कृते नारायणः शुद्धः सूक्ष्ममूर्तिरुपास्यते । त्रेतायां यज्ञरूपेण पञ्चरात्रैस्तु द्वापरे ।। ७०.
कलौ मत्कृतमार्गेण बहुरूपेण तामसैः । इज्यते द्वेषबुद्ध्या स परमात्मा जनार्दनः ।। ७०.
न तस्मात् परतो देवो भविता न भविष्यति । यो विष्णुः स स्वयं ब्रह्मा यो ब्रह्मा सोऽहमेव च ।। ७०.
वेदत्रयेऽपि यज्ञेऽस्मिन् याज्यं वेदेषु निश्चयः । यो भेदं कुरुतेऽस्माकं त्रयाणां द्विजसत्तम । स पापकारी दुष्टात्मा दुर्गतिं गतिमाप्नुयात् ।। ७०.
इदं च श्रृणु मेऽगस्त्य गदतः प्राक्तनं तथा । यथा कलौ हरेर्भक्तिं न कुर्वन्तीह मानवाः ।। ७०.
भूर्लोकवासिनः सर्वे पुरा यष्ट्वा जनार्दनम् । भुवर्लोकं प्रपद्यन्ते तत्रस्था अपि केशवम् । आराध्य स्वर्गतिं यान्ति क्रमान्मुक्तिं व्रजन्ति च ।। ७०.
एवं मुक्तिपदे व्याप्ते सर्वलोकैस्तथैव च । मुक्तिभाजस्ततो देवास्तं दध्युः प्रयता हरिम् ।। ७०.
सोऽपि सर्वगतत्वाच्च प्रादुर्भूतः सनातनः । उवाच ब्रूत किं कार्यं सर्वयोगिवराः सुराः ।। ७०.
ते तं प्रणम्य देवेशमूचुश्च परमेश्वरम् । देवदेव जनः सर्वो मुक्तिमार्गे व्यवस्थितः । कथं सृष्टिः प्रभविता नरकेषु च को वसेत् ।। ७०.
एवमुक्तस्ततो देवैस्तानुवाच जनार्दनः । युगानि त्रीणि बहवो मामुपेष्यन्ति मानवाः ।। ७०.
अन्त्ये युगे प्रविरला भविष्यन्ति मदाश्रयाः । एष मोहं सृजाम्याशु यो जनं मोहयिष्यति ।। ७०.
त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय । अल्पायासं दर्शयित्वा फलं दीर्घं प्रदर्शय ।। ७०.
कुहकं चेन्द्रजालानि विरुद्धाचरणानि च । दर्शयित्वा जनं सर्वं मोहयाशु महेश्वर ।। ७०.
एवमुक्त्वा तदा तेन देवेन परमेष्ठिना । आत्मा तु गोपितः सद्यः प्रकाश्योऽहं कृतस्तदा ।। ७०.
तस्मादारभ्य कालं तु मत्प्रणीतेषु सत्तम । शास्त्रेष्वभिरतो लोको बाहुल्येन भवेदतः ।। ७०.
वेदानुवर्त्तिनं मार्गं देवं नारायणं तथा । एकीभावेन पश्यन्तो मुक्तिभाजो भवन्ति ते ।। ७०.
मां विष्णोर्व्यतिरिक्तं ये ब्रह्माणं च द्विजोत्तम । भजन्ते पापकर्माणस्ते यान्ति नरकं नराः ।। ७०.
ये वेदमार्गनिर्मुक्तास्तेषां मोहार्थमेव च । नयसिद्धान्तसंज्ञाभिर्मया शास्त्रं तु दर्शितम् ।। ७०.
पाशोऽयं पशुभावस्तु स यदा पतितो भवेत् । तदा पाशुपतं शास्त्रं जायते वेदसंज्ञितम् ।। ७०.
वेदमूर्तिरहं विप्र नान्यशास्त्रार्थवादिभिः । ज्ञायते मत्स्वरूपं तु मुक्त्वा वेदमनादिमत् । वेदवेद्योऽस्मि विप्रर्षे ब्राह्मणैश्च विशेषतः ।। ७०.
युगानि त्रीण्यहं विप्र ब्रह्मा विष्णुस्तथैव च । त्रयोऽपि सत्त्वादिगुणास्त्रयो वेदास्त्रयोऽग्नयः ।। ७०.
त्रयो लोकास्त्रयः संध्यास्त्रयो वर्णास्तथैव च । सवनानि तु तावन्ति त्रिधा बद्धमिदं जगत् ।। ७०.
य एवं वेत्ति विप्रर्षे परं नारायणं तथा । अपरं पद्मयोनिं तु ब्रह्माणं त्वपरं तु माम् । गुणतो मुख्यतस्त्वेक एवाहं मोह इत्युत ।। ७०.
अगस्त्य उवाच । एवमुक्तस्ततो देवा ऋषयश्च पिनाकिना । अहं च नृपते तस्य देवस्य प्रणतोऽभवम् ।। ७१.
प्रणम्य शिरसा देवं यावत् पश्यामहे नृप । तावत् तस्यैव रुद्रस्य देहस्थं कमलासनम् ।। ७१.
नारायणं च हृदये त्रसरेणुसुसूक्ष्मकम् । ज्वलद्भास्करवर्णाभं पश्याम भवदेहतः ।। ७१.
तं दृष्ट्वा विस्मिताः सर्वे याजका ऋषयो मम । जयशब्दरवांश्चक्रुः सामऋग्यजुषां स्वनम् ।। ७१.
कृत्वोचुस्ते तदा देवं किमिदं परमेश्वर । एकस्यामेव मूर्तौ ते लक्ष्यन्ते च त्रिमूर्त्तयः ।। ७१.
रुद्र उवाच । यज्ञेऽस्मिन् यद्धुतं हव्यं मामुद्दिश्य महर्षयः । ते त्रयोऽपि वयं भागं गृह्णीमः कविसत्तमाः ।। ७१.
नास्माकं विविधो भावो वर्तते मुनिसत्तमाः । सम्यग्दृशः प्रपश्यन्ति विपरीतेष्वनेकशः ।। ७१.