उच्छुष्मनिरता रौद्राः सुरामांसप्रियाः सदा । स्त्रीलोलाः पापकर्माणः संभूता भूतलेषु ते ।। ७१.
तेषां गौतमशापाद्धि भविष्यन्त्यन्वये द्विजाः । तेषां मध्ये सदाचारा ये ते मच्छासने रताः ।। ७१.
स्वर्गं चैवापवर्गं च इति वै संशयात् पुरा । वैडालिकाऽधो यास्यन्ति मम संततिदूषकाः ।। ७१.
प्राग् गौतमाग्निना दग्धाः पुनर्मद्वचनाद् द्विजाः । नरकं तु गमिष्यन्ति नात्र कार्या विचारणा ।। ७१.
रुद्र उवाच । एवं मया ब्रह्मसुताः प्रोक्ता जग्मुर्यथागतम् । गौतमोऽपि स्वकं गेहं जगामाशु परंतपः ।। ७१.
एतद् वः कथितं विप्रा मया धर्मस्य लक्षणम् । एतस्माद् विपरीतो यः स पाषण्डरतो भवेत् ।। ७१.
श्रीवराह उवाच । सर्वज्ञं सर्वकर्त्तारं भवं रुद्रं पुरातनम् । प्रणम्य प्रयतोऽगस्त्यः पप्रच्छ परमेश्वरम् ।। ७२.
अगस्त्य उवाच । भवान् ब्रह्मा च विष्णुश्च त्रयमेतत् त्रयी स्मृता । दीपोऽग्निर्दोपसंयोगैः सर्वशास्त्रेषु सर्वतः ।। ७२.
कस्मिन् प्रधानो भगवान् काले कस्मिन्नधोक्षजः । ब्रह्मा वा एतदाचक्ष्व मम देव त्रिलोचन ।। ७२.
रुद्र उवाच । विष्णुरेव परं ब्रह्म त्रिभेदमिह पठ्यते । वेदसिद्धान्तमार्गेषु तन्न जानन्ति मोहताः ।। ७२.
विशप्रवेशने धातुस्तत्र ष्णु प्रत्ययादनु । विष्णुर्यः सर्वदेवेषु परमात्मा सनातनः ।। ७२.
योऽयं विष्णुस्तु दशधा कीर्त्यते चैकधा द्विजाः । स आदित्यो महाभाग योगैश्वर्यसमन्वितः ।। ७२.
स देवकार्याणि सदा कुरुते परमेश्वरः । मनुष्यभावमाश्रित्य स मां स्तौति युगे युगे । लोकमार्गप्रवृत्त्यर्थं देवकार्यार्थसिद्धये ।। ७२.
अहं च वरदस्तस्य द्वापरे द्वापरे द्विज । अहं च तं सदा स्तौमि श्वेतद्वीपे कृते युगे ।। ७२.
सृष्टिकाले चतुर्वक्त्रं स्तौमि कालो भवामि च । ब्रह्मा देवासुरा स्तौति मां सदा तु कृते युगे । लिङ्गमूर्तिं च मां देवा यजन्ते भोगकाङ्क्षिणः ।। ७२.
सहस्त्रशीर्षकं देवं मनसा तु मुमुक्षवः । यजन्ते यं स विश्वात्मा देवो नारायणः स्वयम् ।। ७२.
ब्रह्मयज्ञेन ये नित्यं यजन्ते द्विजसत्तमाः । ते ब्रह्माणं प्रीणयन्ति वेदो ब्रह्मा प्रकीर्तितः ।। ७२.
नारायणः शिवो विष्णुः शंकर पुरुषोत्तमः । एतैस्तु नामभिर्ब्रह्म परं प्रोक्तं सनातनम् । तं च चिन्तामयं योगं प्रवदन्ति मनीषिणः ।। ७२.
पशूनां शमनं यज्ञे होमकर्म च यद्भवेत् । तदोमिति च विख्यातं तत्राहं संव्यवस्थितः ।। ७२.
कर्मवेदयुजां विप्र ब्रह्मा विष्णुर्महेश्वरः । वयं त्रयोऽपि मन्त्राद्या नात्र कार्या विचारणा ।। ७२.
अहं विष्णुस्तथा वेदा ब्रह्म कर्माणि चाप्युत । एतत् त्रयं त्वेकमेव न पृथग् भावयेत् सुधीः ।। ७२.
योऽन्यथा भावयेदेतत् पक्षपातेन सुव्रत । स याति नरकं घोरं रौरवं पापपूरुषः ।। ७२.
अहं ब्रह्मा च विष्णुश्च ऋग्यजुः साम एव च । नैतस्मिन् भेदमस्यास्ति सर्वेषां द्विजसत्तम ।। ७२.
रुद्र उवाच । श्रृणु चान्यद् द्विजश्रेष्ठ कौतूहलसमन्वितम् । अपूर्वभूतं सलिले मग्नेन मुनिपुंगव ।। ७३.
ब्रह्माणाऽहं पुरा सृष्टः प्रोक्तश्च सृज वै प्रजाः । अविज्ञानसमर्थोऽहं निमग्नः सलिले द्विज ।। ७३.
तत्र यावत् क्षणं चैकं तिष्ठामि परमेश्वरम् । अङ्गुष्ठमात्रं पुरुषं ध्यायन् प्रयतमानसः ।। ७३.
तावज्जलात् समुत्तस्थुः प्रलयाग्निसमप्रभाः । पुरुषा दश चैकश्च तापयन्तोंशुभिर्जलम् ।। ७३.
मया पृष्टाः के भवन्तो जलादुत्तीर्य तेजसा । तापयन्तो जलं चेदं क्व वा यास्यथ संशत ।। ७३.
एवमुक्ता मया ते तु नोचुः किंचन सत्तमाः । एवमेव गतास्तूष्णीं ते नरा द्विजपुंगव ।। ७३.
ततस्तेषामनु महापुरुषोऽतीवशोभनः । स तस्मिन् मेघसंकाशः पुण्डरीकनिभेक्षणः ।। ७३.