एवमुक्तास्तु ते तेन तस्थुर्विविधभोजनम् । भुञ्जमाना अनावृष्टिर्यावत् सा निवृताऽभवत् ।। ७१.
निवृत्तायां तु वै तस्यामनावृष्ट्यां तु ते द्विजाः । तीर्थयात्रानिमित्तं तु प्रयातुं मनसोऽभवन् ।। ७१.
तत्र शाण्डिल्यनामानं तापसं मुनिसत्तमम् । प्रत्युवाचेति संचिन्त्य मीरीचः परमो मुनिः ।। ७१.
मारीच उवाच । शाण्डिल्य शोभनं वक्ष्ये पिता ते गौतमो मुनिः । तमनुक्त्वा न गच्छामस्तपश्चर्तुं तपोवनम् ।। ७१.
एवमुक्तेऽथ जहसुः सर्वे ते मुनयस्तदा । किमस्माभिः स्वको देहो विक्रीतोऽस्यान्नभक्षणात् ।। ७१.
एवमुक्त्वा पुनश्चोचुः सोपाधिगमनं प्रति । कृत्वा मायामयीं गां तु तच्छालौ ते व्यसर्जयन् ।। ७१.
तां चरन्तीं ततो दृष्ट्वा शालौ गां गौतमो मुनिः । गृहीत्वा सलिलं पाणौ याहि रुद्रेत्यभाषत । ततो मायामयी सा गौः पपात जलबिन्दुभिः ।। ७१.
निहतां तां ततो दृष्ट्वा मुनीन् जिगमिषूंस्तथा । उवाच गौतमो धीमांस्तान् मुनीन् प्रणतः स्थितः ।। ७१.
किमर्थं गम्यते विप्राः साधु शंसत माचिरम् । मां विहाय सदा भक्तं प्रणतं च विशेषतः ।। ७१.
ऋषय ऊचुः । गोवध्येयमिह ब्रह्मन् यावत् तव शरीरगा । तावदन्नं न भुञ्जामो भवतोऽन्नं महामुने ।। ७१.
एवमुक्तो गौतमोऽथ तान् मुनीन् प्राह धर्मवित् । प्रायश्चित्तं गोवध्याया दीयतां मे तपोधनाः ।। ७१.
इयं गौरमृता ब्रह्मन् मूर्च्छितेव व्यवस्थिता । गङ्गाजलप्लुता चेयमुत्थास्यति न संशयः ।। ७१.
प्रायश्चित्तं मृतायाः स्यादमृतायाः कृतं त्विदम् । व्रतं वा मा कृथाः कोपमित्युक्त्वा प्रययुस्तु ते ।। ७१.
गतैस्तैर्गौतमो धीमान् हिमवन्तं महागिरिम् । मामाराधयिषुः प्रायात् तप्तुं चाशु महत् तपः ।। ७१.
शतमेकं तु वर्षाणामहमाराधितोऽभवम् । तुष्टेन च मया प्रोक्तो वरं वरय सुव्रत ।। ७१.
सोऽब्रवीन्मां जकटासंस्थां देहि गङ्गां तपस्विनीम् । मया सार्धं प्रयात्वेषा पुण्या भागीरथी नदी ।। ७१.
एवमुक्ते जटाखण्डमेकं स प्रददौ शिवः । तां गृह्य गतवान् सोऽपि यत्रास्ते सा तु गौर्मृता ।। ७१.
तज्जलप्लाविता सा गौर्गता चोत्थाय भामिनी । नदी च महती जाता पुण्यतोया शुचिह्रदा ।। ७१.
तं दृष्ट्वा महदाश्चर्यं तत्र सप्तर्षयोऽमलाः । आजग्मुः खे विमानस्थाः साधुः साध्विति वादिनः ।। ७१.
साधु गौतम साधूनां कोन्योऽस्ति सदृशस्तव । यदेवं जाह्नवीं देवीं दण्डके चावतारयत् ।। ७१.
एवमुक्तस्तदा तैस्तु गौतमः किमिदं त्विति । गोवध्याकारणं मह्यं तावत् पश्यति गौतमः ।। ७१.
ऋषीणां मायया सर्वमिदं जातं विचिन्त्य वै । शशाप तान् जटाभस्ममिथ्याव्रतधरास्तथा । भविष्यथ त्रयीबाह्या वेदकर्मबहिष्कृताः ।। ७१.
तच्छ्रुत्वा क्रूरवचनं गौतमस्य महामुनेः । ऊचुः सप्तर्षयो मैवं सर्वकालं द्विजोत्तमाः । भवन्तु किं तु ते वाक्यं मोघं नास्त्यत्र संशयः ।। ७१.
यदि नाम कलौ सर्वे भविष्यन्ति द्विजोत्तमाः । उपकारिणि ये ते हि अपकर्तार एव हि । इत्थंभूता अपि कलौ भक्तिभाजो भवन्तु ते ।। ७१.
त्वद्वाक्यवह्निनिर्दग्धाः सदा कलियुगे द्विजाः । भविष्यन्ति क्रियाहीना वेदकर्मबहिष्कृताः ।। ७१.
अस्याश्च गौणं नामेह नदी गोदावरीति च । गौर्दत्ता वरदानाच्च भवेद् गोदावरी नदी ।। ७१.
एतां प्राप्य कलौ ब्रह्मन् गां ददन्ति जनाश्च ये । यथाशक्त्या तु दानानि मोदन्ते त्रिदशैः सह ।। ७१.
सिंहस्थे च गुरौ तत्र यो गच्छति समाहितः । स्नात्वा च विधिना तत्र पितॄं स्तर्पयते तथा ।। ७१.
स्वर्गं गच्छन्ति पितरो निरये पतिता अपि । स्वर्गस्थाः पितरस्तस्य मुक्तिभाजो न संशयः ।। ७१.
त्वं ख्यातिं महतीं प्राप्य मुक्तिं यास्यसि शाश्वतीम् । एवमुक्त्वाऽथ मुनयो ययुः कैलासपर्वतम् । यत्राहमुमया सार्धं सदा तिष्ठामि सत्तमाः ।। ७१.