जम्बूद्वीपः पृथुः श्रीमान् सर्वतः परिमण्डलः । नवभिश्चावृतः श्रीमान् भुवनैर्भूतभावनः ।। ७५.
लवणेन समुद्रेण सर्वतः परिवारितः । जम्बूद्वीपस्य विस्तारात् समेन तु समन्ततः ।। ७५.
तस्य प्रागायता दीर्घा षडेते वर्षपर्वताः । उभयत्रावगाढाश्च समुद्रौ पूर्वपश्चिमौ ।। ७५.
हिमप्रायश्च हिमवान् हेमकूटश्च हेमवान् । सर्वत्र सुसुखश्चापि निषधः पर्वतो महान् ।। ७५.
चतुर्वर्णःस सौवर्णो मेरुश्चोल्बमयो गिरिः । वृत्ताकृतिप्रमाणश्च चतुरस्त्रः समुच्छितः ।। ७५.
नानावर्णस्तु पार्श्वेषु प्रजापतिगुणान्वितः । नाभिमण्डलसंभूतो ब्रह्मणः परमेष्ठिनः ।। ७५.
पूर्वतः श्वेतवर्णस्तु ब्रह्मण्यं तेन तस्य तत् । पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्यते ।। ७५.
भृङ्गपत्रनिभश्चासौ पश्चिमेन यतोऽथ सः । तेनास्य शूद्रता प्रोक्ता मेरोर्नामार्थकर्मणः ।। ७५.
पार्श्वमुत्तरतस्तस्य रक्तवर्णं विभाव्यते। तेनास्य क्षत्रभावः स्यादिति वर्णाः प्रकीर्तिताः ।। ७५.
वृत्तः स्वभावतः प्रोक्तो वर्णतः परिमाणतः । नीलश्च वैदूर्यमयः श्वेतशुक्लो हिरण्मयः । मयूरबर्हिवर्णस्तु शातकौम्भश्च श्रृङ्गवान् ।। ७५.
एते पर्वतराजानः सिद्धचारणसेविताः । तेषामन्तरविष्कम्भो नवसाहस्त्र उच्यते ।। ७५.
मध्ये त्विलावृतं नाम महामेरोः स संभवः । नवैव तु सहस्त्राणि विस्तीर्णः सर्वतश्च सः ।। ७५.
मध्यं तस्य महामेरुर्विधूम इव पावकः । वेद्यर्द्धं दक्षिणं मेरोरुत्तरार्द्धं तथोत्तरम् ।। ७५.
वर्षाणि यानि षडत्र तेषां ते वर्षपर्वताः । योजनाग्रं तु वर्षाणां सर्वेषां तद् विधीयते ।। ७५.
द्वे द्वे वर्षे सहस्त्राणां योजनानां समुच्छ्रयः । जम्बूद्वीपस्य विस्तारस्तेषामायाम उच्यते ।। ७५.
योजनानां सहस्त्राणि शतौ द्वौ चायतौ गिरी । नीलश्च निषधश्चैव ताभ्यां हीनाश्च ये परे । श्वेतश्च हेमकूटश्च हिमवाञ्छृङ्गवांश्च यः ।। ७५.
जम्बूद्वीपप्रमाणेन निषधः परिकीर्तितः । तस्माद् द्वादशभागेन हेमकूटः प्रहीयते । हिमवान् विंशभागेन हेमकूटात् प्रहीयते ।। ७५.
अष्टाशीतिसहस्त्राणि हेमकूटो महागिरिः । अशीतिर्हिमवान् शैल आयतः पूर्वपश्चिमे ।। ७५.
द्वीपस्य मण्डलीभावाद् ह्रासवृद्धी प्रकीर्त्यते । वर्षाणां पर्वतानां च यथा चेमे तथोत्तरम् ।। ७५.
तेषां मध्ये जनपदास्तानि वर्षाणि चैव तत् । प्रपातविषमैस्तैस्तु पर्वतैरावृतानि तु ।। ७५.
संततानि नदीभेदैरगम्यानि परस्परम् । वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः ।। ७५.
एतद्धैमवतं वर्षं भारती यत्र सन्ततिः । हेमकूटं परं यत्र नाम्ना किंपुरुषोत्तमः ।। ७५.
हेमकूटात् तु निषधं हरिवर्षं तदुच्यते । हरिवर्षात् परं चैव मेरुपार्श्व इलावृतम् ।। ७५.
इलावृतात् परं नीलं रम्यकं नाम विश्रुतम् । रम्यकाच्च परं श्वेतं विश्रुतं तद्धिरण्मयम् । हिरण्मयात् परं चैव श्रृङ्गवन्तं कुरु स्मृतम् ।। ७५.
धनुःसंस्थे तु द्वे वर्षे विज्ञेये दक्षिणोत्तरे । द्वीपानि खलु चत्वारि चतुरस्त्रमिलावृतम् ।। ७५.
अर्वाक् च निषधस्याथ वेद्यर्धं दक्षिणं स्मृतम् । परं श्रृङ्गवतो यच्च वेद्यर्धं हि तदुत्तरम् ।। ७५.
वेद्यर्द्धे दक्षिणे त्रीणि वर्षाणि त्रीणि चोत्तरे । तयोर्मध्ये तु विज्ञेयो यत्र मेरुस्त्विलावृतः ।। ७५.
दक्षिणेन तु नीलस्य निषधस्योत्तरेण च । उदगायतो महाशैलो माल्यवान्नाम पर्वतः ।। ७५.
योजनानां सहस्त्रे द्वे विष्कम्भोच्छ्रय एव च । आयामतश्चतुस्त्रिंशत् सहस्त्राणि प्रकीर्तितः ।। ७५.
तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः । आयामोच्छ्रयविस्तारात् तुल्यो माल्यवता तु सः ।। ७५.