अहं विष्णुस्तथा वेदा ब्रह्म कर्माणि चाप्युत । एतत् त्रयं त्वेकमेव न पृथग् भावयेत् सुधीः ।। ७२.
योऽन्यथा भावयेदेतत् पक्षपातेन सुव्रत । स याति नरकं घोरं रौरवं पापपूरुषः ।। ७२.
अहं ब्रह्मा च विष्णुश्च ऋग्यजुः साम एव च । नैतस्मिन् भेदमस्यास्ति सर्वेषां द्विजसत्तम ।। ७२.
रुद्र उवाच । श्रृणु चान्यद् द्विजश्रेष्ठ कौतूहलसमन्वितम् । अपूर्वभूतं सलिले मग्नेन मुनिपुंगव ।। ७३.
ब्रह्माणाऽहं पुरा सृष्टः प्रोक्तश्च सृज वै प्रजाः । अविज्ञानसमर्थोऽहं निमग्नः सलिले द्विज ।। ७३.
तत्र यावत् क्षणं चैकं तिष्ठामि परमेश्वरम् । अङ्गुष्ठमात्रं पुरुषं ध्यायन् प्रयतमानसः ।। ७३.
तावज्जलात् समुत्तस्थुः प्रलयाग्निसमप्रभाः । पुरुषा दश चैकश्च तापयन्तोंशुभिर्जलम् ।। ७३.
मया पृष्टाः के भवन्तो जलादुत्तीर्य तेजसा । तापयन्तो जलं चेदं क्व वा यास्यथ संशत ।। ७३.
एवमुक्ता मया ते तु नोचुः किंचन सत्तमाः । एवमेव गतास्तूष्णीं ते नरा द्विजपुंगव ।। ७३.
ततस्तेषामनु महापुरुषोऽतीवशोभनः । स तस्मिन् मेघसंकाशः पुण्डरीकनिभेक्षणः ।। ७३.
तमहं पृष्टवान् कस्त्वं के चेमे पुरुषा गाताः । किं वा प्रयोजनमिह कथ्यतां पुरुषर्षभ ।। ७३.
पुरुष उवाच । य एते वै गताः पूर्वं पुरुषा दीप्ततेजसः । आदित्यास्ते त्वरं यान्ति ध्याता वै ब्रह्मणा भव ।। ७३.
सृष्टिं सृजति वै ब्रह्मा तदर्थं यान्त्यमी नराः । प्रतिपालनाय तस्यास्तु सृष्टेर्देव न संशयः ।। ७३.
शम्भुरुवाच । भगवन् कथं जानीषे महापुरुषसत्तम । भवेति नाम्ना तत्सर्वं कथयस्व परो ह्यहम् ।। ७३.
एवमुक्तस्तु रुद्रेण स पुमान् प्रत्यभाषत । अहं नारायणो देवो जलशायी सनातनः ।। ७३.
दिव्यं चक्षुर्भवतु वै तव मां पश्य यत्नतः । एवमुक्तस्तदा तेन यावद् पश्याम्यहं तु तम् ।। ७३.
तावदङ्गुष्ठमात्रं तु ज्वलद्भास्करतेजसम् । तमेवाहं प्रपश्यामि तस्य नाभौ तु पङ्कजम् ।। ७३.
ब्रह्माणं तत्र पश्यामि आत्मानं च तदङ्कतः । एवं दृष्ट्वा महात्मानं ततो हर्षमुपागतः । तं स्तोतुं द्विजशार्दूल मतिर्मे समजायत ।। ७३.
तस्य मूर्तौ तु जातायां सक्तोत्रेणानेन सुव्रत । स्तुतो मया स विश्वात्मा तपसा स्मृतकर्मणा ।। ७३.
रुद्र उवाच । नमोऽस्त्वनन्ताय विशुद्धचेतसे सरूपरूपाय सहस्त्रबाहवे । सहस्त्ररश्मिप्रवराय वेधसे विशालदेहाय विशुद्धकर्मिणे ।। ७३.
समस्तविश्वार्तिहराय शम्भवे सहस्त्रसूर्यानिलतिग्मतेजसे । समस्तविद्याविधृताय चक्रिणे समस्तगीर्वाणनुते सदाऽनघ ।। ७३.
अनादिदेवोऽच्युत शेषशेखर प्रभो विभो भूतपते महेश्वर । मरुत्पते सर्वपते जगत्पते भुवः पते भुवनपते सदा नमः ।। ७३.
जलेश नारायण विश्वशंकर क्षितीश विश्वेश्वर विश्वलोचन । शशाङ्कसूर्याच्युत वीर विश्वगा - प्रतर्क्यमूर्त्तेऽमृतमूर्तिरव्ययः ।। ७३.
ज्वलद्हुताशार्चिविरुद्धमण्डल प्रपाहि नारायण विश्वतोमुख । नमोऽस्तु देवार्त्तिहरामृताव्यय प्रपाहि मां शरणगतं सदाच्युत ।। ७३.
वक्त्राण्यनेकानि विभो तवाहं पश्यामि मध्यस्थगतं पुराणम् । ब्रह्माणमीशं जगतां प्रसूतिं नमोऽस्तु तुभ्यं तु पितामहाय ।। ७३.
संसारचक्रभ्रमणैरनेकैः क्वचिद् भवान् देववरादिदेव । सन्मार्गिभिर्ज्ञानविशुद्धसत्त्वै - रुपास्यसे किं प्रलपाम्यहं त्वाम् ।। ७३.
एकं भवन्तं प्रकृतेः परस्ताद् यो वेत्त्यसौ सर्वविदादिबोद्धा । गुणा न तेषु प्रसभं विभेद्या विशालमूर्तिर्हि सुसूक्ष्मरूपः ।। ७३.
निर्वाक्यो निर्मनो विगतेन्द्रियोऽसि कर्माभवान्नो विगतैककर्मा । संसारवांस्त्वं हि न तादृशोऽसि पुनः कथं देववरासि वेद्यः ।। ७३.
मूर्तामूर्तं त्वतुलं लभ्यते ते परं वपुर्देव विशुद्धभावैः । संसारविच्छित्तिकरैर्यजद्भि - रतोऽवसीयेत चतुर्भुजस्त्वम् ।। ७३.
परं न जानन्ति यतो वपुस्ते देवादयोऽप्यद्भुतकारणं तत् । अतोऽवतारोक्ततनुं पुराण - माराधयेयुः कमलासनाद्याः ।। ७३.