युगानि त्रीण्यहं विप्र ब्रह्मा विष्णुस्तथैव च । त्रयोऽपि सत्त्वादिगुणास्त्रयो वेदास्त्रयोऽग्नयः ।। ७०.
त्रयो लोकास्त्रयः संध्यास्त्रयो वर्णास्तथैव च । सवनानि तु तावन्ति त्रिधा बद्धमिदं जगत् ।। ७०.
य एवं वेत्ति विप्रर्षे परं नारायणं तथा । अपरं पद्मयोनिं तु ब्रह्माणं त्वपरं तु माम् । गुणतो मुख्यतस्त्वेक एवाहं मोह इत्युत ।। ७०.
अगस्त्य उवाच । एवमुक्तस्ततो देवा ऋषयश्च पिनाकिना । अहं च नृपते तस्य देवस्य प्रणतोऽभवम् ।। ७१.
प्रणम्य शिरसा देवं यावत् पश्यामहे नृप । तावत् तस्यैव रुद्रस्य देहस्थं कमलासनम् ।। ७१.
नारायणं च हृदये त्रसरेणुसुसूक्ष्मकम् । ज्वलद्भास्करवर्णाभं पश्याम भवदेहतः ।। ७१.
तं दृष्ट्वा विस्मिताः सर्वे याजका ऋषयो मम । जयशब्दरवांश्चक्रुः सामऋग्यजुषां स्वनम् ।। ७१.
कृत्वोचुस्ते तदा देवं किमिदं परमेश्वर । एकस्यामेव मूर्तौ ते लक्ष्यन्ते च त्रिमूर्त्तयः ।। ७१.
रुद्र उवाच । यज्ञेऽस्मिन् यद्धुतं हव्यं मामुद्दिश्य महर्षयः । ते त्रयोऽपि वयं भागं गृह्णीमः कविसत्तमाः ।। ७१.
नास्माकं विविधो भावो वर्तते मुनिसत्तमाः । सम्यग्दृशः प्रपश्यन्ति विपरीतेष्वनेकशः ।। ७१.
एवमुक्ते तु रुद्रेण सर्वे ते मुनयो नृप । पप्रच्छुः शंकरं देवं मोहशास्त्रप्रयोजनम् ।। ७१.
ऋषय ऊचुः । मोहनार्थं तु लोकानां त्वया शास्त्रं पृथक् कृतम् । तत् त्वया हेतुना केन कृतं देव वदस्व नः ।। ७१.
रुद्र उवाच । अस्ति भारतवर्षेण वनं दण्डकसंज्ञितम् । तत्र तीव्रं तपो घोरं गौतमो नाम वै द्विजः ।। ७१.
चकार तस्य ब्रह्मा तु परितोषं गतः प्रभुः । उवाच तं मुनिं ब्रह्मा वरं ब्रूहि तपोधन ।। ७१.
एवमुक्तस्तदा तेन ब्रह्मणा लोककर्तृणा । उवाच सद्यः पङ्क्तिं मे धान्यानां देहि पद्मज ।। ७१.
एवमुक्तो ददौ तस्य तमेवार्थं पितामहः । लब्ध्वा तु तं वरं विप्रः शतश्रृङ्गे महाश्रमम् ।। ७१.
चकार तस्योषसि च पाकान्ते शालयो द्विजाः । लूयन्ते तेन मुनिना मध्याह्ने पच्यते तथा । सर्वातिथ्यमसौ विप्रो ब्राह्मणेभ्यो ददात्यलम् ।। ७१.
कस्यचित् त्वथ कालस्य महति द्वादशाब्दिका । अनावृष्टिर्द्विजवरा अभवल्लोमहर्षिणी ।। ७१.
तां दृष्ट्वा मुनयः सर्वे अनावृष्टिं वनेचराः । क्षुधया पीड्यमामास्तु प्रययुर्गौतमं तदा ।। ७१.
अथ तानागतान् दृष्ट्वा गौतमः शिरसा नतः । उवाच स्थीयतां मह्यं गृहे मुनिवरात्मजाः ।। ७१.
एवमुक्तास्तु ते तेन तस्थुर्विविधभोजनम् । भुञ्जमाना अनावृष्टिर्यावत् सा निवृताऽभवत् ।। ७१.
निवृत्तायां तु वै तस्यामनावृष्ट्यां तु ते द्विजाः । तीर्थयात्रानिमित्तं तु प्रयातुं मनसोऽभवन् ।। ७१.
तत्र शाण्डिल्यनामानं तापसं मुनिसत्तमम् । प्रत्युवाचेति संचिन्त्य मीरीचः परमो मुनिः ।। ७१.
मारीच उवाच । शाण्डिल्य शोभनं वक्ष्ये पिता ते गौतमो मुनिः । तमनुक्त्वा न गच्छामस्तपश्चर्तुं तपोवनम् ।। ७१.
एवमुक्तेऽथ जहसुः सर्वे ते मुनयस्तदा । किमस्माभिः स्वको देहो विक्रीतोऽस्यान्नभक्षणात् ।। ७१.
एवमुक्त्वा पुनश्चोचुः सोपाधिगमनं प्रति । कृत्वा मायामयीं गां तु तच्छालौ ते व्यसर्जयन् ।। ७१.
तां चरन्तीं ततो दृष्ट्वा शालौ गां गौतमो मुनिः । गृहीत्वा सलिलं पाणौ याहि रुद्रेत्यभाषत । ततो मायामयी सा गौः पपात जलबिन्दुभिः ।। ७१.
निहतां तां ततो दृष्ट्वा मुनीन् जिगमिषूंस्तथा । उवाच गौतमो धीमांस्तान् मुनीन् प्रणतः स्थितः ।। ७१.
किमर्थं गम्यते विप्राः साधु शंसत माचिरम् । मां विहाय सदा भक्तं प्रणतं च विशेषतः ।। ७१.
ऋषय ऊचुः । गोवध्येयमिह ब्रह्मन् यावत् तव शरीरगा । तावदन्नं न भुञ्जामो भवतोऽन्नं महामुने ।। ७१.