एवमुक्ते तु रुद्रेण सर्वे ते मुनयो नृप । पप्रच्छुः शंकरं देवं मोहशास्त्रप्रयोजनम् ।। ७१.
ऋषय ऊचुः । मोहनार्थं तु लोकानां त्वया शास्त्रं पृथक् कृतम् । तत् त्वया हेतुना केन कृतं देव वदस्व नः ।। ७१.
रुद्र उवाच । अस्ति भारतवर्षेण वनं दण्डकसंज्ञितम् । तत्र तीव्रं तपो घोरं गौतमो नाम वै द्विजः ।। ७१.
चकार तस्य ब्रह्मा तु परितोषं गतः प्रभुः । उवाच तं मुनिं ब्रह्मा वरं ब्रूहि तपोधन ।। ७१.
एवमुक्तस्तदा तेन ब्रह्मणा लोककर्तृणा । उवाच सद्यः पङ्क्तिं मे धान्यानां देहि पद्मज ।। ७१.
एवमुक्तो ददौ तस्य तमेवार्थं पितामहः । लब्ध्वा तु तं वरं विप्रः शतश्रृङ्गे महाश्रमम् ।। ७१.
चकार तस्योषसि च पाकान्ते शालयो द्विजाः । लूयन्ते तेन मुनिना मध्याह्ने पच्यते तथा । सर्वातिथ्यमसौ विप्रो ब्राह्मणेभ्यो ददात्यलम् ।। ७१.
कस्यचित् त्वथ कालस्य महति द्वादशाब्दिका । अनावृष्टिर्द्विजवरा अभवल्लोमहर्षिणी ।। ७१.
तां दृष्ट्वा मुनयः सर्वे अनावृष्टिं वनेचराः । क्षुधया पीड्यमामास्तु प्रययुर्गौतमं तदा ।। ७१.
अथ तानागतान् दृष्ट्वा गौतमः शिरसा नतः । उवाच स्थीयतां मह्यं गृहे मुनिवरात्मजाः ।। ७१.
एवमुक्तास्तु ते तेन तस्थुर्विविधभोजनम् । भुञ्जमाना अनावृष्टिर्यावत् सा निवृताऽभवत् ।। ७१.
निवृत्तायां तु वै तस्यामनावृष्ट्यां तु ते द्विजाः । तीर्थयात्रानिमित्तं तु प्रयातुं मनसोऽभवन् ।। ७१.
तत्र शाण्डिल्यनामानं तापसं मुनिसत्तमम् । प्रत्युवाचेति संचिन्त्य मीरीचः परमो मुनिः ।। ७१.
मारीच उवाच । शाण्डिल्य शोभनं वक्ष्ये पिता ते गौतमो मुनिः । तमनुक्त्वा न गच्छामस्तपश्चर्तुं तपोवनम् ।। ७१.
एवमुक्तेऽथ जहसुः सर्वे ते मुनयस्तदा । किमस्माभिः स्वको देहो विक्रीतोऽस्यान्नभक्षणात् ।। ७१.
एवमुक्त्वा पुनश्चोचुः सोपाधिगमनं प्रति । कृत्वा मायामयीं गां तु तच्छालौ ते व्यसर्जयन् ।। ७१.
तां चरन्तीं ततो दृष्ट्वा शालौ गां गौतमो मुनिः । गृहीत्वा सलिलं पाणौ याहि रुद्रेत्यभाषत । ततो मायामयी सा गौः पपात जलबिन्दुभिः ।। ७१.
निहतां तां ततो दृष्ट्वा मुनीन् जिगमिषूंस्तथा । उवाच गौतमो धीमांस्तान् मुनीन् प्रणतः स्थितः ।। ७१.
किमर्थं गम्यते विप्राः साधु शंसत माचिरम् । मां विहाय सदा भक्तं प्रणतं च विशेषतः ।। ७१.
ऋषय ऊचुः । गोवध्येयमिह ब्रह्मन् यावत् तव शरीरगा । तावदन्नं न भुञ्जामो भवतोऽन्नं महामुने ।। ७१.
एवमुक्तो गौतमोऽथ तान् मुनीन् प्राह धर्मवित् । प्रायश्चित्तं गोवध्याया दीयतां मे तपोधनाः ।। ७१.
इयं गौरमृता ब्रह्मन् मूर्च्छितेव व्यवस्थिता । गङ्गाजलप्लुता चेयमुत्थास्यति न संशयः ।। ७१.
प्रायश्चित्तं मृतायाः स्यादमृतायाः कृतं त्विदम् । व्रतं वा मा कृथाः कोपमित्युक्त्वा प्रययुस्तु ते ।। ७१.
गतैस्तैर्गौतमो धीमान् हिमवन्तं महागिरिम् । मामाराधयिषुः प्रायात् तप्तुं चाशु महत् तपः ।। ७१.
शतमेकं तु वर्षाणामहमाराधितोऽभवम् । तुष्टेन च मया प्रोक्तो वरं वरय सुव्रत ।। ७१.
सोऽब्रवीन्मां जकटासंस्थां देहि गङ्गां तपस्विनीम् । मया सार्धं प्रयात्वेषा पुण्या भागीरथी नदी ।। ७१.
एवमुक्ते जटाखण्डमेकं स प्रददौ शिवः । तां गृह्य गतवान् सोऽपि यत्रास्ते सा तु गौर्मृता ।। ७१.
तज्जलप्लाविता सा गौर्गता चोत्थाय भामिनी । नदी च महती जाता पुण्यतोया शुचिह्रदा ।। ७१.
तं दृष्ट्वा महदाश्चर्यं तत्र सप्तर्षयोऽमलाः । आजग्मुः खे विमानस्थाः साधुः साध्विति वादिनः ।। ७१.
साधु गौतम साधूनां कोन्योऽस्ति सदृशस्तव । यदेवं जाह्नवीं देवीं दण्डके चावतारयत् ।। ७१.