजाः सर्वानष्टावप्यचलोत्तमान् ।। ७५.
परिभ्रमज्ज्योतिषां या सा रुद्रेन्द्रमता शुभा ।। ७५.
रुद्र उवाच । तस्यैव मेरोः पूर्वे तु देशे परमवर्चसे । चक्रवाटपरिक्षिप्ते नानाधातुविराजिते ।। ७६.
तत्र सर्वामरपुरं चक्रवाटसमुद्धतम् । दुर्धर्षं बलदृप्तानां देवदानवरक्षसाम् । तत्र जाम्बूनदमयः सुप्राकारः सुतोरणः ।। ७६.
तस्याप्युत्तरपूर्वे तु देशे परमवर्चसे । अलोकजनसंपूर्णा विमानशतसंकुला ।। ७६.
महावापिसमायुक्ता नित्यं प्रमुदिता शुभा । शोभिता पुष्पशबलैः पताकाध्वजमालिनी ।। ७६.
देवैर्यक्षोप्सरोभिश्च ऋषिभिश्च सुशोभिता । पुरन्दरपुरी रम्या समृद्धा त्वमरावती ।। ७६.
तस्या मध्येऽमरावत्या वज्रवैदूर्यवेदिका । त्रैलोक्यगुणविख्याता सुधर्मा नाम वै सभा ।। ७६.
तत्रास्ते श्रीपतेः श्रीमान् सहस्त्राक्षः शचीपतिः । सिद्धादिभिः परिवृतः सर्वाभिर्देवयोनिभिः ।। ७६.
तत्र चैव सुवंशः स्याद् भास्करस्य महात्मनः । साक्षात् तत्र सुराध्यक्षः सर्वदेवनमस्कृतः ।। ७६.
तस्याश्च दिक्षु विस्तीर्णा तत्तद्गुणसमन्विता । तेजोवती नाम पुरी हुताशस्य महात्मनः ।। ७६.
तत्तद्गुणवती रम्या पुरी वैवस्वतस्य च । नाम्ना संयमनी नाम पुरी त्रैलोक्यविश्रुता ।। ७६.
तथा चतुर्थे दिग्भागे नैर्ऋताधिपतेः शुभा । नाम्ना कृष्णावती नाम विरूपाक्षस्य धीमतः ।। ७६.
पञ्चमे ह्युत्तरपुटे नाम्ना शुद्धवती पुरी । उदकाधिपतेः ख्याता वरुणस्य महात्मनः ।। ७६.
तथा पञ्चोत्तरे देवस्वस्योत्तरपुटे पुरी । वायोर्गन्धवती नाम ख्याता सर्वगुणोत्तरा ।। ७६.
तस्योत्तरपुटे रम्या गुह्यकाधिपतेः पुरी । नाम्ना महोदया नाम शुभा वैदूर्यवेदिका ।। ७६.
तथाष्टमेऽन्तरपुटे ईशानस्य महात्मनः । पुरी मनोहरा नाम भूतैर्नानाविधैर्युता । पुष्पैर्धन्यैश्च विविधैर्वनैराश्रमसंस्थितैः ।। ७६.
प्रार्थ्यते देवलोकोऽयं स स्वर्ग इति कीर्तितः ।। ७६.