संततानि नदीभेदैरगम्यानि परस्परम् । वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः ।। ७५.
एतद्धैमवतं वर्षं भारती यत्र सन्ततिः । हेमकूटं परं यत्र नाम्ना किंपुरुषोत्तमः ।। ७५.
हेमकूटात् तु निषधं हरिवर्षं तदुच्यते । हरिवर्षात् परं चैव मेरुपार्श्व इलावृतम् ।। ७५.
इलावृतात् परं नीलं रम्यकं नाम विश्रुतम् । रम्यकाच्च परं श्वेतं विश्रुतं तद्धिरण्मयम् । हिरण्मयात् परं चैव श्रृङ्गवन्तं कुरु स्मृतम् ।। ७५.
धनुःसंस्थे तु द्वे वर्षे विज्ञेये दक्षिणोत्तरे । द्वीपानि खलु चत्वारि चतुरस्त्रमिलावृतम् ।। ७५.
अर्वाक् च निषधस्याथ वेद्यर्धं दक्षिणं स्मृतम् । परं श्रृङ्गवतो यच्च वेद्यर्धं हि तदुत्तरम् ।। ७५.
वेद्यर्द्धे दक्षिणे त्रीणि वर्षाणि त्रीणि चोत्तरे । तयोर्मध्ये तु विज्ञेयो यत्र मेरुस्त्विलावृतः ।। ७५.
दक्षिणेन तु नीलस्य निषधस्योत्तरेण च । उदगायतो महाशैलो माल्यवान्नाम पर्वतः ।। ७५.
योजनानां सहस्त्रे द्वे विष्कम्भोच्छ्रय एव च । आयामतश्चतुस्त्रिंशत् सहस्त्राणि प्रकीर्तितः ।। ७५.
तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः । आयामोच्छ्रयविस्तारात् तुल्यो माल्यवता तु सः ।। ७५.
परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः । चतुर्वर्णः ससौवर्णश्चतुरस्त्रः समुच्छ्रितः ।। ७५.
अव्यक्ता धातवः सर्वे समुत्पन्ना जलादयः । अव्यक्तात् पृथिवीपद्मं मेरुस्तस्य च कर्णिका ।। ७५.
चतुष्पत्रं समुत्पन्नं व्यक्तं पञ्चगुणं महत् । ततः सर्वाः समुद्भूता वितता हि प्रवृत्तयः ।। ७५.
अनेककल्पजीवद्भिः पुरुषैः पुण्यकारिभिः । कृतात्मभिर्महात्मभिः प्राप्यते पुरुषोत्तमः ।। ७५.
महायोगी महादेवो जगद्ध्येयो जनार्दनः । सर्वलोकगतोऽनन्तो व्यापको मूर्त्तिरव्ययः ।। ७५.
न तस्य प्राकृता मूर्तिर्मांसमेदोऽस्थिसंभवा । योगित्वाच्चेश्वरत्वाच्च सत्त्वरूपधरो विभुः ।। ७५.
तन्निमित्तं समुत्पन्नं लोके पद्मं सनातनम् । कल्पशेषस्य तस्यादौ कालस्य गतिरीदृशी ।। ७५.
तस्मिन् पद्मे समुत्पन्नो देवदेवश्चतुर्मुखः । प्रजापतिपतिर्देव ईशानो जगतः प्रभुः ।। ७५.
तस्य बीजनिसर्गं हि पुष्करस्य यथार्थवत् । कृत्स्नं प्रजानिसर्गेण विस्तरेणैव वर्ण्यते ।। ७५.
तदम्बु वैष्णवः कायो यतो रत्नविभूषितः । पद्माकारा समुत्पन्ना पृथिवी सवनद्रुमा ।। ७५.
तत् तस्य लोकपद्मस्य विस्तरं सिद्धभाषितम् । वर्ण्यमानं विभागेन क्रमशः श्रृणुत द्विजाः ।। ७५.
महावर्षाणि ख्यातानि चत्वार्यत्र च संस्थिताः । तत्र पर्वतसंस्थानो मेरुर्नाम महाबलः ।। ७५.
नानावर्णः स पार्श्वेषु पूर्वतः श्वेत उच्यते । पीतं च दक्षिणं तस्य भृङ्गवर्णं तु पश्चिमम् ।। ७५.
उत्तरं रक्तवर्णं तु तस्य पार्श्वं महात्मनः । मेरुस्तु शोभते शुक्लो राजवंशे तु धिष्ठितः ।। ७५.
तरुणादित्यसंकाशो विधूम इव पावकः । योजनानां सहस्त्राणि चतुराशीतिरुच्छ्रितः ।। ७५.
प्रविष्टः षोडशाधस्ताद्विस्तृतः षोडशैव तु । शरावसंस्थितत्वाच्च द्वात्रिंशन्मूर्ध्नि विस्तृतः ।। ७५.
विस्तारस्त्रिगुणश्चास्य परिणाहः समन्ततः । मण्डलेन प्रमाणेन व्यस्यमानं तदिष्यते ।। ७५.
नवतिश्च सहस्त्राणि योजनानां समन्ततः । ततः षट्काधिकानां च व्यस्यमानं प्रकीर्त्तितम् । चतुरस्त्रेण मानेन परिणाहः समन्ततः ।। ७५.
स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः । सवनैरावृतः सर्वो जातरूपमयैः शुभैः ।। ७५.
तत्र देवगणाः सर्वे गन्धर्वोरगराक्षसाः । शैलराजे प्रमोदन्ते तथैवाप्सरसां गणाः ।। ७५.