एवमुक्तस्तदा तैस्तु गौतमः किमिदं त्विति । गोवध्याकारणं मह्यं तावत् पश्यति गौतमः ।। ७१.
ऋषीणां मायया सर्वमिदं जातं विचिन्त्य वै । शशाप तान् जटाभस्ममिथ्याव्रतधरास्तथा । भविष्यथ त्रयीबाह्या वेदकर्मबहिष्कृताः ।। ७१.
तच्छ्रुत्वा क्रूरवचनं गौतमस्य महामुनेः । ऊचुः सप्तर्षयो मैवं सर्वकालं द्विजोत्तमाः । भवन्तु किं तु ते वाक्यं मोघं नास्त्यत्र संशयः ।। ७१.
यदि नाम कलौ सर्वे भविष्यन्ति द्विजोत्तमाः । उपकारिणि ये ते हि अपकर्तार एव हि । इत्थंभूता अपि कलौ भक्तिभाजो भवन्तु ते ।। ७१.
त्वद्वाक्यवह्निनिर्दग्धाः सदा कलियुगे द्विजाः । भविष्यन्ति क्रियाहीना वेदकर्मबहिष्कृताः ।। ७१.
अस्याश्च गौणं नामेह नदी गोदावरीति च । गौर्दत्ता वरदानाच्च भवेद् गोदावरी नदी ।। ७१.
एतां प्राप्य कलौ ब्रह्मन् गां ददन्ति जनाश्च ये । यथाशक्त्या तु दानानि मोदन्ते त्रिदशैः सह ।। ७१.
सिंहस्थे च गुरौ तत्र यो गच्छति समाहितः । स्नात्वा च विधिना तत्र पितॄं स्तर्पयते तथा ।। ७१.
स्वर्गं गच्छन्ति पितरो निरये पतिता अपि । स्वर्गस्थाः पितरस्तस्य मुक्तिभाजो न संशयः ।। ७१.
त्वं ख्यातिं महतीं प्राप्य मुक्तिं यास्यसि शाश्वतीम् । एवमुक्त्वाऽथ मुनयो ययुः कैलासपर्वतम् । यत्राहमुमया सार्धं सदा तिष्ठामि सत्तमाः ।। ७१.
ऊचुर्मां ते च मुनयो भवितारो द्विजोत्तमाः । कलौ त्वद्रूपिणः सर्वे जटामुकुटधारिणः । स्वेच्छया प्रेतवेषाश्च मिथ्यालिङ्गधराः प्रभो ।। ७१.
तेषामनुग्रहार्थाय किंचिच्छास्त्रं प्रदीयताम् । येनास्मद्वंशजाः सर्वे वर्तेयुः कलिपीडिताः ।। ७१.
एवमभ्यर्थितस्तैस्तु पुराऽहं द्विजसत्तमाः । वेदक्रियासमायुक्तां कृतवानस्मि संहिताम् ।। ७१.
निःश्वासाख्यां ततस्तस्यां लीना बाभ्रव्यशाण्डिलाः । अल्पापराधाच्छ्रुत्वैव गता बैडालिका भवन् ।। ७१.
मयैव मोहितास्ते हि भविष्यं जानता द्विजाः । लौल्यार्थिनस्तु शास्त्राणि करिष्यन्ति कलौ नराः ।। ७१.
निःश्वाससंहितायां हि लक्षमात्रं प्रमाणतः । सैव पाशुपती दीक्षा योगः पाशुपतस्त्विह ।। ७१.
एतस्माद् वेदमार्गाद्धि यदन्यदिह जायते । तत् क्षुद्रकर्म विज्ञेयं रौद्रं शौचविवर्जितम् ।। ७१.
ये रुद्रमुपजीवन्ति कलौ वैडालिका नराः । लौल्यार्थिनः स्वशास्त्राणि करिष्यन्ति कलौ नराः । उच्छुष्मरुद्रास्ते ज्ञेया नाहं तेषु व्यवस्थितः ।। ७१.
भैरवेण स्वरूपेण देवकार्ये यदा पुरा । नर्तितं तु मया सोऽयं संबन्धः क्रूरकर्मणाम् ।। ७१.
क्षयं निनीषता दैत्यानट्टहासो मया कृतः । यः पुरा तत्र ये मह्यं पतिता अश्रुबिन्दवः । असंख्यातास्तु ते रौद्रा भवितारो महीतले ।। ७१.
उच्छुष्मनिरता रौद्राः सुरामांसप्रियाः सदा । स्त्रीलोलाः पापकर्माणः संभूता भूतलेषु ते ।। ७१.
तेषां गौतमशापाद्धि भविष्यन्त्यन्वये द्विजाः । तेषां मध्ये सदाचारा ये ते मच्छासने रताः ।। ७१.
स्वर्गं चैवापवर्गं च इति वै संशयात् पुरा । वैडालिकाऽधो यास्यन्ति मम संततिदूषकाः ।। ७१.
प्राग् गौतमाग्निना दग्धाः पुनर्मद्वचनाद् द्विजाः । नरकं तु गमिष्यन्ति नात्र कार्या विचारणा ।। ७१.
रुद्र उवाच । एवं मया ब्रह्मसुताः प्रोक्ता जग्मुर्यथागतम् । गौतमोऽपि स्वकं गेहं जगामाशु परंतपः ।। ७१.
एतद् वः कथितं विप्रा मया धर्मस्य लक्षणम् । एतस्माद् विपरीतो यः स पाषण्डरतो भवेत् ।। ७१.
श्रीवराह उवाच । सर्वज्ञं सर्वकर्त्तारं भवं रुद्रं पुरातनम् । प्रणम्य प्रयतोऽगस्त्यः पप्रच्छ परमेश्वरम् ।। ७२.
अगस्त्य उवाच । भवान् ब्रह्मा च विष्णुश्च त्रयमेतत् त्रयी स्मृता । दीपोऽग्निर्दोपसंयोगैः सर्वशास्त्रेषु सर्वतः ।। ७२.
कस्मिन् प्रधानो भगवान् काले कस्मिन्नधोक्षजः । ब्रह्मा वा एतदाचक्ष्व मम देव त्रिलोचन ।। ७२.
रुद्र उवाच । विष्णुरेव परं ब्रह्म त्रिभेदमिह पठ्यते । वेदसिद्धान्तमार्गेषु तन्न जानन्ति मोहताः ।। ७२.