समस्तविश्वार्तिहराय शम्भवे सहस्त्रसूर्यानिलतिग्मतेजसे । समस्तविद्याविधृताय चक्रिणे समस्तगीर्वाणनुते सदाऽनघ ।। ७३.
अनादिदेवोऽच्युत शेषशेखर प्रभो विभो भूतपते महेश्वर । मरुत्पते सर्वपते जगत्पते भुवः पते भुवनपते सदा नमः ।। ७३.
जलेश नारायण विश्वशंकर क्षितीश विश्वेश्वर विश्वलोचन । शशाङ्कसूर्याच्युत वीर विश्वगा - प्रतर्क्यमूर्त्तेऽमृतमूर्तिरव्ययः ।। ७३.
ज्वलद्हुताशार्चिविरुद्धमण्डल प्रपाहि नारायण विश्वतोमुख । नमोऽस्तु देवार्त्तिहरामृताव्यय प्रपाहि मां शरणगतं सदाच्युत ।। ७३.
वक्त्राण्यनेकानि विभो तवाहं पश्यामि मध्यस्थगतं पुराणम् । ब्रह्माणमीशं जगतां प्रसूतिं नमोऽस्तु तुभ्यं तु पितामहाय ।। ७३.
संसारचक्रभ्रमणैरनेकैः क्वचिद् भवान् देववरादिदेव । सन्मार्गिभिर्ज्ञानविशुद्धसत्त्वै - रुपास्यसे किं प्रलपाम्यहं त्वाम् ।। ७३.
एकं भवन्तं प्रकृतेः परस्ताद् यो वेत्त्यसौ सर्वविदादिबोद्धा । गुणा न तेषु प्रसभं विभेद्या विशालमूर्तिर्हि सुसूक्ष्मरूपः ।। ७३.
निर्वाक्यो निर्मनो विगतेन्द्रियोऽसि कर्माभवान्नो विगतैककर्मा । संसारवांस्त्वं हि न तादृशोऽसि पुनः कथं देववरासि वेद्यः ।। ७३.
मूर्तामूर्तं त्वतुलं लभ्यते ते परं वपुर्देव विशुद्धभावैः । संसारविच्छित्तिकरैर्यजद्भि - रतोऽवसीयेत चतुर्भुजस्त्वम् ।। ७३.
परं न जानन्ति यतो वपुस्ते देवादयोऽप्यद्भुतकारणं तत् । अतोऽवतारोक्ततनुं पुराण - माराधयेयुः कमलासनाद्याः ।। ७३.
न ते वपुर्विश्वसृगब्जयोनि- रेकान्ततो वेद महानुभावः । परं त्वहं वेद्मि कविं पुराणं भवन्तमाद्यं तपसा विशुद्धः ।। ७३.
पद्मासनो मे जनकः प्रसिद्ध - श्चैतत् प्रसूतावसकृत्पुराणैः । संबोध्यते नाथ न मद्विधोऽपि विदुर्भवन्तं तपसा विहीनाः ।। ७३.
ब्रह्मादिभिस्तत्प्रवरैरबोध्यं त्वां देव मूर्खाः स्वमनन्तनत्या । प्रबोधमिच्छन्ति न तेषु बुद्धि - रुदारकीर्त्तिष्वपि वेदहीनाः ।। ७३.
जन्मान्तरैर्वेदविदां विवेक - बुद्धिर्भवेन्नाथ तव प्रसादात् । त्वल्लब्धलाभस्य न मानुषत्वं न देवगन्धर्वगतिः शिवं स्यात् ।। ७३.
त्वं विष्णुरूपोऽसि भवान् सुसूक्ष्मः स्थूलोऽसि चेदं कृतकृत्यतायाः । स्थूलः सुसूक्ष्मः सुलभोऽसि देव त्वद्वाह्यवृत्त्या नरके पतन्ति ।। ७३.
किमुच्यते वा भवति स्थितेऽस्मिन् खात्म्येन्दुवह्न्यर्कमहीमरुद्भिः । तत्त्वैः सतोयैः समरूपधारि - ण्यात्मस्वरूपे विततस्वभावे ।। ७३.
इति स्तुतिं मे भगवन्ननन्त जुषस्व भक्तस्य विशेषतश्च । सृष्टिं सृजस्वेति तवोदितस्य सर्वज्ञतां देहि नमोऽस्तु विष्णो ।। ७३.
चतुर्मुखो यो यदि कोटिवक्त्रो भवेन्नरः क्वापि विशुद्धचेताः । स ते गुणानामयुतैरनेकै - र्वदेत् तदा देववर प्रसीद ।। ७३.
समाधियुक्तस्य विशुद्धबुद्धे - स्त्वद्भावभावैकमनोऽनुगस्य । सदा हृदिस्थोऽसि भवान्नमस्ते न सर्वगस्यास्ति पृथग्व्यवस्था ।। ७३.
इति प्रकाशं कृतमेतदीश स्तवं मया सर्वगतं विबुद्ध्वा । संसारचक्रक्रममाणयुक्त्या भीतं पुनीह्यच्युत केवलत्वम् ।। ७३.
श्रीवराह उवाच । इति स्तुतस्तदा देवो रुद्रेणामिततेजसा । उवाच वाक्यं संतुष्टो मेघगम्भीरनिःस्वनः ।। ७३.
विष्णुरुवाच । वरं वरय भद्रं ते देव देव उमापते । न भेदश्चावयोर्देव एकावावामुभावपि ।। ७३.
रुद्र उवाच । ब्रह्मणाऽहं नियुक्तस्तु प्रजाः सृज इति प्रभो । तत्र ज्ञानं प्रयच्छस्व त्रिविधं भूतभावनम् ।। ७३.
विष्णुरुवाच । सर्वज्ञस्त्वं न संदेहो ज्ञानराशिः सनातनः । देवानां च परं पूज्यः सर्वदा त्वं भविष्यसि ।। ७३.
एवमुक्तः पुनर्वाक्यमुवाचोमापतिर्मुदा । अन्यं देहि वरं देव प्रसिद्धं सर्वजन्तुषु ।। ७३.
मूर्तो भूत्वा भवानेव मामाराधय केशव । मां वहस्व च देवेश वरं मत्तो गृहाण च । येनाहं सर्वदेवानां पूज्यात् पूज्यतरो भवे ।। ७३.
विष्णुरुवाच । देवकार्यावतारेषु मानुषत्वमुपागतः । त्वामेवाराधयिष्यामि त्वं च मे वरदो भव ।। ७३.
यत् त्वयोक्तं वहस्वेति देवदेव उमापते । सोऽहं वहामि त्वां देवं मेघो भूत्वा शतं समाः ।। ७३.
एवमुक्त्वा हरिर्मेघः स्वयं भूत्वा महेश्वरम् । उज्जहार जलात् तस्माद् वाक्यं चेदमुवाच ह ।। ७३.
य एते दश चैकश्च पुरुषाः प्राकृताः प्रभो । ते वैराजा महीं याता आदित्या इति संज्ञिताः ।। ७३.