त्वया च सप्त जन्मानि अहमाराधितः पुरा । तेन त्रैलोक्यनाशेऽपि त्वमेकस्त्वभिलक्षितः ।। ६९.
एवमुक्तस्तदा तेन निद्रामीलितलोचनः । पतितोऽहं धरापृष्ठे तत्क्षणात् पुनरुत्थितः ।। ६९.
यावत्पश्याम्यहं राजन् तमृषिं तच्च वै पुरम् । तावन्मेरुगिरेर्मूर्ध्निं पश्याम्यात्मानमात्मना ।। ६९.
समुद्रान् सप्त पश्यामि तथैव कुलपर्वतान् । सप्तद्वीपवतीं पृथ्वीं दृष्टवानस्मि पार्थिव ।। ६९.
अद्यापि तं लोकवरं ध्यायंस्तिष्ठामि सुव्रत । कदा प्राप्स्येऽथ तं लोकमिति चिन्तापरोऽभवम् ।। ६९.
एवं ते कौतुकं राजन् कथितं परमेष्ठिनः । यद् वृत्तं मम देहे तु किमन्यच्छ्रोतुमिच्छसि ।। ६९.
भद्राश्व उवाच । भगवन् किं कृतं लोकं त्वया तमनुपश्यता । व्रतं तपो वा धर्मो वा प्राप्त्यर्थं तस्य वै मुने ।। ७०.
अनाराध्य हरिं भक्त्या को लोकान् कामयेद् बुधः । आराधिते हरौ लोकाः सर्वे करतलेऽभवन् ।। ७०.
एवं संचिन्त्य राजेन्द्र मया विष्णुः सनातनः । आराधितो वर्षशतं क्रतुभिर्भूरिदक्षिणैः ।। ७०.
ततः कदाचिद् बहुना कालेन नृपनन्दन । यजतो मम देवेशं यज्ञमूर्तिं जनार्दनम् । आहूता आगता देवाः सममेव सवासवाः ।। ७०.
स्वे स्वे स्थाने स्थिता आसन् यावद् देवाः सवासवाः । तावत् तत्रैव भगवानागतो वृषभध्वजः ।। ७०.
महादेवो विरूपाक्षस्त्र्यम्बको नीललोहितः । सोऽपि रौद्रे स्थितः स्थाने बभूव परमेश्वरः ।। ७०.
तान् सर्वानागतान् दृष्ट्वा देवानृषिमहोरगान् । सनत्कुमारो भगवानाजगामाब्जसंभवः ।। ७०.
त्रसरेणुप्रमाणेन विमाने सूर्यसन्निभे । अवस्थितो महायोगी भूतभव्यभविष्यवित् ।। ७०.
आगम्य शिरसा रुद्रं स ववन्दे महामुनिः । मया प्रणमितस्तस्थौ समीपे शूलपाणिनः ।। ७०.
तानहं संस्थितान् देवान् नारदादीनृषींस्तथा । सनत्कुमाररुद्रौ च दृष्ट्वा मे मनसि स्थितम् ।। ७०.
क एषां भवते याज्यो वरिष्ठश्च नृपोत्तम । केन तुष्टेन तुष्टाः स्युः सर्व एते सरुद्रकाः ।। ७०.
एवं कृत्वा स्थिते राजन् रुद्रः पृष्टो मयाऽनघ । एवमर्थं क इज्योऽत्र युष्माकं सुरसत्तमाः ।। ७०.
एवमुक्ते तदोवाच रुद्रो मां सुरसन्निधौ ।। ७०.
रुद्र उवाच । श्रृण्वन्तु बिबुधाः सर्वे तथा देवर्षयोऽमलाः । ब्रह्मर्षयश्च विख्याता सर्वे श्रृण्वन्तु मे वचः । त्वं चागस्त्य महाबुद्धे श्रृणु मे गदतो वचः ।। ७०.
यो यज्ञैरीड्यते देवो यस्मात् सर्वमिदं जगत् । उत्पन्नं सर्वदा यस्मिंल्लीनं भवति सामरम् ।। ७०.
नारायणः परो देवः सत्त्वरूपो जनार्दनः । त्रिधात्मानं स भगवान् ससर्ज परमेश्वरः ।। ७०.
रजस्तमोभ्यां युक्तोऽभूद् रजः सत्त्वाधिकं विभुः । ससर्ज नाभिकमले ब्रह्माणं कमलासनम् ।। ७०.
रजसा तमसा युक्तः सोऽपि मां त्वसृजत् प्रभुः । यत्सत्त्वं स हरिर्देवो यो हरिस्तत्परं पदम् ।। ७०.
ये सत्त्वरजसी सोऽपि ब्रह्मा कमलसंभवः । यो ब्रह्मा सैव देवस्तु यो देवः सः चतुर्मुखः । यद्रजस्तमसोपेतं सोऽहं नास्त्यत्र संशयः ।। ७०.
सत्त्वं रजस्तमश्चैव त्रितयं चैतदुच्यते । सत्त्वेन मुच्यते जन्तुः सत्त्वं नारायणात्मकम् ।। ७०.
रजसा सत्त्वयुक्तेन भवेत् सृष्टी रजोऽधिका । तच्च पैतामहं वृत्तं सर्वशास्त्रेषु पठ्यते ।। ७०.
यद्वेदबाह्यं कर्म स्याच्छास्त्रमुद्दिश्य सेव्यते । तद्रौद्रमिति विख्यातं कनिष्ठं गदितं नृणाम् ।। ७०.
यद्धीनं रजसा कर्म केवलं तामसं तु यत् । तद् दुर्गतिपरं नॄणामिह लोके परत्र च ।। ७०.
सत्त्वेन मुच्यते जन्तुः सत्त्वं नारायणात्मकम् । नारायणश्च भगवान् यज्ञरूपी विभाव्यते ।। ७०.