स्वे स्वे स्थाने स्थिता आसन् यावद् देवाः सवासवाः । तावत् तत्रैव भगवानागतो वृषभध्वजः ।। ७०.
महादेवो विरूपाक्षस्त्र्यम्बको नीललोहितः । सोऽपि रौद्रे स्थितः स्थाने बभूव परमेश्वरः ।। ७०.
तान् सर्वानागतान् दृष्ट्वा देवानृषिमहोरगान् । सनत्कुमारो भगवानाजगामाब्जसंभवः ।। ७०.
त्रसरेणुप्रमाणेन विमाने सूर्यसन्निभे । अवस्थितो महायोगी भूतभव्यभविष्यवित् ।। ७०.
आगम्य शिरसा रुद्रं स ववन्दे महामुनिः । मया प्रणमितस्तस्थौ समीपे शूलपाणिनः ।। ७०.
तानहं संस्थितान् देवान् नारदादीनृषींस्तथा । सनत्कुमाररुद्रौ च दृष्ट्वा मे मनसि स्थितम् ।। ७०.
क एषां भवते याज्यो वरिष्ठश्च नृपोत्तम । केन तुष्टेन तुष्टाः स्युः सर्व एते सरुद्रकाः ।। ७०.
एवं कृत्वा स्थिते राजन् रुद्रः पृष्टो मयाऽनघ । एवमर्थं क इज्योऽत्र युष्माकं सुरसत्तमाः ।। ७०.
एवमुक्ते तदोवाच रुद्रो मां सुरसन्निधौ ।। ७०.
रुद्र उवाच । श्रृण्वन्तु बिबुधाः सर्वे तथा देवर्षयोऽमलाः । ब्रह्मर्षयश्च विख्याता सर्वे श्रृण्वन्तु मे वचः । त्वं चागस्त्य महाबुद्धे श्रृणु मे गदतो वचः ।। ७०.
यो यज्ञैरीड्यते देवो यस्मात् सर्वमिदं जगत् । उत्पन्नं सर्वदा यस्मिंल्लीनं भवति सामरम् ।। ७०.
नारायणः परो देवः सत्त्वरूपो जनार्दनः । त्रिधात्मानं स भगवान् ससर्ज परमेश्वरः ।। ७०.
रजस्तमोभ्यां युक्तोऽभूद् रजः सत्त्वाधिकं विभुः । ससर्ज नाभिकमले ब्रह्माणं कमलासनम् ।। ७०.
रजसा तमसा युक्तः सोऽपि मां त्वसृजत् प्रभुः । यत्सत्त्वं स हरिर्देवो यो हरिस्तत्परं पदम् ।। ७०.
ये सत्त्वरजसी सोऽपि ब्रह्मा कमलसंभवः । यो ब्रह्मा सैव देवस्तु यो देवः सः चतुर्मुखः । यद्रजस्तमसोपेतं सोऽहं नास्त्यत्र संशयः ।। ७०.
सत्त्वं रजस्तमश्चैव त्रितयं चैतदुच्यते । सत्त्वेन मुच्यते जन्तुः सत्त्वं नारायणात्मकम् ।। ७०.
रजसा सत्त्वयुक्तेन भवेत् सृष्टी रजोऽधिका । तच्च पैतामहं वृत्तं सर्वशास्त्रेषु पठ्यते ।। ७०.
यद्वेदबाह्यं कर्म स्याच्छास्त्रमुद्दिश्य सेव्यते । तद्रौद्रमिति विख्यातं कनिष्ठं गदितं नृणाम् ।। ७०.
यद्धीनं रजसा कर्म केवलं तामसं तु यत् । तद् दुर्गतिपरं नॄणामिह लोके परत्र च ।। ७०.
सत्त्वेन मुच्यते जन्तुः सत्त्वं नारायणात्मकम् । नारायणश्च भगवान् यज्ञरूपी विभाव्यते ।। ७०.
कृते नारायणः शुद्धः सूक्ष्ममूर्तिरुपास्यते । त्रेतायां यज्ञरूपेण पञ्चरात्रैस्तु द्वापरे ।। ७०.
कलौ मत्कृतमार्गेण बहुरूपेण तामसैः । इज्यते द्वेषबुद्ध्या स परमात्मा जनार्दनः ।। ७०.
न तस्मात् परतो देवो भविता न भविष्यति । यो विष्णुः स स्वयं ब्रह्मा यो ब्रह्मा सोऽहमेव च ।। ७०.
वेदत्रयेऽपि यज्ञेऽस्मिन् याज्यं वेदेषु निश्चयः । यो भेदं कुरुतेऽस्माकं त्रयाणां द्विजसत्तम । स पापकारी दुष्टात्मा दुर्गतिं गतिमाप्नुयात् ।। ७०.
इदं च श्रृणु मेऽगस्त्य गदतः प्राक्तनं तथा । यथा कलौ हरेर्भक्तिं न कुर्वन्तीह मानवाः ।। ७०.
भूर्लोकवासिनः सर्वे पुरा यष्ट्वा जनार्दनम् । भुवर्लोकं प्रपद्यन्ते तत्रस्था अपि केशवम् । आराध्य स्वर्गतिं यान्ति क्रमान्मुक्तिं व्रजन्ति च ।। ७०.
एवं मुक्तिपदे व्याप्ते सर्वलोकैस्तथैव च । मुक्तिभाजस्ततो देवास्तं दध्युः प्रयता हरिम् ।। ७०.
सोऽपि सर्वगतत्वाच्च प्रादुर्भूतः सनातनः । उवाच ब्रूत किं कार्यं सर्वयोगिवराः सुराः ।। ७०.
ते तं प्रणम्य देवेशमूचुश्च परमेश्वरम् । देवदेव जनः सर्वो मुक्तिमार्गे व्यवस्थितः । कथं सृष्टिः प्रभविता नरकेषु च को वसेत् ।। ७०.
एवमुक्तस्ततो देवैस्तानुवाच जनार्दनः । युगानि त्रीणि बहवो मामुपेष्यन्ति मानवाः ।। ७०.