स तु मेरुः परिवृतो भवनैर्भूतभावनैः । चत्वारो यस्य देशास्तु नानापार्श्वेषु धिष्ठिताः ।। ७५.
भद्राश्वो भारतश्चैव केतुमालश्च पश्चिमे । उत्तरे कुरवश्चैव कृतपुण्यप्रतिश्रयाः ।। ७५.
कर्णिका तस्य पद्मस्य समन्तात् परिमण्डला । योजनानां सहस्त्राणि योजनानां प्रमाणतः ।। ७५.
तस्य केसरजालानि नवषट् च प्रकीर्त्तिताः । चतुरशीतिरुत्सेधो विवरान्तरगोचराः ।। ७५.
त्रिंशच्चापि सहस्त्राणि योजनानां प्रमाणतः । तस्य केसरजालानि विकीर्णानि समन्ततः ।। ७५.
शतसाहस्त्रमायाममशीतिः पृथुलानि च । चत्वारि तत्र पर्णानि योजनानां चतुर्दश ।। ७५.
तत्र या सा मया तुभ्यं कर्णिकेत्यभिविश्रुता । तां वर्ण्यमानामेकाग्र्यात् समासेन निबोधत । मणिपर्णशतैश्चित्रां नानावर्णप्रभासिताम् ।। ७५.
अनेकपर्णनिचयं सौवर्णमरुणप्रभम् । कान्तं सहस्त्रपर्वाणं सहस्त्रोदरकन्दरम् । सहस्त्रशतपत्रं च वृत्तमेकं नगोत्तमम् ।। ७५.
मणिरत्नार्पितश्वभ्रैर्मणिभिश्चित्रवेदिकम् । सुवर्णमणिचित्राङ्गैर्मणिचर्चिततोरणैः ।। ७५.
तत्र ब्रह्मसभा रम्या ब्रह्मर्षिजनसंकुला । नाम्ना मनोव्रती नाम सर्वलोकेषु विश्रुता ।। ७५.
तत्रेशानस्य देवस्य सहस्त्रादित्यवर्चसः । महाविमानसंस्थस्य महिमा वर्त्तते सदा ।। ७५.
तत्र सर्वे देवगणाश्चतुर्वक्त्रं स्वयं प्रभुम् । इष्ट्वा पूज्यनमस्कारैरर्चनीयमुपस्थिताः ।। ७५.
यैस्तदा दिहसंकल्पैर्ब्रह्मचर्यं महात्मभिः । चीर्णं चारुमनोभिश्च सदाचारपथि स्थितैः ।। ७५.
सम्यगिष्ट्वा च भुक्त्वा च पितृदेवार्चने रताः । गृहाश्रमपरास्तत्र विनीता अतिथिप्रियाः ।। ७५.
गृहिणः शुक्लकर्मस्था विरक्ताः कारणात्मकाः । यमैर्नियमदानैश्च दृढनिर्दग्धकिल्बिषाः ।। ७५.
तेषां निवसनं शुक्लब्रह्मलोकमनिन्दितम् । उपर्युपरि सर्वासां गतीनां परमा गतिः । चतुर्दशसहस्त्राणि योजनानां तु कीर्त्तितम् ।। ७५.
ततोर्द्धरुचिरे कृष्णे तरुणादित्यवर्चसि । महागिरौ ततो रम्ये रत्नधातुविचित्रिते ।। ७५.
नैकरत्नसमावासे मणितोरणमन्दिरे । मेरोः सर्वेषु पार्श्वेषु समन्तात् परिमण्डले ।। ७५.
त्रिंशद्योजनसाहस्त्रं चक्रपाटो नगोत्तमः । जारुधिश्चैव शैलेन्द्र इत्येते उत्तराः स्मृताः ।। ७५.
एतेषां शैलमुख्यानामुत्तरेषु यथाक्रमः । स्थलीरन्तरद्रोण्यश्च सरांसि च निबोधत ।। ७५.
दशयोजनविस्तीर्णा चक्रपाटोपनिर्गता । सा तूद्र्ध्ववाहिनी चापि नदी भूमौ प्रतिष्ठिता ।। ७५.
सा पुर्याममरावत्यां क्रममाणेन्दुरा प्रभौ । तया तिरस्कृता वाऽपि सूर्येन्दुज्योतिषां गणाः ।। ७५.
उदयास्तमिते सन्ध्ये ये सेवन्ते द्विजोत्तमाः । तान् तुष्यन्ते द्विजाः सर्वानष्टावप्यचलोत्तमान् ।। ७५.
परिभ्रमज्ज्योतिषां या सा रुद्रेन्द्रमता शुभा ।। ७५.
रुद्र उवाच । तस्यैव मेरोः पूर्वे तु देशे परमवर्चसे । चक्रवाटपरिक्षिप्ते नानाधातुविराजिते ।। ७६.
तत्र सर्वामरपुरं चक्रवाटसमुद्धतम् । दुर्धर्षं बलदृप्तानां देवदानवरक्षसाम् । तत्र जाम्बूनदमयः सुप्राकारः सुतोरणः ।। ७६.
तस्याप्युत्तरपूर्वे तु देशे परमवर्चसे । अलोकजनसंपूर्णा विमानशतसंकुला ।। ७६.
महावापिसमायुक्ता नित्यं प्रमुदिता शुभा । शोभिता पुष्पशबलैः पताकाध्वजमालिनी ।। ७६.
देवैर्यक्षोप्सरोभिश्च ऋषिभिश्च सुशोभिता । पुरन्दरपुरी रम्या समृद्धा त्वमरावती ।। ७६.
तस्या मध्येऽमरावत्या वज्रवैदूर्यवेदिका । त्रैलोक्यगुणविख्याता सुधर्मा नाम वै सभा ।। ७६.